अविग्रह (avigraha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअविग्रह [avigraha], [नास्ति विग्रहो यस्य]
Bodiless, incorporeal
epithet of the Supreme Being (who has no body).
Not known. -हः (In ) A compound the sense of which cannot be expressed by its constituent parts separately (नित्यसमास).
Apte 1890
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiअविग्रह
"वि*, न*त*" - -
"शरीररहित, परब्रह्म का विशेषण"
अविग्रहः
- -
नित्य समास
Shabdartha Kaustubha
Kannadaअविग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಿತ್ಯಸಮಾಸ
व्युत्पत्तिः - > नास्ति विग्रहो वृत्त्यर्थावबोधकं वाक्यं यस्य
अविग्रह
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ದೇಹವಿಲ್ಲದ /ಶರೀರವಿಲ್ಲದ
व्युत्पत्तिः - > नास्ति विग्रहो देहो यस्य
प्रयोगाः - > "अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वमूर्ति तिष्ठतः"
उल्लेखाः - > किरा० १८-३३
अविग्रह
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ತಿಳುವಳಿಕೆಯಿಲ್ಲದ /ಅರಿವಿಲ್ಲದ
व्युत्पत्तिः - > नास्ति विशेषेण ग्रहो यस्य
L R Vaidya
Englishवाचस्पत्यम्
Sanskritअविग्रह नास्ति विशेषेण ग्रहो यस्य । १ विशेषरूपेणाज्ञाते“अविग्रहा गतादिस्था यथा ग्रामादिकर्म्मभिः” हरिः । नविग्रहो वृत्तिसमानार्थकंवाक्यं यस्य । २ व्याकरणोक्तेनित्यस-मासे । नास्ति विग्रहो देहो यस्य । ३ निरवयवे परमेशे नास्ति मीमांसकोक्ते ४ विग्रहशून्ये देवे च । तैर्हिदेवानां विग्र-हवत्त्वं खण्डितं तच्च शङ्कापूर्व्वकं जै० सू० भाष्ये च दर्शितंयथा--“देवता वा प्रयोजबेदतिथिवद्भोजनस्य तदर्थत्वात्” सू०“नैतदस्ति, --अग्न्यादयोऽप्रयोजकाः--इति, सर्व्वा देवताःसर्व्वेषां धर्म्माणां प्रयोजिकाः भवितुमर्हन्ति । कुतः? ।‘भोजनस्य तदर्थत्वात्’, --भोजनं हि इदं देवतायाः, यागो नाम, भोज्यं द्रव्यं देवतायै प्रदीथते, सा भो-क्ष्यते--इति, देवतासम्प्रदानको हि अयं यागः श्रूयते, सम्रदानं च नाम कर्म्मणोऽपि ईप्सिततमादभिप्रेततरम्, तस्मात् न गुणभूता देवता, देवतां प्रति गुणभूते द्रव्यकर्म्मणी ।अपि च यागो नाम देवतापूजा, पूजा च पूजनीयं प्रतिगुणभूता लोके दृश्यते, तदेतत् ‘अतिथिवत्’ द्रष्टव्यं, यथायावत्किञ्चित् अतिथेः परिचरणं, सर्व्वं तत् अतिथिप्रयुक्तम्एवम् इदमपि--इति । आह, --“ननु एवं ब्रुवता, विग्र-हवती देवता भ्वङ्क्ते च--इत्यभ्युपगतं भवति” । उच्यते, वाढं, विग्रहवती देवता भुङ्क्ते च । कुतः? । स्मृतेः, उपचारात्, अन्यार्थदर्शनाच्च, --एवं हि स्मरन्ति, विग्रह-वती देवता--इति, स्मृतिश्च नः प्रमाणम् । तथा विग्रह-वतीं देवताम् उपचरन्ति, --यमं दण्डहस्तमालिखन्ति, कथयन्ति च, तथा वरुणं पाशहस्तम्, इन्द्रं वज्रहस्तं, उप-चारादपि स्मृतेर्द्रढिमानं कल्पयामः । तथा अन्यार्थवचनं, विग्रहवतीं देवतां दर्शयति, --“जगृम्भा ते दक्षिणम् इन्द्र!हस्तम्”--इति, पुरुषविग्रहस्य हि दक्षिणः सव्यश्च हस्तोभवति । तथा “इमे चित् इन्द्र! रोदसी अपारे यत् संगृम्भा मघवन्! काशिरित्ते, --इति, काशिर्मुष्टिः, सोऽपिपुरुषविग्रहस्य एव उपपद्यते । तथा, “तुविग्रीवो वयोदरःसुबाहुरन्धसो मदे । इन्द्रो! वृत्राणि जिघ्नते” इति, ग्रीवाउदरं बाहू इति पुरुषविग्रहदर्शनं भवति । तस्मात् विग्र-हवती देवता इति । भङ्क्ते च । कथम् अवगम्यते? ।स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं स्मरन्ति, भुङ्क्ते देवता इति । तथा च एनाम् भुञ्जानाम्इव उपचरन्ति, यदस्यै विविधान् उपचारान् उप-हरन्ति । तथा च अन्यार्थवचनं भुञ्जनाम् देवतांगमयति, --“अद्धीन्द्र! पिब च प्रस्थितस्य”--इति, तथाच, “विश्वासनानि जठरेषु धत्ते” इति, “एकया प्रति धापिबत्साकं सरांसि त्रिंशतम्” इति । आह, “न देवताभुङ्क्ते, यदि च भुञ्जीत देवतायै हविः प्रत्तं क्षीयेत” ।उच्यते, अन्नरसभोजिनी देवता मधुकरीवत् अबगम्यते ।कथम्? । देवतायै हविः प्रत्तं नीरसं भवति, तस्मात् अन्न-रसं भुङ्क्ते देवता इति गम्यते” भा० । “आर्थपत्याच्च” सू० ।“यदि कस्यचित् अर्थस्य ईशाना देवता उपचर्यमाणा चप्रसीदेत् ततः तदाराधनार्थम् इयं देवतापूजा अभिनिर्व-र्त्त्येत, न च एतदुभयम् अपि अस्ति इति, तत् उच्यते, अर्थ-पतिर्द्देवता इति । कथम् अवगम्यते? । स्मृतेः, उपचारात्अन्यार्थदर्शनाच्च, एवं हि स्मरन्ति, अर्थानाम् ईष्टेदेवता इति । तथा, देवग्रामो देवक्षेत्रम् इत्युपचारस्तामेवस्मृतिं द्रढयति । तथा अन्यार्थवचनम् ईशानां देवतांदर्शयति, “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्रइत् पर्वतानां, इन्द्रो वृधाम् इन्द्र इन्मेधिराणाम् इन्द्रःक्षेमे योगे हव्ये इन्द्रः’ इति, तथा, “ईशानम् अस्यजगतः स्व ईशम् ईशानम् इन्द्र! तस्थुषे” इति । तथा, स्मृत्युपचाराभ्यां प्रसीदति इत्युपगच्छामः, एवं हिस्मरन्ति, प्रसीदति देवता इति । तथा उपचरन्ति, प्रस-न्नोऽस्य पशुपतिः, पुत्रोऽस्य जातः, प्रसन्नोऽस्य वैश्रवणोधनम् अनेन लब्धम् इति । तथा अन्यार्थदर्शनं भवति, आहुतिभिरिव हुतादौ देवान् प्रीणाति’ इति, तस्मै प्रीताइषमूर्जं नियच्छन्ति’ इति” भा० । “ततश्च तेन सम्बन्धः”सू० । “ततो” देवतायाः, तेन फलेन सम्बन्धः परिचरि-तुर्भवति, यो देवताम् इज्यया परिचरति, तं सा फलेनसम्बध्नाति । कथम् एतत् अवगम्यते? । स्मृत्युपचाराभ्यांस्मरन्ति हि, देवता यष्टुः फलं ददाति इति, तामेव उपचारेणस्मृतिं द्रढयति, पशुपतिः, अनेनौपचरितः पुत्रोऽनेन लब्धःइति । तथा अन्यार्थदर्शनम् इममेव अर्थं दर्शयति, “स, इत् जनेन स विशा स जन्मना स पुत्रैर्वाजम्भरते धनानृभिः । देवानाम् यः पितरमावि वासति श्रद्धासनाहविषा ब्रह्मणस्पतिम्” इति तथा, “तृप्त एवैनम् इन्द्रःप्रजया पशुभिः तर्पयति” इति तस्मात् हविर्द्दानेनगुणवचनैश्च देवता आराध्यते, सा प्रीता सती फलं प्रयच्छतियेन कर्म्मणा अग्निराराधितः, तस्य फलस्य ईष्टे, तत्कर्त्त्रे प्रयच्छति, न तत् सूर्य्यः प्रदातुमर्हति, वचनादेतत् अवगम्यते । कः किं प्रयच्छति? इतियथा अग्नौ वचनं, न तत् सूर्य्ये” भा० । “अपि वाशब्दपूर्व्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः”सू० । “अपि वा इति पक्षो व्यावर्त्त्यते । न चैतदस्तियदुक्तं देवता प्रयोजिका” इति, “यज्ञकर्म्म प्रधानं स्यात्”यजतेर्जातम् अपूर्व्वम् । कुतः? । “शब्दपूर्व्वत्वात्”, यत्हि फलं ददाति, तत् प्रयोजकम् इदं फलं ददातिइत्येतत् ज्ञानं शब्दपूर्व्वकं न प्रत्यक्षादिभिः अवगम्यते, शब्दश्च यजतिवाच्यात् फलम् आह, न देवतायाः ।कथम् अवगम्यते? । दर्शपूर्णमासयोः करणत्वेन निर्द्देशः“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति, तथा, “ज्योति-ष्टोमेन स्वर्गकामो यजेत” इति, यजत्यर्थस्य हि स्वर्गकामेनसमभिव्याहारो न देवतायाः । “ननु द्रव्यदेवताक्रियंयजत्यर्थः” । सत्यमेवं, किन्तु “गुणत्वे देवताश्रुतिः”, द्रव्यदेवतं हि भूतं, भावयितव्यो यजत्यर्थः, भूतभव्य-समुच्चारणे च भूतं भव्याय उपदिश्यते, तस्मात् न देवताप्रयोजिका । अथ यदुक्तं “कर्मण ईप्सितादभिप्रेततरम्”इति न अस्य अभिप्रेतताम् अपह्नुमहे, तद्धितशब्देनचतुर्थ्या वा संयुक्तस्य देवतार्थस्य वाक्यात् अभिप्रेतताअवगम्यते, । फलसंयोगस्तु वाक्यादेव यजत्यर्थस्य । तस्य चश्रुत्या करणता अवगम्यते, न देवतायाः । तत्र यद्यपिदेवतार्थता यागस्य गम्यते । पलार्थतापि तेन न प्रतिषि-ध्यते, फलं च पुरुषार्थः पुरुषार्था च नः प्रवृत्तिः, न चअसौ देवतायाः, तस्मात् न देवताप्रयुक्ताः प्रवर्त्तिष्यामहे, या तु, सम्प्रदानस्य अभिप्रेतता सा फलवतो यजेः, साधनत्वे सति उपपद्यते । यच्च, --यजिर्द्देवतापूजासा पूज्यमानप्रधाना लोके लक्ष्यते--इति, न लोक-वत् इह भवितव्यम्, इह पूज्यमानपूजा प्रधानं, यत् हि फलवत् तत् प्रयोजकं, तस्मात् यज्ञकर्म प्रयोज-कम् । अपिच, एतस्मिन् पक्षे विग्रहवती देवताभुङ्क्ते च--इति अध्यवसनीयं भवति, न हि अविग्रहायैअभुञ्जनायै च दानं भोजनं वा सम्भवति--इति” । यच्चउक्तं स्मृत्युपचारान्यार्थदर्शनैर्विग्रहवती, भुङ्के च-इति । तन्न, स्मृतेर्मन्त्रार्थवादमूलत्वात्--मन्त्रेभ्यश्च अर्थ-वादेभ्यश्च स्मृतिमूलं विज्ञानम् उत्पद्यते--इति प्रत्यक्षम् अव-गम्यते, ते च मन्त्रार्थवादा नैवंपराः--इत्येतत् वक्ष्यामः ।आह, ‘यदि नैवंपरा न तर्हि मन्त्रार्थवादमूलं तद्वि-ज्ञानम्’--इति । उच्यते, --ये आलोचनमात्रेण मन्त्रार्थ-वादान् पश्यन्ति, तेषाम् तत् स्मृतिमूलम् ये पुनर्निपुणतःपश्यन्ति, तेषां तत् वाधितम् । अपि च कस्यचित् स्मृतिमूलं भवति । तस्मात् ततः एव स्मृतिः । उपचारोऽपिस्मृतिमूल एव । यत्तु अन्यार्थदर्शनम्, उक्तं--‘जगृम्भा तेदक्षिणम् इन्द्र! हस्तम्’--इति । नैतत् एवम्परं, --इन्द्रस्यहस्तो विद्यते--इति” यःतस्य दक्षिणो हस्तस्तं वयमगृहीत-वन्त इति । तसमात् वाक्यात् इन्द्रस्य हस्तसत्ता न प्रतीयते ।आह, ‘यदि त्वसौ नास्ति, वयं ते हस्तं गृहीतवन्तः--इत्येवं न अवकल्पते--इति हस्तसत्ता अध्यवसीयते, -अस्त्यसौ हस्तः, वयं यं गृहीतवन्तः’--इति । तन्न उपपद्यतेयद्यप्यस्य हस्तो भवेत्, तथापि न तम् उपगृहीतवन्तः-इति प्रत्यक्षमेतत्, तथाप्येतन्न अवकल्पत एव, तत्र एतत्असम्बद्धं वा अवकल्पयितव्यं, स्तुतिर्वा, तच्च मत्पक्षेऽपितुल्यम् । अथ एवम् उच्यते, --‘तस्य एतद्वचनं, यो गृहीत-वान् तस्य हस्तम्’--इति । उच्यते, नैतत् अध्यवसेयम्, आदिमत्तादोषो वेदस्य प्रसज्येत, न च, गृहीतवान् आसीत्--इत्युच्यते, प्रमाणाभावात् । ‘एतस्मात् एव वचनात् अर्थात्कल्प्यते हस्तग्रहीता इति चेत्’ । तन्न, अयथार्थस्यापिउच्चारणं सम्भवत्येव यतः, यथा, ‘दश दाडिमानि षड-पूपाः’ इति । यस्यापि च एष पक्षो, विग्रहवान् इन्द्रःइति, बस्यापि इन्द्रशब्देन आमन्त्रणं सम्बोधनार्थं, सम्बो-धनम् अनुवचनाय, तत्र सम्बुद्धः इत्यवगते अनुवचनंन्याय्यम् न च, असौ केनचित् प्रकारेण सम्बुद्ध इति अव-गम्यते, अनवगते सम्बोधनं व्यर्थम् । ‘वचनप्रामाण्यात्सम्बुध्यते इत्येवं गम्यते इति चेत् उक्तम् अदृष्टकल्प-नायां हस्तादिकल्पनानुपपत्तिरिति । न च, असौसम्बुद्धः इति अवधार्य्यते, प्रमाणाभावात् । तस्मात्सम्बोधनवचनं न सम्बोधनाय, निर्द्देशार्थमेव । अविग्रह-पक्षेऽपि तत् निर्द्देशार्थमेव भविष्यति । तत्र आमन्त्रितवि-भक्तिवचनं स्तुतये, एवम् इदं देवताख्यं साधयितृतमं, यच्चेतनादिवत् सम्बुध्य साधयति इति चेतनवदिव उपच-र्य्यमाणः सम्बुद्भिशब्देन आमन्त्र्यते, तथा सम्बोधनशब्देननिर्द्दिश्य उच्यते, गृहीतवन्तो वयं तव हस्तं त्त्वदाश्रयावयम् इत्यर्थः, अस्माभिः इन्द्रकर्म्म कर्त्तव्यम् इत्येतत् अनेनस्मार्य्यते । तथा “इमे द्यावापृथिव्यौ दूते अपारे यत्संगृह्णासि मघवन्नहो ते पूजितो मुष्टिः” इति सन्तमिवमुष्टिं स्तुत्यर्थेन वदति, । तस्यापि भावे न प्रमाणमस्ति, नइदं वचनं, “इत् महान् काशिः” अस्ति, किन्तर्हि, यस्तवकाशिः, स महान् इति, अन्यार्थस्तव काशिरस्ति इति, अन्यः तव काशिर्महान् इति । “सता हि स्तुतिः उपप-द्यते इति चेत्” । नैतत्, नियोगतो यस्यापि पौरुषविधि-कैरङ्गैर्न्नास्ति संयोगः, पौरुषविधिकैरङ्गैः तस्यापि स्तुति-र्भवति, यथा’ “एते वदन्ति शतवत् सहस्रवत् अभिक्रन्दन्तिहरितेभिरासभिः । विष्ट्वी ग्रावाणः सुकृतः, सुकृत्वयाहोतुश्चित् पूर्व्वे हविरद्यमाशत” इति । तथा, “सुखं रथंयुयुते सिन्धुरश्विनम्” इति । तस्मात् न श्रुतिवचनात् अर्था-पत्तिर्भवति पुरुषविधत्वे देवतायाः । तथा, “तुविग्रीवइन्द्रः, इति नैतत् युक्तं भवति, ग्रोवावान् इन्द्रः इति, किन्तर्हि याऽस्य ग्रीवा, सा महती, ग्रीवासत्त्वे नास्तिप्रमाणम् । न च, ग्रीवास्तुतिः अर्थापत्तिः, अपुरुषविधेऽपिस्तुत्युपपत्तेः । अपि च, “इन्द्रो वृत्राणि जिघ्नते” इत्येता-भ्यां पदाभ्याम् इन्द्रशब्दः सम्बद्धो न शक्नोतितुविग्रीवादिभिः सम्बन्धं यातुं, द्विरुच्चारणम् अस्यप्रसज्यते, तुविग्रीवावान् इन्द्रो वेदितव्यः वृत्राणि चइन्द्रो हन्ति--इति, तथा हि सति भिद्येत, अभिन्नंच वाक्यम् उपलभ्यते, तदेवम् अवकल्पते, यदितुविग्रीवादयोऽस्य न उपदिश्यन्ते--इति स्तुत्यर्थं सङ्कीर्त्त्यतेतुविग्रीवादिः, ‘अन्धसो मदे ईट्टशो वृत्राणि हन्ति’--इतिएषा तु वचनव्यक्तिः, वृत्रबधोपदेशपरम् इदं वचनम्-इति । यदपि वचनं, --बाहू ते इन्द्र रोमशौ, अक्षी तेइन्द्र पिङ्गले’--इति, तदपि बाह्वोः रोमशत्वम् अक्ष्णोश्चपैङ्गल्यम् आह, न बाहुसत्तामक्षिसत्तां च । यदपिअक्षिसत्तां वदति--इति गम्यते, --‘चक्षुष्मते शृण्वते तेब्रवीमि’--इति, तदपि न चक्षुःसम्बन्धार्थं, चक्षुष्मतेब्रवीमि--इति वचनसम्बन्धार्थं, तत् सतीमिव चक्षुष्मत्तांस्तुत्यर्थम् उच्चारयति । कुतः एतत् अवगम्यते? । चतुर्थी-निर्द्देशात्, यदि प्रातिपदिकाथाऽध्यवसीयते, तथा वाक्य-म्भिद्येत, चक्षुष्मान्--इत्येवं च उद्दिश्येत, चक्षुष्मते तेव्रवीमि--इति च । तस्मात् न किञ्चित् अर्न्यार्थदर्शनंपुरुषविधतां देवतायाम् इदं ख्यापयति--इति, न च, इदं भोजनं, न हि देवता भुङ्क्ते, तस्मात्, भोजनस्यतदर्थत्वात्--इति तत् असद्वचनम् । यदपि स्मृत्युप-चारान्यार्थदर्शनैर्भुङ्क्ते--इति, तत् अविग्रहत्वेनप्रत्युक्तम् । अपि च, भुञ्जानायै देवतायै प्रत्तं हबिःक्षीयेत । न च, मधुकरीवत् अन्नरसभोजिन्यो देवताः--इति प्रमाणमस्ति, मधुकरीषु प्रत्यक्षं, न च तद्वत्देवतायाम् । तस्मात् न भुङ्क्ते देवता इति । यदुक्तम् देवतायैहविः प्रत्तं नीरसं भवति--इति । नैषदोषः, वातोपहतंनीरसम्भवति--इति, शीतीभूतं च । न च, असौ कस्यचित् अर्थस्य ईष्टे, अनीशा कथं दास्यति? ।--इति ।यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैः ईशाना देवता--इत्यव-वगम्यते--इति । तन्न, स्मृतेः मन्त्रार्थवादमुलत्वात्-इत्युक्तम्, उपचांरोऽपि, --‘देवग्रामो देवक्षेत्रम्’--इतिउपचारमात्रम्, --यो यदभिप्रेतं विनियोगमर्हति, तत्तस्यस्वं, न च ग्रामं क्षेत्रं वा यथाभिप्रायं विनियुङ्क्ते देवता ।तस्मात् न सम्प्रयच्छति--इति, देवपरिचारकाणान्तु ततोभूतिर्भवति, देवताम् उद्दिश्य, यत् त्यक्तम् । यदुक्तम्, अन्यार्थदर्शनम् ईशानां देवतां ख्यापयति, --‘इन्द्रोदिव इन्द्र ईशे’--इत्येवमादीति, तत् प्रत्यक्षाम्अनीशानां देवताम् उपलभ्य अध्यवस्यामः, --भाक्त एषशब्दः--इति । ‘तत्र आह, + वचनप्रामाण्यादेव अस्यईशानता अवगम्यते, यद्देवलोका अर्थान् विनियुञ्जते, तद्देवताभिप्रायादेव--इत्यध्यवस्यामः’--इति । तन्न, प्रत्यक्षात् प्रमाणात् देवतापरिचारकाणाम् अभिप्रायःइत्यवगम्यते, स न शक्यो बाधितुम् । येऽपि देवताम्ईशानां वर्णयन्ति, तेऽपि न अपह्नुवते परिचारकाणाम्अभिप्रायम् । किं चाहुः, तथा देवता करोति, यथा परि-चारकाणाम् अभिप्रायो भवति इति, न च, स ईशानोभवति, यः पराभिप्रायम् अनुरुध्यते, यस्य न स्वाभिप्रायात्विनियोगो भवति । अपि च, न च एतद्वचनं, वर्त्तमानका-लोपदेशत्वात्, प्रत्यक्षविरोधात्, स्तुतिवादोऽवधार्य्यते, स्तुतिवादे च सम्भवति न वचनप्रामाण्यात् ईशिष्यते इतिगम्यते । न च, देवता फलेन सम्बध्नाति, या तदर्थं परिचर्य्येत । यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैर्द्ददाति प्रसीदतिच इति । तत्र स्मृत्युपचारयोर्व्यक्तं यत् अन्यार्थदर्शनंतस्मै प्रीता इषमूर्ज्जम् इति, तन्न, अन्यस्य विधेराग्नानात्दक्षिणतः सम्परिहर्त्तव्या इत्याह” तथा “तृप्त एवैनम्इन्द्रः प्रजया पशुभिस्तर्पयति” इति अत्र ऐन्द्रस्य हविषोविधातारम् । तस्मात् देवता न प्रयोजिका इति” भा० ।“अतिथौ तत्प्रधानत्वमभावः कर्म्मणि स्यात्तस्य प्रीति-प्रधानत्वात्” सू० । “यदुक्तम् अतिथिवत् इति तत्परिहर्त्तव्यम् आतिथ्यम् अतिथिप्रयुक्तं स्यात् आतिथ्येहि तत् प्रीतिर्विषीयते अतिथिः परिचरितव्यः यथाप्रीयते तथा कर्त्तव्यम् इति । भोजनं दानं वा कार्य्यम्इति यद्यत् अतियये रोचते तत् कर्त्तव्यं यत् तस्मैन रोचते न तत् बलात् कारयितव्यम् इति इह तुकर्म्मणि अभावः प्रीतिविधानस्य । तस्मात्विषमम् अतिथिना” शवरभाष्यम् । तदेतद्वेदा-न्तिभिर्न्न मन्यते तैर्हि तेषां विग्रहत्त्वमङ्गीकृतं तथाचशङ्कापूर्व्वकं देवानां विग्रहवत्त्वं शा० सूत्रे तद्भाष्ये चव्यवस्थापितं यथा । “विरोधः कर्म्मणीति चेन्नानेक-प्रतिपत्तेर्द्दर्शनात्” शा० सू० “स्यादेतत् यदि विग्रह-वत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारोवर्ण्येतविग्रहवत्त्वादृत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधा-नेन योगेऽङ्गभावोदृश्यते न च सम्भवति । बहुषुयुगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपश्चेरिति चेन्नाय-मस्ति विरोधः कस्मात्? अनेकप्रतिपत्तेः एकस्यापि देवा-त्मनोयुगपदनेकस्वरूपप्रतिपत्तिः सम्भवति । कथमेत-दवगम्यते? दर्शनात् । तथाहि “कति देवाः”? इत्युप-क्रम्य “त्रयश्च त्री च शता च त्रयश्च त्री च सहस्रेति”निरुच्य” कतमे ते? इत्यस्यां पृच्छ्वयां “महिमानएवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ब्रुवती श्रुतिरैकैकस्यदेवतात्मनो युगपदनेकरूपतान्दर्शयति । तथा त्रयस्त्रिंश-तोऽपि षडाद्यन्तर्भावक्रमेण “कतमएको देव इति प्राण”इति प्राणैकरूपतान्देवानां दर्शयन्ती तस्यैवैकस्य प्राणस्ययुगपदनेकरूपतान्दर्शयति । तथा स्मृतिरपि “आत्मनो वैसहस्राणि बहूनि भरतर्षभ! कुर्य्याद्योगी बलं प्राप्य तैश्चसर्वैर्महीञ्चरेत् । प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रन्तप-श्चरेत् । संक्षिपेत्तु पुनस्तानि सूर्य्योरश्मिगणानिव” इत्येवञ्जातीयका प्राप्ताणिमाद्यैश्वर्य्याणां योगिनामपि युगपद-नेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानांदेवानाम् । अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुरूपै-रात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति, परैश्च न दृश्यतेऽन्तर्द्धानादिशक्तियोगादित्युपपद्यते । अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या । विग्रहवतामपि कर्माङ्गमावश्चोदनास्वनेका प्रतिपत्तिर्दृश्यते । क्वचिदेकोविग्रह-वाननेकत्र न युगपदङ्गभावं गच्छति यथा बहुभिर्भोजय-द्भिर्नैकोब्राह्मणो युगपद्भोज्यते । क्वचिच्चैको विग्रहवानने-कत्र युगपदङ्गभावं गच्छति यथा बहुभिर्नमस्कुर्वाणैरेकोब्राह्मणो युगपन्नमस्क्रियते तद्वदिहोद्देशपरित्यागात्मक-त्वाद्यागस्य विग्रहतीमप्येकां देवतामुद्दिश्य बहवः स्वं-स्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानांन किञ्चित् कर्मणि विरुध्यते” भा० । “शब्द इति चेन्नातःप्रभवात् प्रत्यक्षानुमानाभ्याम्” सू० । “मा नाम विग्रहवत्त्वेदेवादीनामुपगम्यमाने कश्चिद्विरोधः प्रसञ्जि, शब्दे तुविरोधः प्रसज्येत, कथम्? औत्पत्तिकं हि शब्द-स्यार्थेन सम्बन्धमाश्रित्यानपेक्षत्वादिति वेदस्य प्रामाण्यंस्थापितम् । इदानीस्तु विग्रहवती देवताऽभ्युपगम्य-माना यद्यप्यैश्वर्य्ययोगाद्युगपदनेककर्मसम्बन्धीनि हवींषिभूञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवतीसेति नित्यस्य शब्दस्यानित्येनार्थेनानित्यसम्बन्धे प्रमीय-माणे यद्वैदिके शब्दे प्राभाण्यं स्थितं तस्य विरोधःस्या-दिति चेन्नायमप्यस्ति विरोधः कस्मात्? अतः प्रभवात् अतएवहि वैदिकाच्छब्दाद्देवादिकञ्जगत् प्रभवति । ननु जन्माद्यस्ययत इति ब्रह्मप्रभवत्वं जगतोऽवधारितं कथमिह शब्द-प्रभवत्वमुच्यते? । अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवो-ऽन्युपगतः कथमेतावता विरोधः शब्दे परिहृतः? यावताबसवोरुद्रा आदित्याविश्वेदेवामरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात् तदनित्यत्वे तद्वाचकानां वैदिकानां वस्वा-दिशब्दानामनित्यत्वं केन वार्य्यते? प्रसिद्धं हि लोके देव-दत्तस्य पुत्रे उत्पन्ने यज्ञदत्त इति तस्य नाम क्रिय ते इति ।तस्माद्विरोध एव इति चेन्न गबादिशब्दार्थसम्बन्धनित्यत्वदर्शनात् ।न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वंस्यात् । द्रव्यगुणकर्मणां हि व्यक्तयएवोत्पद्यन्ते नाकृतयः ।आकृतिभिश्च शब्दानां सम्बन्धो नव्यक्तिभिः व्यक्तीनामानन्त्यात्सम्बन्धग्रहणानुपपत्तेः । व्यक्तिषूत्पद्यमानास्वप्याकृतीनांनित्यत्वान्न गवादिशब्देषु कश्चिद्विरोधो दृश्यते । तथादेवादिव्यक्तिप्रभवाभ्युपगमेऽपि आकृतिनित्यत्वान्न कश्चिद्-वस्वादिशब्देषु विरोध इति द्रष्टव्यम् । आकृतिविशेषस्तुदेवादीनां मन्त्रार्थवादाभ्यां विग्रहवत्त्वाद्यवगमादवगन्तव्यः ।स्थानविशेषसम्बन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादिशब्दवत् । ततश्च योयस्तत्तत्स्थानमधितिष्ठति स स इन्द्रा-दिशब्दैरभिधीयते इति न दोषो भवति । नचेदं शब्द-प्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यते कथ-न्तर्हि? स्थितिवाचकात्मना नित्यशब्दे नित्यार्थसम्बन्धिनि शब्दव्यवहारंयोग्यार्थ व्यक्ति निष्पत्तिरतः प्रभव इत्युच्यते” भा० ।“ज्योतिषि भावाच्च” सू० । “यदिदं ज्योतिर्मण्डलं द्युस्था-नमहोरात्राभ्यां बंभ्रमज्जगदवभासयति तस्मिन्नादित्यादयोदेवतावचनाः शब्दाः प्रयुज्यन्ते लोकप्रसिद्धेर्व्वाक्यशेषप्रसि-द्धेश्च । न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण, चेत-नतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते मृदादि-वदचेतनत्वावगमात् । एतेनाग्म्यादयो व्याख्याताः । स्यादे-तत् मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रह-वत्त्वाद्यवगमादयमदोष इति नेत्युच्यते । न तावल्लोकोनाम किञ्चित् स्वतन्त्रं प्रमाणमस्ति प्रत्यक्षादिभ्यएव ह्यव्य-भिचरितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थो लोकात्प्रसिद्ध इत्युच्यते न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति ।इतिहासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरमूलतामाका-ङ्क्षते । अर्थवादा अपि विधिनैकवाक्यत्वात् तत्स्तुत्यर्थाःसन्तोन पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावंप्रतिपद्यन्ते । मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोग सम-वायिनोऽभिधानार्थाः न कस्यचिदर्थस्य प्रमाणमित्याचक्षते ।तस्मादभावो देवादीनामधिकारस्य” भा० । “भावन्तुवादरायणोऽस्ति हि” सू० । तुशब्दः पूर्व्वपक्षं व्याव-र्त्तयति । वादरायणस्त्वाचार्य्यो भावमधिकारस्य देवाना-मपि मन्यते । यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रासुअसम्भवोऽधिकारस्य तथाप्यस्ति शुद्धायां ब्रह्मविद्यायांसम्भवः अर्थित्वसासर्थ्याद्यप्रतिषेधापेक्षितत्वादधिकारस्य ।न च क्वचिदसम्भव इत्येतावता यत्र सम्मवस्तत्राप्यधि-कारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणादीनांसर्वेषु राजसूयादिष्वधिकारः सम्भवति तत्र योन्यायः सोऽ-त्रापि भविष्यति । ब्रह्मविद्याञ्च प्रकृत्य भवति लिङ्गदर्शनं श्रौतंदेवाद्यधिकारस्य सूचकं “तद्योयो देवानां प्रत्यबुध्यत सएव तदभवत्” तथर्षीणामिति “ते होचुर्हन्त तमात्मानमन्वि-च्छामो यमन्विष्य सर्व्वांश्च लोकानाप्नोति सर्व्वांश्च कामा-निति” “इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणा-मित्यादि” च । स्मार्त्तमपि च गन्धर्व्वयाज्ञल्क्यसंवा-दादि । यदप्युक्तं ज्योतिषि भावाच्चेति अत्र ब्रूमः ।ज्योतिरादिविषया अप्यादित्यादायो देवतावचनाः शब्दा-श्चेतनावन्तमैश्वर्य्याद्युपेतं तं तं देवतात्मानं समर्पयन्तिमन्त्रार्थवादेषु तथा व्यवहारात् । अस्ति ह्यैश्वर्य्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टञ्च तं तंविग्रहं ग्रहीतुं सामर्थ्यम् । तथाहि श्रूयते सुब्रह्मण्या-र्थवादे “मेधातिथिं ह काण्वायनमिन्द्रोमेषो भूत्वाजहारेति” । स्मर्य्यते च “आदित्यः पुरुषो भूत्वा कुन्तीमुप-जगाम स” इति । मृदादिष्वपि चेतना अधिष्ठतारोऽभ्युपग-म्यन्ते “मृदब्रवीत् “आपोऽव्रुयन्” इत्यादिदर्शनात् । ज्योति-रादिभूतधांतोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते चेतनास्त्व-धिष्ठातारो देवतात्मानो मन्त्रार्थवादादिव्यवहारादित्युक्तम् ।यदप्युक्तम् मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहा-दिप्रकाशनसामार्थ्यमिति । अत्र ब्रूमः प्रत्ययाप्रत्ययौ हिसद्भावासद्धावयोः कारणं नान्यार्थत्वमनन्यार्थत्वं वा ।तथाहि अन्यार्थमपि प्रस्थितः पथि पतितं तृणर्पणाद्यस्ती-त्येवं प्रतिपद्यते । अत्राह विषम उपन्यासः तत्र हितृणपर्ण्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रति-पद्यते अत्र पुनर्विध्युद्देशैकवाक्यभावे स्तुत्यर्थेऽर्थवादेन पार्थगर्थ्येन न वृत्तान्तविषया” प्रवृत्तिः शक्याऽध्यवसाययितुम् ।न हि महावाक्ये प्रत्यायके इवान्तरवाक्यस्य पृथक् प्रत्या-यकत्वमस्ति यथा “न सुरां पिबेदिति नञ्वति वाक्ये पदत्रयसम्बन्धात् सुरापाणप्रतिषेध एवैकोऽर्थो गम्यते, न पुनःसुरां पिबेदिति पदद्वयसम्बन्धात् सुरापाणविधिरपीति ।अत्रोच्यते । विषमौपन्यासः युक्तं यत् सुरापाणप्रति-षेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणं” विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथमन्वयं वृत्तान्तविषय-म्प्रतिपद्यानन्तरं कैमर्थ्यवशेन विधिस्तावकत्वं प्रतिपद्यन्ते ।यथाहि “वायव्यं श्वेतमालभेत भूतिकामः” इत्यत्र विध्युद्दे-शवर्त्तिनां वायव्यादीनां पदानां विधिना सम्बन्धः “वायुर्वैक्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनंभूतिङ्गमयतीति” इत्येषामर्थवादगतानाम् पदानाम् । नहिभवति वायुर्व्वाआलभेत क्षेपिष्ठा देवता वा अलभेतेत्यादि । वायुस्वतावसङ्कीर्त्तनेन त्ववान्तरमन्वयं प्रतिपद्य एवंविशिष्टदैवत्यमिदं कर्म्मेति विधिं स्तु वन्ति । तद्यत्र योऽवान्तर-वार्क्यार्थः प्रमाणान्तरगोचरोभवति तत्र तदनुवादेनार्थ-वादः प्रवर्त्तते । यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन ।यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुण-वादः स्यात् आहोस्वित् प्रमाणान्तराविरोधाद्विद्यमानार्थवादइति प्रतीतिशरणैर्व्विद्यमानार्थवादआश्रथणीयो नगुणवादः । एतेन मन्त्रो व्याख्यातः । अपि च विघिभिरे-वेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनांस्वरूपम् । न हि स्वरूपरहिता इन्द्रादयश्चेतसि आरोहयितुंशक्यन्ते । न च चेतस्यऽनारूदायै तस्यै तस्यै देवतायैहविः प्रदातुं शक्यते । श्रावयति च “यस्यै देवतायै हविर्गृहीतं स्यात् तान्ध्यायेत् वषट्करिष्यन्निति” । न च शब्दमात्रमर्थस्वरूपं सम्भवतीति शब्दार्थयोर्भेदात् तत्र यादृशंमन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत् तादृशंशब्दप्रमाणकेन प्रत्याख्यातुं युक्तम् । इतिहासपुराणमपिव्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्रभवतिदेवताविग्रहादि प्रपञ्चयितुम् । प्रत्यक्षमूलमपि सम्भवति, भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् ।तथाच व्यासादयो देवंताभिः प्रत्यक्षं व्यवहरन्तीति स्मर्य्यते ।यस्तु ब्रूयादिदानीन्तनानामिव पूर्व्वेषामपि नास्ति देवा-दिभिर्व्यवहर्त्तुं सामार्थ्यमिति स जगद्वैचित्र्यम्प्रतिषेधेत्इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्ततश्च राजसूयादिचोदना उपरुन्ध्यात् इदानीमिव च का-लान्तरेऽपि अव्यवस्थितप्रायान् वर्ण्णाश्रमाधर्म्मान् प्रतिजा-नीत ततश्च व्यवस्थाविधायिशास्त्रमनर्थ कं कुर्य्यात् । तस्मात्धर्मोकर्षवशाच्चिरन्तनाः देवताभिः प्रत्यक्षं व्यवजह्वुरिति श्लि-ष्यते । अपिच स्मरन्ति “स्वाध्यायादृष्टदेवतासम्प्रयीग” इत्या-दि योगोऽप्यणिमाद्यैश्वर्य्यप्राप्तिफलकः स्मर्य्यमाणो न शक्यतेसाहसमात्रेण प्रत्याख्यातुम् । श्रुतिश्च योगमाहात्म्यंप्रत्याख्यापयति “पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मकेयोगयुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्ययोगाग्निमयं शरीरमिति” । ऋषीणामपि मन्त्रब्राह्मणदर्शनात् सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम् ।तस्मात् समूलमितिहासपुराणम् । लोकप्रसिद्धिरपि नसति सम्भवे निरालम्बनाध्यवसातुं युक्ता । तस्मादुपपन्नोमन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः । ततश्चा-र्थित्वादिसम्भवादुपपन्नो देवादीनामपि व्रह्मविद्यायामधि-कारः । क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते इति” भा० ।विग्रहादिपदेन “विग्रहोहविषां भोगऐश्वर्य्यञ्च प्रसन्नता ।फलप्रदानमित्येतत् पञ्चकं विग्रहादिकमिति” आन० गि०उक्तं पञ्चकं ग्राह्यं तच्च क्रमेण मीमांसाभाष्ये पूर्व्वपक्षेदर्शितम् । शब्दचिन्तामणावपि देवानां विग्रहवत्त्वंचेतनत्वञ्च व्यवस्थापितम् यथा “एवं देवतादावपिइन्द्रमुपासीतेत्यादौ लोके प्रयोगस्यानियमाद्गौणतयैवव्यवहाराच्चार्थाद्यनध्यवसायेन लौकिके सहस्राक्षादावि-न्द्रादिपदशक्तिग्रहः प्रमाणञ्च इन्द्र सहस्राक्ष इत्यादि-विधिसमभिव्याहृतोऽर्थवादएव स्वर्गपदवत् । अथ स्वर्गपदेप्रवृत्त्यन्थथानुपपत्या “तत्सुखं स्वःपदास्पदमिति” श्रुतेश्चार्थ-वादादेव शक्तिग्रहः नचेह तथार्थवादः किन्तु “इन्द्रः सह-स्राक्षः इत्यादिस्तावकत्वेन प्रवृत्तिपर इति चेत् न इन्द्रःसहस्राक्षः” इत्यादिप्रसिद्धपदसामानाधिकरण्यश्रुतितोबाधकं विना सहस्राक्षस्यैवेन्द्रादिपदवाच्यत्वावधारणात् प्र-सिद्धपदसमन्वयबलेन प्रतीयमानमर्थमबाधितमादायैव तेषांप्रवृत्तिपरत्वात् मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्यहविस्त्यागेन तत्रैव याज्ञिकानां देवताव्यवहारात्अपि च शिवाय गां दद्यादित्यादौ देवतासंप्रदा-नत्वश्रुतेः, शिवादिसहस्रनाम्नां पर्य्यायत्वेन श्रुते र्महा-जनपरिग्रहेण प्रमाणत्वाताराधितदेवताया वरदातृत्वश्रु-तेश्च बाधकं विना चेतनैव देवता । अथ देवताचैतन्मे तत्-प्रीतिरेव यागव्यापार इति नापूर्वसिद्धिरिति चेत् न प्रीतेःसुखस्य तदनुभवस्य चाशुतरविनाशित्वात् तज्जन्यसंस्कारस्यस्वाविषये फलाहेतुत्वात् फलहेतुस्थायिकृतिव्यापारा-पेक्षायां लाघवेन कृतिसमानाश्रयस्यैव व्यापारत्वकल्पनात्नानायागेष्वेकदाह्वाने चैकदा सन्निधानं तद्बुद्धिविशेष एवप्रतिष्ठितविधिना प्रतिमादावहङ्कारवत् । अथ राजसू-यादिफलत्वेन श्रुतेरिन्द्रादिरचेतनएव । देवता चेतना नास्तिमानाभावात् किन्तु देशनादेशितचतुर्थ्यन्तपदनिर्द्दिश्यत्वंदेवतात्वम् इन्द्रायेत्यादिपदमेव देवता । अतएवाग्निप्रकाशकमन्त्रेऽग्निप्रणयनस्यान्तरम् अग्नये इति नियमतो हवि-स्त्यागः न पर्य्यायान्तरेण । न चेन्द्रोद्देशेन हविस्त्यागःइन्द्रनिष्ठकिञ्चिज्जनकः तत्स्वरूपाजनकत्वे सति तदु-द्देशेन क्रियमाणत्वात् ब्राह्मणायदानवदिति वाच्यम्अप्रयोजकत्वात् तदर्थत्वेन क्रियमाणत्वस्योपाधित्वाच्चइन्द्रायस्वाहेत्यत्र न तादर्थ्ये चतुर्थी किन्तु स्वाहादिपद--योगौपपदविभक्तिरेव अन्यथा नमःस्वस्तिस्वाहा-स्वधेत्यादिसूत्रवैयर्थ्यात् मैवं चतुर्थ्यन्तपदस्य देवता-त्वे मानाभावात् चतुर्थीं विनापि इन्द्रो देवतेतिव्यवहारदर्शनात् अग्नये कव्यवाहनायेत्यादौ देवताद्वयप्रसङ्गाच्चः” इन्द्र सहस्राक्ष इत्यर्थवादस्य “इन्द्रमुपा-सीत” त्यादिविधिसमभिव्याहारेण ऐकवाक्यतयोपास्यत्वात्देवस्वं नाददीतेत्यत्र देवमुद्दिश्य त्यक्ते शिष्टानां देव-स्वत्वेन व्यवहारात् अग्नय इति पदेन नियमतस्त्यागम्यश्रुतिबोधितत्वेन तथात्यागस्य फलहेतुत्वात् । नच वीजाक्षराणां देवतात्वात् तत्रैव शिवादिपदशक्तिग्रह इतिवाच्यम् वीजाक्षराणांचतुर्थ्यन्तत्वानियमात् तदप्रतीतावपिप्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैवयाज्ञिकानां व्यवहारः । वीजाक्षराणां हविस्त्यागित्वेनानुद्देश्यत्वात् शिवस्य प्रतिमन्त्रं वीजाक्षराणां नानात्वादननुगमेन तत्तत्पदशक्तिग्रहस्याशक्यत्वाच्च नच मूर्त्तिभेदेनशिवशरोराणामननुगतत्वेत् तवापि न शक्तिह इति वाच्यम्-बाल्यादिना भिन्नशरीरेषु चैत्रत्ववछिवत्वजातेरदृष्टविशे-षोपगृहीतत्वस्य चानुगतत्वात् अदृष्टशून्थस्य चेश्वरस्य नदेवतात्वम् । ईशानश्च तद्भिन्न एव” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
