| YouTube Channel

अवशिष्टः (avaziSTaH)

 
E Bharati Sampat
Sanskrit
(नपुं) अव + शिष (असर्वोपयोगे) + क्तः "नपुंसके भावे क्तः" (३.३.११४) १. शेषः, अधिकः २. अव + शिष + ‘क्तः’ "गत्यर्थाकर्मक..." (३.४.७२) शिष्टः "आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः" रघुः -५.१५
शब्दकल्पद्रुमः
Sanskrit
अवशिष्टः, त्रि, (अवशिष्यते इति अब + शिष +क्त ।) शेषः उद्वर्त्तः अवशेषाश्रयः यथा, --“बल्मीकमूषिकोत्खातां मदमन्तर्ज्जलां तथा ।शौचावशिष्टां गेहाच्च नादद्यात् लेपमम्भवां”
इत्याह्निकतत्त्वं