| YouTube Channel

अविवेकी (avivekI)

 
E Bharati Sampat
Sanskrit
(वि) (अविवेकिन्) विवेकी विवेकः अस्य अस्ति विवेकी + विवेक + इनिः ‘अत इनिठनौ’ (५.२.११५) १. विवेकशून्यः, अविवेचकः ‘अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्त्रयम्’ (कुव.) २. अज्ञानी ‘मयाविवेकिना तस्य हृदये जनिता व्यथा सर्वपापहरो विष्णुः मया व्यथितः कृतः’ (पद्मपु.क्रियायो.सा - ११) ३. त्वरितः
शब्दकल्पद्रुमः
Sanskrit
अविवेकी, [न्] त्रि, (न विवेकी नञ्तत्पुरुषः ।विवेकशून्यः अविवेचकः यथा “तस्माद-विवेकिनः सुखमात्रलिप्सवो नात्राधिकारिणः”)इति मुक्तिवादस्य गादाधरी टीका अपि ।“अस्मिन् प्रसन्ने देवेन्द्रे परमं धाम लभ्यते ।मयाविवेकिना तस्य हृदये जनिता व्यथा
सर्व्वपापहरो विष्णः मया व्यथितः कृतः” ।इति पाद्मे क्रियायोगसारे ११ अध्यायः