अविद्या (avidyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Hindi
Hindiआध्यात्मिक अज्ञानता
Apte Hindi
Hindiअविद्या
"स्त्री* , न*त*" - -
आध्यात्मिक अज्ञान
अविद्या
"स्त्री* , न*त*" - -
"भ्रम, माया "
Shabdartha Kaustubha
Kannadaअविद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಜ್ಞಾನ /ತಿಳಿಗೇಡಿತನ /ತಿಳುವಳಿಕೆಯಿಲ್ಲದಿರುವಿಕೆ
निष्पत्तिः - > विरोधे न त० ।
व्युत्पत्तिः - > न विद्या
अविद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವಿಶಿಷ್ಟಾದ್ವೈತಿಗಳ ಮತದಲ್ಲಿ ವಿದ್ಯೆಗಿಂತಲೂ ಬೇರೆಯಾದ ಕರ್ಮ
प्रयोगाः - > "तर्तुं मृत्युमविद्यया"
उल्लेखाः - > बृहदा०
अविद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅದ್ವೈತಿಗಳ ಮತದಲ್ಲಿ ಜ್ಞಾನಕ್ಕೆ ವಿರೋಧಿಯಾದ ಅಜ್ಞಾನ /ಮಾಯೆ /ಭ್ರಾಂತಿ
अविद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯೋಗಶಾಸ್ತ್ರದಲ್ಲಿ ೫ ವಿಧವಾದ ಕ್ಲೇಶಗಳಲ್ಲೊಂದು
प्रयोगाः - > "अनित्याशुचिदुःखानात्मसु नितुअशुचिसुखात्मख्यातिरविद्या"
उल्लेखाः - > पा० यो० सू० २-५
L R Vaidya
EnglishE Bharati Sampat
Sanskrit(स्त्री) न विद्या(विरोधे न.त) । १. अज्ञानम् । ‘अथाज्ञानमविद्याहंमतिः स्रियाम्’ (अमरः) । २. माया-इति वेदान्ते । अहङ्कारहेतुकम्’ अज्ञानम्, मिथ्याज्ञानम्, विद्याविरोधिनी, अयथार्थबुद्धिः । ‘अविद्याया अविद्यात्वमिदमेव तु लक्षणम् । यत्प्रमाणासहिष्णुत्वमन्यथा वस्तु सा भवेत्’ ॥ ‘सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद् दिवाकरम्" । अव्यक्तमहदहङ्कार पञ्चतन्मात्रेषु अनात्मसु आत्मब्रुद्धिः ‘शरीरे मनुष्योऽहम्’ इत्यादिः । अविद्या सर्वक्लेशमूलभूता तमः इत्युच्यते। ‘अविरोधितया कर्म नाऽविद्यां विनिवर्तयेत् । विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् ॥ ३. विद्यातः भिन्ना कर्मसञ्ज्ञा । (वि.अ) (आत्मबोधः) ‘तर्तुं मृत्युमविद्या’ (बृहदा.) । ‘अविद्या कर्मसञ्ज्ञान्या तृतीया शक्तिरिष्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥ (वि.पु ६.७.६१) । ४. विद्याविरोधिनी माया, भ्रान्तिः । ‘मायोपाधिरयं जीवोऽविद्योपाधिरीश्वरः’ । (अ.वे) । ५. पञ्चक्लेशेषु अन्यतमः (यो.शा) ‘अविद्यास्मितारागद्वेषाभिनिवेशाः’ (पा.योगसूत्रम् २.३) । अनित्याशुचिदुः रवानात्मसु नित्युंचिसुखात्मख्यातिरविद्या - २.५ ।। ६. ज्ञानाभावः - न्याय० । ७. ज्ञानप्रागाभावापरपर्यायज्ञानानातावस्था - सङ्खादि० ।
Edgerton Buddhist Hybrid
EnglishWordnet
Sanskrit अज्ञानम्, अविद्या
वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।
"अज्ञानात् जीव एव ब्रह्मः इति ज्ञातुं न शक्यते।"
अज्ञानम्, अविद्या, अहम्मतिः, तमः, मोहः, महामोहः, तामिस्रम्, अन्धतामिस्रम्
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
"गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।"
अविद्या
विद्यायाः अभावः।
"अविद्या विद्यया एव दूरीकर्तुं शक्यते।"
Sanskrit Tibetan
Tibetankhrul
१) अविद्या २) भ्रम ३) भ्रान्ति ४) विभ्रम ५) विवर्त ६) संभ्रान्ति
अभिधानचिन्तामणिः
Sanskritअविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥
अविद्या (स्त्री), अहम्मति (स्त्री), अज्ञान (क्ली), भ्रान्ति (स्त्री), मिथ्यामति (स्त्री), भ्रम (पुं)
Tamil
Tamilஅவித்3யா : அறியாமை, மாயை, ஆன்மீக அறிவு இன்மை.
शब्दकल्पद्रुमः
Sanskritअविद्या, (न विद्या । नञ्तत्पुरुषः ।) अ-ज्ञानं । इत्यमरः ॥
माया । इति वेदान्ते ॥
(अह-ङ्कारहेतुकमज्ञानं, मिथ्याज्ञानं, विद्याविरोधिनी, अयथार्थबुद्धिः । यदुक्तम्, --“अविद्याया अविद्यात्वमिदमेव तु लक्षणम् ।यत्प्रमाणासहिष्णुत्वमन्यथा वस्तु सा भवेत्” ॥
अन्यच्च, “सेयं भ्रान्तिर्निरालम्बा सर्व्वन्यायविरोधिनी ।सहते न विचारं सा तमो यद्वद्दिवाकरम्” ।अव्यक्तमहदहङ्कार पञ्चतन्मात्रेष्वनात्मस्वात्मबुद्धिः ।यथा, -- “शरीरे मनुष्योऽहमित्यादि” । इयञ्चसर्वक्लेशमूलभूता तम इत्युच्यते ।“अविरोधितया कर्म्म नाऽविद्यां विनिवर्त्तयेत् ।विद्याविद्यां निहन्त्येव तेजस्तिमिरसंघवत्” ॥
इति आत्मबोधः ।)
वाचस्पत्यम्
Sanskritअविद्या स्त्री न विद्या विरोधे त० । विद्याविरोधिनि १ अ-ज्ञाने २ ज्ञानाभावे च । अविद्या च न्यायमते ज्ञानाभावः ।सांख्यादिमते ज्ञानप्रागभावापरपर्य्यायज्ञानानगतावास्थासा च पञ्चभेदा “अविद्या पञ्चपर्व्वैषा प्रादुर्भूता महात्मनः”इति पुरा० पञ्च पर्व्वाणि च “अविद्याऽस्मितारागद्वेषाभि-निवेशा” इति पात० सूत्रोक्तानि । तत्र “अ-नित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या”पात० सू० । व्याख्यातञ्च तद्वृत्तौ यथा अविद्या“अतस्मिन् तद्बुद्धिरित्यर्थः अमरा देवा इत्यनित्येषुनित्यत्वभ्रान्त्या देवत्वार्थं कर्म कृत्वा बध्यन्ते, एवमशुचौस्त्रीकाये शुचित्वभ्रान्त्या बध्यन्ते तदुक्तं भगवता व्यासेन“स्थानाद्वीजादुपष्टम्भान्निष्यन्दान्निघनादपि । कायमाधे-शौचत्वात् पण्डिताह्यशुचिं विदुरिति” विण्मूत्रसङ्कुलं मातु-रुदरं स्थानं, शुक्रशीणितं वीजम्, अन्नपरिणामश्लेष्मादि-रुपष्टम्भः सर्वद्वारैर्मलानां स्रवणं निष्यन्दः । निधनं मरणम् ।तेन हि श्रोत्रियकायोप्यत्यन्ताशुचिर्भवति आधेयशौचत्वंस्नानानुलेपनादिना शुचित्वापादनम् । तथा परिणामदुःखेभोगे सुखत्वभान्तिः अनात्मनि वुद्ध्यादावात्मख्यातिःअविद्या तत्त्वविद्याविरोधिनीत्यर्थः । यद्यपि शुक्तिरूपाद्य-विद्याः सन्ति तथापि पञ्चविधैवाविद्या बन्धमूलमितिभावः”इयमविद्याऽदृष्टत्वेन नैयायिकैरङ्गीकृता “इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात् प्रकृतिःप्रबोधभयतोऽविद्येति यस्योदिता” कुसु० “यस्येशस्य सहकारिशक्तिः कारणम् एषा सहकारिरूपा माया असमत्वात्सर्व्वकार्य्यापेक्षणीयत्वात् दुरुन्नेयत्वसादृश्यात् माया-पदेऽदृष्टे लक्षणा । मूलत्वात् प्रकृतिः सैव, तत्त्वज्ञानप्रति-बध्यत्वात् सैवाविद्या उदिता उक्ता” हरिदासः ।क्षणिकविज्ञानवादिनस्तु “अभिन्नोऽपि हि बुद्ध्यात्मा विप-र्य्यासनिदर्शनैः । ग्राह्यग्राहकसंवित्तिर्भेदवानिव लक्ष्यते”इत्युक्तदिशा क्षणिकविज्ञानमेवैकं तत्त्वं बाह्यं वस्तु नास्तितथाहि बाह्यपदार्थाभावेऽपि मिथ्याज्ञानरूपयाऽविद्ययासर्व्वं वस्तु कल्पितमित्याहुः । तदेतत् सांख्ये निराकृतम् ।यथा “नाविद्यातोऽप्यवस्तुना बन्धायोगात्” सू० “अविद्या-तोऽपि न साक्षाद्बन्धयोगः अद्वैतवादिनां “तेषामवि-द्याया अप्यवास्तत्वेन तया बन्धायोगात् न हि स्वाप्नरज्ज्वाबन्धनं दृष्टम् । नच “न निरोधो न चोत्पत्ति र्न बन्धोन च साधकः । न मुमुक्षु र्न वै मुक्त इत्येषा परार्थता” इति“बन्धमौक्षौ सुखं दुःखं मोहापत्तिश्च मायया । स्वप्ने यथा-त्मनःख्यातिः संसृतिर्न तु वास्तवी” इतिचोक्तेःबन्धोऽप्यवास्तवइति वाच्यम् विज्ञानाद्वैतश्रवणोत्तरं बन्धनिवृत्तये योगा-भ्यासविरोधात् बन्धमिथ्यात्वश्रवणेन बन्धनिवृत्त्यासिड्वत्वनिश्चयात् तदर्थबह्वायाससाध्ययोगाङ्गानुष्ठानासम्भवात्” भा०“वस्तुत्वे सिड्वान्तहानिः” सू० “यदि चाविद्याया वस्तुत्वंस्वीक्रियते तदा स्वाभ्युपगतस्याविद्यानृतत्वस्य हानिः”भा० । “विजातीयद्वैतापत्तिश्च” सू० । “किञ्चाविद्यायावस्तुत्वे क्षणिकविज्ञानसन्तानाद्विजातीयम् द्वैतं प्रसज्येततच्च भवतामनिष्टम् । सन्तानान्तःपातिव्यक्तीनामानन्त्यात्सजातीयं द्वैतमिष्यतएव तैरित्याशयेन विजातीयेति ।नन्वविद्याया अपि ज्ञानविशेषत्वादविद्यया कथं विजातीय-द्वैतमिति चेन्न ज्ञानरूपाविद्याया बन्धोत्तरकालीनतयावासनारूपाविद्याया एव तैर्बन्धहेतुत्वाभ्युपगमात् । वासनातु ज्ञानाद्विजातीयेतिभावः” भा० । “नासद्रूपा न सद्रूपामाया नैवोभयात्मिका । सदसद्भ्यामनिर्वाच्या मिथ्याभूतासनातनी” त्युक्तिमनुसृत्याशङ्कते “विरुद्धोभयरूपा चेत्” सू०“विरुद्धं यदुभयं सदसच्च ततो विलक्षणणं वा तद्रूपैवाविद्यावक्तव्या अतो न तया पारमार्थिकाद्वैतभङ्ग इति चेदित्यर्थः ।व्यक्ताव्यक्तत्वरूपसदसत्तयोः स्वमतसिद्धयोर्विरोधोनास्तीतिसूचनाय विरुद्धेतिपदम्” भा० दूषयति । “न तादृक्-पदार्थाप्रतीतेः” सू० । विरुद्धधर्म्मवत्पदार्थस्यासिद्धे-रित्यर्थः । अपि चाविद्यायाः साक्षादेव दुःखयोगाख्यबन्ध-हेतुत्वे ज्ञानेन विद्याक्षयानन्तरं प्रारब्धभोगानुपपत्तिःबन्धपर्य्यायस्य दुःखभोगस्य कारणनाशात् । अस्मदादिमतेतु नायं दोषः संयोगद्वारैवाविद्याकर्म्मादीनां बन्धहेतुत्वात्जन्माख्यः संयोगः प्रारब्धसमाप्तिं विना न नश्यति” भा० ।पुनः शङ्कते । “न वयं षट्पदार्थवादिनो वैशेषिकादिवत्”सू० “वैशेषिकाद्यास्तिकवन्न वयं षट्षोडशादिनियतपदार्थवादिनः । अतोऽप्रतीतोऽपि सदसदात्मकः सदसद्वि-लक्षणो वा पदार्थोऽविद्योत्यभ्युपेयमिति भावः” भा० । परि-हरति । “अनियतत्वेऽपि नायौक्तिकस्य संग्रहोऽन्यथा बालोन्मत्तादिसमत्वम्” सू० । “पदार्थनियमोमास्तु तथापिभावाभावविरोधेन युक्तिविरुद्धस्य सदसदात्मकपदार्थस्य संग्रहोभवद्वचनमात्राच्छिष्याणां न सम्भवति । अन्यथा बालका-द्युक्तस्याप्ययौक्तिकस्य संग्रहः स्यादित्यर्थः । श्रुत्यादिकमस्मिन्नर्थे स्फुटं नास्ति युक्तिविरोधेन च सन्दिग्धश्रुतेरर्था-न्तरसिद्धिरिति भावः” भा० । एवं क्षणिकविज्ञानवादनिरसनेन वेदान्तिसमुद्भाविताविद्याऽपि प्रकृतिरेवेति तत्रैवव्यवस्थापितम् । यथा “पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञा-मात्रम्” सू० ॥
“अविद्यादिद्वारेण परम्परया पुरुषस्यजगन्मू-लकारणत्वेऽप्येकस्मिन्नविद्यादौ यत्र कुत्रचिन्नित्ये द्वारे पर-म्परायाः पर्यवसानं भविष्यति पुरुषस्यापारिणामित्वात् ।अतो यत्र पर्यवसानं सैव नित्या प्रकृतिः । प्रकृतिरिह मूल-कारणस्य संज्ञामात्रमित्यर्पः” भा० ॥
नन्वेवं अविद्या स्थानीयप्रकृतेर्नित्यत्वानुपपत्तेस्तस्या उत्पत्तिश्रुतेर्ज्ञाननाश्यत्वा-च्चेत्याशयेन मूलसमाघानमाह । “समानः प्रकृतेर्द्ब-योः” सू० ॥
“वस्तुतस्तु प्रकृतेर्मूलकारणविचारेद्वयोर्वादिप्र-तिवादिनोरावयोः समानः पक्षः । एतदुक्तं भवति यथा प्रकृ-तेरुत्पत्तिः श्रूयते एवमविद्याया अपि । “अविद्या पञ्चप-र्वैषा प्रदुर्भूता महात्मनः” इत्यादिवाक्यैः । अत एकस्याअवश्यं गौण्युत्पत्तिर्वक्तव्या । तत्र च प्रकृतेरेव पुरुषसंयो-गादिभिरभिव्यक्तिरूपा गौण्युत्पत्तिर्युक्ता । “संयोगलक्षणो-त्पत्तिः कथ्यते कर्मज्ञानयोरिति” कौर्मवाक्ये प्रकृतिपुरुष-योर्गौणोत्पत्तिस्मरणात् । अविद्यायाश्च क्वापि गौणोत्प-त्त्यश्रवणात् । तस्या अनादितावाक्यानि तु प्रवाहरूपेणैववासनाद्यनादिवाक्यवद्व्याख्येयानीति । अविद्या च मिथ्या-ज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न नित्यत्व-हानिः । अथ वा द्वयोः प्रकृतिपुरुषयोः समान एव न्यायइत्यर्थः । “यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणंसकलस्यास्य स नो विष्णुः प्रसीदतु” इत्यादिवाक्यैः पुरुष-स्याप्युत्पत्तिश्रवणादिति भावः । तथा च पुरुषस्येव प्रकृते-रप्रि गौण्येवीत्पत्तिः नित्यत्वश्रवणात्तदपि समान-मिति । तस्मात् प्रकृतिरेवोपादानं जगतः प्रकृतिघर्मश्चाबिद्याजगन्निमित्तकारणं तथा पुरुषोऽपीति सिद्धम् । यत् तु ।“अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणम्” सर्गप्रलयनिर्मुक्तंविद्यां वै पञ्चविंशकम्” इति मोक्षधर्मे प्रकृतिपुरुषयोर-विद्याविद्येति वचनं तत् तदुभयविषयतयोपचरितमेव । परि-णामित्वेन हि पुरुषापेक्षया प्रकृतिरसतीति तस्या अविद्या-विषयत्वमुक्तम् । एवमेव तस्मिन् प्रकरणे स्वस्वकारणापेक्षयाभूतान्तं कार्यजातमविद्येत्युक्तं स्वस्वापेक्षया च स्वस्वकारणं-विद्येति । पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रकृत्यु-पाधिकमेव कर्तृत्वादिवच्छ्रुतिस्मृत्योरुपासार्थमेवानूद्यते ।अन्यथा “अस्थूलमनण्वह्रस्वमित्यादि” श्रुतिविरोधापत्तेरितिमन्तव्यम् । मायाशब्देन च प्रकृतिरेवोच्यते “मायां तु प्र-कृतिं बिद्यादिति” श्रुतौ “तस्मान्मायी सृजते विश्वमेतत्”“तस्मिंश्चात्मा मायया सन्निरुद्धः” इति पूर्वप्रक्रान्तमायायाःप्रकृतिस्वरूपतावचनात् । “सत्त्वं रजस्तम इति प्राकृतं तुगुणत्रयम् । एतन्मयी च प्रकृतिर्माया या वैष्णवी श्रुता” ॥
“लोहितश्वेतकृष्णेति तस्यास्तादृग्वहुप्रजाः” इत्यादिस्मृतिभ्यश्च । न तु ज्ञाननाश्याविद्या मायाशब्दार्थो नित्यतानु-पपत्तेः । किञ्चाविद्याया द्रव्यत्वे शब्दमात्रभेदो गुणत्वे चतदाधारतया प्रकृतिसिद्धिः पुरुषस्य निर्गणत्वादिभ्यः ।अथ द्रव्यगुणकर्मविलक्षणैवास्माभिरविद्या वक्तव्येति चेन्नतादृक्पदार्थाप्रतीतेरुक्तत्वादिति” भा० । वेदान्तिनस्तुज्ञानविरोधि अज्ञानापरपर्य्यायं पदार्थान्तरमविद्येतिस्वीचक्रुः तच्च विस्तरेण अज्ञानशब्दे ९३ पृष्ठे दर्शितम् ।इयञ्चाविद्या मूलाविद्यातूलाविद्याभेदेन द्विविधा । तत्रहिरण्यगर्भोपाधिर्मूलाविद्या तूलाविद्याश्च प्रतिजीवभेदंनाना मायाशब्देनाभिधीयन्ते । “मायोपाधिरयं जीवःअविद्योपाधिरीश्वर” इत्युक्तेः “इन्द्रोमायाभिः पुरुरू-पईयते” इतिश्रुतेश्च तथात्वम् । मायानाञ्च मूलाविद्या-कार्य्यत्वात् अविद्य्यशब्दवाच्यताऽपि । अतएव आविद्यिकोजीव इति तत्तत्स्थाने भाष्यकारादिभिरुक्तम् । स्वस्वा-न्तःकरणरूपाविद्योपाधौ तत्त्वज्ञाने समुत्पन्ने तदीयैवाऽ-विद्या निवर्त्तते नान्यत्र इत्येकमुक्तौ न सर्वमुक्ति-रिति बन्धमांक्षव्यवस्था । अधिकमाकरे दृश्यम् । वैशे-षिकास्तु विपर्य्ययसंशयज्ञानमविद्येत्याहुः तत्कारणप्रदर्शनपूर्व्वकमविद्या लक्षिता वै० सू० उपस्करे च यथा “इन्द्रि-यदोषात् संस्करदोषाच्चाविद्या” ॥
“अविद्येति सामाम्य-वाच्यपि पदं विपर्य्यये वर्त्तते प्रकरणात् संशयस्वप्नान-ध्यवसायानामुक्तत्वात्, तत्रेन्द्रियदोषोवातपित्ताद्यभिभव-कृतमपाटवम्, संस्कारदोषोविशेषादर्शनसाहित्यं तदधीनंहि मिथ्याक्षानं जायते” ॥
“तच्च दुष्टज्ञानम्” सू० ॥
तदि-ऽत्यव्ययपदं सर्व्वनामसमानार्थकमविद्यां परामृशतिंसाऽविद्या, दुष्टज्ञानं व्यभिचारि ज्ञानमतस्मिंस्तदितिज्ञानंव्यधिकरणप्रकारावच्छिन्नविशेष्यावृत्तिप्रकारकसिति यावत्, दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि, तेनैककोटिसत्यत्वेऽपिसंशयोदुष्ट एवानवधारणात्मकत्वात्’ तदनेन संशयो-विपर्य्ययस्वप्नानध्यवसायानाञ्चत्तुर्णामप्युपसंग्रहः” उप० ॥
“विद्याविद्याद्वैविध्यात् संशयः” गौ० सू० । नास्ति विद्याशास्त्रादिज्ञानं यस्य । ३ शास्त्रादिज्ञानशून्ये “अविद्योवा सविद्यो वा ब्राह्मणो मामकी तनुः” पुरा० ।“वैद्योऽविद्याय नाकामो दद्यादंर्श स्वतो धनात्”दा० भा० स्मृतिः । “अविद्यानान्तु सर्व्वेषामीहातश्चेद्धनंभवेत्” मनुः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
