| YouTube Channel

अवरोही (avarohI)

 
E Bharati Sampat
Sanskrit
(पुं) (अवरोहिन्) अवरोहति - अव + रुह (बीजजन्मादौ) + णिनिः "सुप्यजातौ णिनिस्ताच्छील्ये" (३.२.७८) १. वटवृक्षः २. (वि) अवरोहकः (स्त्री) ङीप् - ऋन्नेभ्यो ङीप् - (४.१.५) अवरोहिणी ३. ज्योतिषोक्तः दशाभेदः ‘उच्चाङ्गपञ्चभस्यस्य दशा स्यादवरोहिणी’ - सर्वार्थाचि.
शब्दकल्पद्रुमः
Sanskrit
अवरोही, [न्]
पुं,
(अव + रुह + णिनि ।) वट-वृक्षः इति राजनिर्घण्टः
(वटशब्देऽस्य गुणा-दयो ज्ञातव्याः ।)