अवलेहः (avalehaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअवलेहः [avalēhḥ], 1 Licking, lapping.
An extract (as of Soma).
An electuary, confection
दाडिम˚.
Apte 1890
EnglishHindi
Hindiअचार (पु)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiअवलेहः
- अव+लिह्+घञ्
"चाटना, लपलपाना"
अवलेहः
- अव+लिह्+घञ्
अर्क
अवलेहः
- अव+लिह्+घञ्
चटनी
E Bharati Sampat
Sanskrit(पुं) अव + लिह (आस्वादने) + घञ् । ‘भावे’ (३.३.१८) । १. लेहनम् । अव + लिह + कर्म. घञ् ‘अकर्तरि च कारके संज्ञायाम्’ (३.३.१९) । २. लेह्यम् । "अतोऽवलेहान् वक्ष्यामः" - सुश्रुत. । क्वाथादेर्यत् पुनः पाकात् घनत्वं सारसक्रिया । सोऽवलेहश्च लुहश्च प्राश इत्युच्यते बुधैः" - वैद्यकवरिभाषा ।
Wordnet
Sanskrit अवलेहः
लेहनस्य वस्तु।
"मध्वादयः अवलेहाः सन्ति।"
अवलेहः
मिष्टं तथा च घनं भेषजं यद् लेह्यते।
"एषः डाबर इत्यस्य समुदायस्य अवलेहः अस्ति।"
शब्दकल्पद्रुमः
Sanskritअवलेहः, (अवलिह्यते क्वाथादेः पुनः पाकात्घनीभूततया स्वाद्यते इति अव + लिह + कर्म्मणिघञ् ।) लेह्यौषधं । तस्य लक्षणं पर्य्यायश्चयथा, --“क्वाथादेर्यत् पुनः पाकात् घनत्वं सारसक्रिया ।सोऽवलेहश्चलेहश्च प्राश इत्युच्यते बुधैः” ॥
(“जिह्वालेह्यावलेहिका”) इति च वैद्यकपरि-भाषा । यथा, --“कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥
एषावलेहिका हन्ति सन्निपातं सुदारुणं ।हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ॥
एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः” ।तन्त्रान्तरे च उक्तं ।“अष्टाङ्गं मधुना लिह्यादार्द्रकस्य रसेन वा ।संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम्” इति ॥
“सर्व्वेषु सन्निपातेषु न क्षौद्रमवचारयेत् ।शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते” ॥
अयमभिप्रायः । सन्निपातज्वरेषु श्लेष्मनिग्रहार्थंसर्व्वदा स्वेदो हित उक्तः । तत्राग्निसम्बन्धाद्देह-स्योष्णता तिष्ठेदेव । उष्णेण मधुना विरोधः ।उक्तञ्च सुश्रुतेन ।“उष्णैर्विरुध्यते सर्वं विषाम्ययतया मधु ।उष्णात्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषं” इति ॥
शीतोपचारि क्षौद्रमिति । शीतेनोपचारोऽस्या-स्तीति शीतोपचारि । शीतञ्चात्र सन्निपातेविरुध्यते । अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग-हरत्वात् सायमुपयुज्यते । यत उक्तं चरकेण ।“ऊर्द्ध्वजत्रुगदघ्नी या सा सायमवलेहिका ।अधोरोगहरी या सा भोजनात्प्राक् प्रयुज्यते” ।पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयं ॥
शृङ्गी कर्कटशृङ्गी ! व्योषं शुण्ठीपिप्पलीमरिचानिच । यासो यवासः । केचित् यासस्थाने यवानींप्रक्षिपन्ति । कारवी मगरेला इति लोके । अष्टा-ङ्गावलेहिका ॥
* ॥
“स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् ।विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ॥
तेनास्य शाम्यति श्वासः कासो मूर्च्छारुचिस्तथा” ॥
इत्यवलेहः ॥
* ॥
अन्यत् यथा, --“पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् ।मधुना सर्पिषा वापि कासी श्वासी सुखी भवेत् ॥
कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।श्वासकाशज्वरहरो लेहोऽयं कफनाशनः” ॥
चातुर्भद्रिका ॥
* ॥
“कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा ।कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥
आर्द्रकस्य रसैर्ल्लिह्यान्मधुना वा कफज्वरी ।कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये” ॥
अष्टाङ्गावलेहः । इति भावप्रकाशः ॥
(“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारसक्रिया ।सोऽवलेहश्च लेहः स्यात् तन्मात्रा स्यात्पलोन्मिता ॥
सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः ।द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥
सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सुमज्जनं ।स्थिरत्वं पीड्यते मुद्रा गन्धवर्णरसोद्भवः ॥
दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकं ।वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ॥
* ॥
तदुदाहरणं । यथा, --“कण्टकारीतुलां नीर-द्रोणे पक्त्वा कषायकं ।पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥
पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः ।मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकं ॥
भार्गी रास्ना शठी चैव शर्करा पलविंशतिः ।प्रत्येकञ्च पलान्यष्टौ प्रदद्याद्घृततैलयोः ॥
पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकं ।चतुष्पलं तु गोक्षीर्य्या पिप्पलीनां चतुष्पलं ॥
क्षिप्त्वा निदध्यात् सुदृढे मृन्मये भाजने शुभे ।लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः ॥
* ॥
कण्टकार्य्यवलेहः ॥
* ॥
इति च शार्ङ्गधरः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
