| YouTube Channel

अवाक्शाख (avAkzAkha)

 
Capeller Eng
English
अवाक्शाख
a.
having the branches downwards.
Monier Williams Cologne
English
अवाक्—शाख
mfn.
having shoots turned downwards (as the Ficus Indica),
KaṭhUp.
Shabdartha Kaustubha
Kannada
अवाक्शाख
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶ್ರೀಮದ್ಭಗವದ್ಗೀತೆಯಲ್ಲಿ ಉಕ್ತವಾದ ಸಂಸಾರ /ಕೆಳಮುಖವಾದ ರೆಂಬೆಗಳುಳ್ಳ ಅಶ್ವತ್ಥ ವೃಕ್ಷ್ಗ
व्युत्पत्तिः - > अवाच्यः शाखा यस्य
प्रयोगाः - > "ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद वेदवित् ॥"
उल्लेखाः - > गीता० १५-१
वाचस्पत्यम्
Sanskrit
अवाक्शाख
पु०
अवाची शाखाऽस्य “ऊर्द्धमूलमधःशाख-मश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्ण्णानि यस्तं वेदस वेदवित् अधश्चोर्द्ध्वञ्च प्रसृतास्तस्य शाखा गुणप्रवृद्धाविषयप्रबालाः अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनिमनुष्यलोके रूपमस्येह तथोपलभ्यते नान्तोन चादिर्नच संप्रतिष्ठा अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेणदृढेन छित्त्वा तत्पदं तत्परिमार्गितव्यम्” गीतोक्तेसंसारवृक्षे “ऊर्द्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषो-त्तमोमूलं यस्यतम् अघैति ततोऽर्वाचीनाः कार्य्योपा-धयोहिरण्यगर्भादयोगृह्यन्ते ते तु शाखाइव शाखायस्यतम् विनश्वरत्वेन श्वःप्रभातपर्य्यन्तमपि स्थास्यतीतिविश्वासानर्हत्वादश्वत्थं प्राहुः प्रवाहरूपेणाविच्छेदादव्य-यञ्च काः प्राहुः? “ऊर्द्ध्वमूलोऽर्व्वाक्शाखएषोऽश्वत्थःसनातन” इत्याद्याः श्रुतयः छन्दांसि वेदायस्य पर्णानिधर्म्माधर्म्मप्रतिपादनद्वारेण छायास्थानीयैः कर्म्मफलैःसंसारवृक्षस्य सर्व्वजीवाश्रयणीयत्वप्रतिपादनात् पर्णस्था-नीयावेदाः यस्तमेवम्भूतमश्वत्थं वेद एव वेदार्थवित्संसारप्रपञ्चवृक्षस्य मूलमीश्वरोब्रह्मादयस्तदंशाः शाखा-स्थानीयाः सच संसारवृक्षोऽविनश्वरः प्रवाहरूपेण नित्यःवैदोक्तैः कर्म्मभिः सेव्यतामापादितश्च इत्येतावानेव हिवेदार्थः अत एवं विद्वान्वेदविदिति स्तूयते किञ्च अधश्चेति ।हिरण्यगर्भादयः कार्य्योपाधयोजीवाः शाखास्थानीयत्वे-नोक्तास्तेषु ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृता-विस्तारं गताः सुकृतिनश्चोर्द्ध्वं देवादियोनिषु प्रसृतास्तस्यसंसारवृक्षस्य शाखाः किञ्च गुणैः सत्त्वादिवृत्तिभिर्जलसे-चनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः किञ्च विषयारूपा-दयः प्रबालाः पल्लवस्थानीया यासां शाखाग्रस्थानीयाभिरि-न्द्रियवृत्तिभिः संयुक्तत्वात् किञ्च अधः, चशब्दादूर्द्ध्वञ्चमूलानि अनुसन्ततानि विरूढानि मुख्यं मूलमीश्वर एवइमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि ।तेषां कार्यमाह मनुष्यलोके कर्म्मानुबन्धीनि कर्म्म अनुबन्धिउत्तरभावि येषां तानि ऊर्द्ध्वाधोलोकेष्वपि भुक्तभोगवासनाभिर्हि कर्म्मक्षये मनुष्यलोकप्राप्तानां तत्तदनुरूपेषु कर्म्मसुप्रवृत्तिर्भवति तस्मिन्नेव हि कर्म्माधिकारोनान्येषु लोकेषुअतोमनुष्यलोकैत्युक्तम् किञ्च रूपमिति इह संसारेस्थितैः प्राणिभिरस्य संसारवृक्षस्य तथा ऊर्द्ध्वमूलत्वादिप्रकारेण रूपं नोपलभ्यते चान्तोऽवसानमपर्य्यन्तत्वात् ।नचादिरनादित्वात् नच संप्रतिष्ठा स्थितिः कथं तिष्ठतीतिनोपलभ्यते यस्मादेवम्भूतोऽयं संसारवृक्षोदुरुच्छेद्योऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण छित्त्वा तत्त्वज्ञानाययतेतेत्याह अश्वत्थमेनमिति” श्रीधरः