| YouTube Channel

अवलिप्तः (avaliptaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + लिप(उपदेहे) + क्तः "निष्ठा" (३.२.१०२) १. गर्वयुक्तः, अहङ्कारी ‘केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते’ - मुद्रा. ३.२७ २. लिप्तः कृतलेपतः ३. परितः लिप्तः, समन्तात् लिप्तः
Wordnet
Sanskrit
Synonyms:
अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता
noun
यस्य अभिमानः वर्तते।
"अहं तस्य अभिमानिनः छायायाः अपि दूरं स्थातुम् इच्छामि।"
शब्दकल्पद्रुमः
Sanskrit
अवलिप्तः, त्रि, (अव + लिप् + क्त ।) धनादिगर्ब्बितः ।यथा, --“न संवसेच्च पतितैर्न चाण्डालैर्न पुक्कशैः ।न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावशायिभिः”
इति भानवे अध्याये ७९ श्लोकः अवलिप्ताधनादिगर्ब्बिता इति कुल्लूकभट्टः
“अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः” ।इति देवीमाहात्म्यम्