| YouTube Channel

अवान्तरं (avAntaraM)

 
शब्दकल्पद्रुमः
Sanskrit
अवान्तरं, त्रि, (अवगतमन्तरं मध्यम् प्रादिस-मासः ।) प्रधानान्तःपाति इयं फलश्रतिर्न श्रेयः-परमपुरुषार्थसाधनपरा भवति किन्तु वहि-र्मुखानां मोक्षविवक्षया अवान्तरकर्म्मफलैः कर्मसुरुच्युत्पादनमात्रं यथा भैषज्ये औषधे रुच्युत्पादनं ।यथा, --“पिब निम्बं प्रदास्यामि खलु ते खण्डलड्डुकान् ।पित्रैवमुक्तः पिबति तिक्तमप्यतिबालकः”
“अत्र तिक्तनिम्बादिपानस्य खलु खण्डादिलाभ-एव प्रयोजनं किन्त्वारोग्यं तथा वेदोऽप्यवान्तर-फलैः प्रलोभयन् मोक्षायैव कर्म्माणि विधत्ते”इति मलमासतत्त्वं