| YouTube Channel

अविमुक्तं (avimuktaM)

 
पुराणम्
English
अविमुक्तम् / AVIMUKTA(M). The middle part of the city of kāśī. There is a holy temple here. It is said that those who commit suicide in this temple would attain heaven. (Vana Parva, Chapter 64, Stanzas 78 and 79). For more information see the word divodāsa.
शब्दकल्पद्रुमः
Sanskrit
अविमुक्तं,
क्ली,
(वि + मुच् + क्त ततो, विमुक्तम् ।नञ् तत्पुरुषः ।) वाराणसीक्षेत्रं यथा, --“मुने प्रलयकालेऽपि तत् क्षेत्रं कदाचन ।विमुक्तं शिवाभ्यां यदविमुक्तं ततो विदुः
अविमुक्तं तदारभ्य क्षेत्रमेतदुदीर्य्यते ।अस्यानन्दवनं नाम पुराऽकारि पिनाकिना ।क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरं
आनन्दकन्दवीजानामङ्कुराणि यतस्ततः ।ज्ञेयानि सर्व्वलिङ्गानि तस्मिन्नानन्दकाननेअविमुक्तमिति ख्यातमासीदित्थं घटोद्भव” ।इति काशिखण्डे २६ अध्यायः
(मूर्द्धचिवकान्त-रालस्थाने यथा, --‘एष योऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’इति “आमनन्ति चैनं परमेश्वरमस्मिन् मूर्द्ध-चिवुकान्तराले” इति भाष्ये ।)