| YouTube Channel

अवियोगव्रत (aviyogavrata)

 
वाचस्पत्यम्
Sanskrit
अवियोगव्रत
न०
अवियोगार्थं व्रतम् मार्गशीर्षशुक्लतृतीयाकर्त्तव्ये स्त्रीणां व्रतभेदे “अवैधव्यप्रदं स्त्रीणामवियोगव्रतंत्विदम् मार्गशीर्षे सिते पक्षे स्नातो शुक्लाम्बरप्रिया ।दृष्ट्वा चन्द्रं द्वितीयायां नक्तं भुञ्जीत पायस” मित्युपक्रम्यकालिकापुराणे दर्शितम् तद्विधिश्च हेमा० व्र० ख०तृतीयाव्रतप्रकरणे उक्तस्तत एवावसेयः