| YouTube Channel

अविवाच्य (avivAcya)

 
वाचस्पत्यम्
Sanskrit
अविवाच्य
न०
नास्ति विशेषेण वाच्यो मन्त्रादिः यत्र ।अत्यग्निष्टोमसंस्थे दशमाहे “अत्यग्निष्टोमोऽविवाच्यं दश-मम्” कात्या० १२, ३, २१, “अत्यग्निष्टोमसंस्थमविवाच्यंदशममहर्भवति” कर्क० “नास्मिन्नहनि केनचित्कस्यचित् विवाच्यमविवाच्यमित्याचक्षते” आश्व०श्रौ० २, १२, १० अस्मिन्नहनि केनचित् कस्मैचित् कर्त्त्रेमन्त्रः कर्म्म वा विवाच्यं नाख्यावव्यमित्यर्थः कुतः?यस्मादेतदहः अविवाच्यमिति श्रुतौ प्रसिद्धम् परस्पर-मविवचनीयमेतस्मिन्नहनीत्यविवाच्यमिदमहर्भवति