| YouTube Channel

अविद्यः (avidyaH)

 
E Bharati Sampat
Sanskrit
(वि) नास्ति विद्या (ज्ञानं) यस्य ‘गोस्त्रियोरुपसर्जनस्य’ (१.२.४८) समासान्तह्रस्वः १. विद्यारहितः ‘अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् समस्तत्र विभागः स्यादपित्र्य इति धारणा’ (मनुः ९.२०५)
शब्दकल्पद्रुमः
Sanskrit
अविद्यः, त्रि, (नास्ति विद्या यस्य सः ।) विद्यारहितः ।अविद्वान् विद्याहीनः यथा, --“अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः” ।अपि कात्यायनः ।“नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्”
इति दायतत्त्वं
अन्यच्च ।“अविद्यानान्तु सर्वेषामीहातश्चेद्धनं भवेत् ।समस्तत्र विभागः स्यादपित्र्य इति धारणा”
इति मानवे अध्याये २०५ श्लोकः