| YouTube Channel

अविनीतः (avinItaH)

 
E Bharati Sampat
Sanskrit
(वि) विनीतः १. अविधेयः २. उद्धतः अविनीतः समुद्धतः’ (अमरः) ३. असभ्यः ‘ववृते विनीतमविनीतशासिभिः’ - माघः १३.२४ ४. अशिक्षितः ‘नाविनीतैर्व्रजेद् धुयैर्न क्षुद्व्याधिपीडितैः भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः’ (मनुः ४.६७) (स्त्री) अविनीता स्वैरिणी
शब्दकल्पद्रुमः
Sanskrit
अविनीतः, त्रि, (न विनीतः नञ्तत्पुरुषः ।)विनयरहितव्यक्तिः तत्पर्य्यायः समुद्धतः ।इत्यमरः
(यथा, --“न चापि प्रतिकूलेन नाविनीतेन रावण ! ।राज्यं पालयितुं शक्यं राज्ञा तीक्ष्णेन वा पुनः”
इति रामायणे अनियमितः यथा, --“नाविनीतैर्व्रजेद्धूर्य्ये क्षुद्व्याधिपीडितैः”
इति मनुः ।)