| YouTube Channel

अविवाह्या (avivAhyA)

 
शब्दकल्पद्रुमः
Sanskrit
अविवाह्या,
स्त्री,
(न विवाह्या नञ्तत्पुरुषः ।)विवाहानर्हा यथा सुमन्तुः “मातृपितृ-सम्बद्धा आसप्तमादविवाह्याः कन्या भवन्ति” ।आपञ्चमादन्येषां मतं नारदोऽपि ।“आसप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः ।अविवाह्या सगोत्रा समानप्रवरा तथा
सप्तमे पञ्चमे वापि येषां वैवाहिकी क्रिया ।ते सन्तानिनः सर्व्वे पतिताः शूद्रतां गताः”
*
सर्व्वाः पितृपत्न्यो मातरस्तद्भ्रातरो मातुलास्तद्-दुहितरो भगिन्यस्तदपत्यानि भागिनेयानि ता-श्चाविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्याप-यितुरेतदेवेति ताश्च यथा पितृपितामहा-दीनां सप्तानां सन्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या ।एवं पितृबन्धुप्रभृतिसम्बन्धघटकानां सप्तानां स-न्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या एवं मातामह-प्रमातामहादीनां पञ्चानां सन्ततिः पञ्चमीप-र्य्यन्ता नोद्वाह्या एवं मातृबन्धुप्रभृतिसम्बन्ध-घटकानां पञ्चानां सन्ततिः पञ्चमीपर्य्यन्ता नो-द्वाह्या बन्धुतन्मात्रोरसत्वेऽपि पितृमातामह-मातृमातामहप्रभृत्युपरितनानां पञ्चानां त्रयाणांसप्तमीपञ्चमीपय्यन्ता नीद्वाह्येति एवञ्च पितु-र्म्मातुश्च मातामहकन्यान्तरसत्वे तामादाय सप्त-मीपञ्चमीपर्य्यन्तायाः परीहारः एवं बन्ध्वन्तरे-ऽप्यूह्यं बन्ध्वपेक्षया त्रिगोत्रगणनं परतः सर्वत्र ।पूर्व्वतस्तु पितुर्म्मातुश्च मातुलपुत्त्ररूपबन्धोरपिस्वापेक्षया अन्येषां बन्धूनां मातामहगोत्रापेक्षयात्रिगोत्रगणनं सर्वसामञ्जस्यं स्यात् अन्यथापितुः पितामहदौहित्रीकन्यायाः पितामहभगि-नीपुत्त्रबन्ध्वपेक्षया त्रिगोत्रात् पराया विवाहःप्रसज्येत चायुक्तः पितृगोत्रापेक्षया तस्यास्त्रि-गोत्रमध्यवर्त्तित्वात् एवं पितुः प्रमातामहदौ-हित्रीकन्यायाः पितामहीभगिनीपुत्त्रबन्ध्वपेक्षयात्रिगोत्रात् पराया विवाहः प्रसज्येत चाप्य-युक्तः पितामहीभ्रातृपुत्त्रबन्ध्वपेक्षया तस्यास्त्रि-गोत्रमध्यवर्त्तित्वात् एवं मातुः प्रपिता-महदौहित्रीकन्याया मातामहभगिनीपुत्त्रबन्ध्वपे-क्षया त्रिगोत्रात् पराया विवाहः प्रसज्येत सचायुक्तः वरस्य मातामहापेक्षया तस्यास्त्रिगोत्र-मध्यवर्त्तित्वात् एवं मातुः प्रमातामहदौहित्री-कन्याया मातामहीभगिनीपुत्त्रबन्ध्वपेक्षया त्रि-गोत्रात् पराया विवाहः प्रसज्येत चायुक्तः ।मातामहीभ्रातृपुत्रबन्ध्वपेक्षया तस्या स्त्रिगोत्र-मध्यवर्त्तित्वात् इति एवं मातृसपत्नीभ्रातृ-सन्ततिः पितृमातृसगोत्रादयोऽप्यविवाह्याः
*
असवर्णाया अविवाह्यत्वं यथा कलौ त्वस-वर्णया अविवाह्यत्वमाह वृहन्नारदीयं ।“समुद्रयात्रास्वीकारः कमण्डलुविधारणं ।द्विजानामसवर्णासु कन्यासूपयमस्तथा”
इत्यादि इत्युद्वाहतत्त्वं