| YouTube Channel

अवहार्यः (avahAryaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + हृञ् (हरणे) + ण्यत् ‘ऋहलोर्ण्यत्’ (३.१.१२४) १. अवशश्यं देयः "आधिश्चोपनिधिश्चोभौ कालात्ययमर्हतः अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ" (मनुः ८.१४५) २. दण्डनार्हः "अवहार्यो भवेच्चैव सान्वयः षट् शतं दमम् (मनुः ८.१९८) ३. स्थानान्तरं नेयः ४. प्रत्यर्पणीयः अवहार्य (अव्य) अव + हृञ् (हरणे) + णिच् + ल्यप् ‘समासेऽनञ्पूर्वे क्त्वो ल्यप्’ (७.१.३७) अपहृत्य