| YouTube Channel

अविज्ञः (avijJaH)

 
शब्दकल्पद्रुमः
Sanskrit
अविज्ञः, त्रि, (न विज्ञः नञ्तत्पुरुषः ।) अप्रवीणः ।अनिपुणः अनभिज्ञः अशिक्षितः अकृती ।यथा, --एते सर्व्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवं ।त्वां वाञ्छन्ति याः कान्तास्ता अविज्ञाश्च वञ्चिताः”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २३ अध्यायः