| YouTube Channel

अवलम्बी (avalambI)

 
E Bharati Sampat
Sanskrit
(वि) (अवलम्बिन्) अवलम्बोऽस्यास्ति इनिः "अत इनिठनौ" (५.२.११५) १. आश्रितः, प्राप्तसहायः २. आश्रयदाता "तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी" - रघु. ५.६६ "अस्ताचलचूडावलम्बिनि भगवति भासां - निधौ" - काद. ३. लम्बमानः "अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम्" - रघु. १५.४९