| YouTube Channel

अवसन्नः (avasannaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + षद्लृ (विशरणगत्यवसादनेषु) + क्तः "गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च" (३.४.७२) १. विषण्णः, विषादप्राप्तः ‘यातमवनिमवसन्न भुजात्’ माघः १५.८५ २. विनाशोन्मुखः ३. स्वकार्याक्षमः ४. समाप्तः "अवसन्नतापमतमिस्रमभात्" माघः ९.१२ ५. मग्नः ६. अदृश्यतां गतः, नष्ठः "पित्रोः सकाशमवसन्नदृशोर्निनाय" रघुः ९.७७
शब्दकल्पद्रुमः
Sanskrit
अवसन्नः, त्रि, (अव + सद + क्त ।) अवसादप्राप्तः ।विषण्णः यथा, --“महिम्नः पारन्ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।अथावाच्यः सर्व्वस्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः”
इति पुष्पदन्तकृतशिवस्तोत्रं अपि ।“आचारेणावसन्नोऽपि पुनः प्रार्थयते यदि” ।इति व्यवहारतत्त्वं