| YouTube Channel

अवहार्य्यः (avahAryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
अवहार्य्यः, त्रि, (अव + हृ + ण्यत् ।) समर्पणीयः ।यथा, --“आधिश्चोपनिधिश्चोभौ कालात्ययमर्हतः ।अवहार्य्यौ भवेतां तौ दीर्घकालमवस्थितौ”
इति मानवे अध्याये १४५ श्लोकः
(अर्थ-दण्डयोग्यः यथा, --“अवहार्य्यो भवेच्चैव सान्वयः षट्शतं दमम् ।निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्विषं”
इति मनुः