| YouTube Channel

अवरोह (avaroha)

 
शब्दसागरः
English
अवरोह
m.
(-हः)
1. Mounting, ascending.
2. Descent, passing from or
over.
3. The growth of a creeping plant or vine.
4. A pendant
branch, one that strikes fresh root into the earth, as those of the
Indian fig tree.
5. Heaven or Swarga.
E.
अव up or down, &c. रुह to
mount, घञ्
aff.
Capeller Eng
English
अवरोह
m.
descent (fig. ).
Yates
English
अव-रोह (हः) 1.
m.
Mounting
des-
cent
pendent branch
heaven.
Spoken Sanskrit
English
अवरोह - avaroha -
m.
- heaven
अवरोह - avaroha -
m.
- descending from a higher tone to a lower one
अवरोह - avaroha -
m.
- mounting
अवरोह - avaroha -
m.
- shoot or root sent down by a branch
अवरोह - avaroha -
m.
- creeping plant climbing up to the top of a tree
अवरोह - avaroha -
m.
- descent [ of musical notes, tree branches ]
Wilson
English
अवरोह
m.
(-हः)
1 Mounting, ascending.
2 Descent, passing from or over.
3 The growth of a creeping plant or vine.
4 A pendant branch, one that strikes fresh root into the earth, as those of
the Indian fig tree.
5 Heaven or Svarga.
E.
अव up or down, &c. रुह to mount, घञ्
aff.
Apte
English
अवरोहः [avarōhḥ], 1 Descent, going or coming down.
A creeping plant winding itself round a tree from the bottom to the top (such as the गुडूची creeper).
Heaven (तस्माद्धि भोगावसाने सर्वे$वरोहन्ति).
Mounting, ascending.
A shoot sent out by a plant, a pendent branch, one that strikes fresh roots into the earth, as of the fig-tree (वट)
अवरोहशताकीर्णं वटमासाद्य तस्थतुः Rām.
The growth of a plant or vine.
(In music) The descending scale of notes.
Comp.
-शायिन् the Indian fig-tree
so -शाखः, -शाखिन्.
Apte 1890
English
अवरोहः 1 Descent, going or coming down.
2 A creeping plant winding itself round a tree from the bottom to the top (such as the गुडूची creeper).
3 Heaven (तस्माद्धि भोगावसाने सर्वेऽवरोहंति).
4 Mounting, ascending.
5 A shoot sent out by a plant, a pendent branch, one that strikes fresh roots into the earth, as of the fig-tree (वट)
अवरोहशताकीर्णं वटमासाद्य तस्थतुः Rām.
6 The growth of a plant or vine.
7 (In music) The descending scale of notes.
Comp.
शायिन् the Indian fig-tree
so
शाखः,
शाखिन्.
Monier Williams Cologne
English
अव-रोह
m.
descent,
L.
(in music) descending from a higher tone to a lower one Comm. on Mṛcch.
mounting,
L.
a shoot or root sent down by a branch (especially of the Indian fig-tree
cf.
2. अव-रोध),
Kauś.
PārGṛ.
R.
ii, 52, 96
(= लतोद्गम) a creeping plant climbing up to the top of a tree,
L.
heaven,
L.
Benfey
English
अवरोह अवरोह, i. e. अव-रुह् + अ,
m.
A pendant branch, one that strikes
fresh roots into the earth, as those of
the Indian fig-tree, Rām. 2, 52, 96.
--
Comp.
दुस्-,
adj.
whither it is difficult
to descend, Rājat. 6, 49.
Apte Hindi
Hindi
अवरोहः
पुं*
- अव+रुह्+घञ्
उतार
अवरोहः
पुं*
- -
नीचे से चोटी तक वृक्ष के ऊपर लिपटने वाली लता
अवरोहः
पुं*
- -
आकाश
अवरोहः
पुं*
- -
लटकती हुई शाखा
अवरोहः
पुं*
- -
स्वरों का उपर से नीचे आना
Shabdartha Kaustubha
Kannada
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಳಿಕೆ /ಇಳಿಯುವುದು
निष्पत्तिः - > अव + रुह (बीजजन्मादौ) - "घञ्" (३-३-१८)
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆರೋಹಣ /ಮೇಲಕ್ಕೇರುವಿಕೆ
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ವರ್ಗ
व्युत्पत्तिः - > अवरोहत्यस्मात्
विस्तारः - > "स्वर्लोको देवलोकः स्यादवरोहः फलोदयः" - त्रिकाण्ड०
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಲತೆ /ಬುಡದಿಂದ ಮರದ ಮೇಲಿನವರೆಗೂ ಹಬ್ಬಿದ ಬಳ್ಳಿ
विस्तारः - > "अवरोहोऽवतरणेऽप्यारोहे लतोद्गमे" - मेदि०
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮರ್ದ ರೆಂಬೆಗಳಿಂದ ಭೂಮಿಯವರೆಗೂ ಇಳಿಯುವ ಬಿಳಲು
प्रयोगाः - > "अवरोहशताकीर्णं वटमासाद्य तस्थतुः"
उल्लेखाः - > रामा०
अवरोह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಂಗೀತದ ಅವರೋಹಣ
निष्पत्तिः - > अव + रुह (बीजजन्मादौ) - "घः" (३-३-११८)
L R Vaidya
English
avaroha {% m. %} 1. Descent
2. heaven
3. the descending scale of notes in Indian music
4. a pendent branch of the Indian fig-tree
5. a creeper encircling a tree from its bottom.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अवरोह m. *Aufsteigen (= Wachstum
Ko.: विहितावरोहं कृताङ्कुरम्), S I, 157, 7.
Wordnet
Sanskrit
Synonyms:
अवतरणम्, अवरोहणम्, अवरोहणी, अवरोह, अवस्कन्दनम्
noun
उन्नतस्थानात् अधोगमनस्य क्रिया।
"सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।"
Sanskrit Tibetan
Tibetan
kun skye
१) अवरोह २) आसव ३) उद्भूत ४) उपपत्ति
kun tu skye
अवरोह / आसव / उद्भूत / उपपत्ति
अभिधानरत्नमाला
Sanskrit
लतोद्गम
लतोद्गम, अवरोह
लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः १८४
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा
वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः
verse 2.1.1.184
page 0023
वैजयन्तीकोषः
Sanskrit
Word: अवरोहः
Root: अवरोह
Gender: पुं
Number: all
अर्थः शाखाजा वटादिषु
Meaning(s):
Downwards bending branch of a tree
Shloka(s):
3|3|12|1 शिफाजटाऽवरोहस्तु सा शाखाजा वटादिषु। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|12|1 अवरोहः (अवरोह) (पुं) Downwards bending branch of a tree शाखाजा वटादिषु
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
अवरोहः,
पुं,
(अव + रुह् + भावे घञ् ।) अवतरणं ।आरोहणं (कर्त्तरि संज्ञायां घञ् ।) लतोद्गमः ।इति मेदिनी
वृक्षमूलादग्रपर्य्यन्तं गता लता ।शाखाशिफा इत्यमरः वोया नामना इतिभाषा
(“सुदूरमथ गत्वा तौ भ्रातरौ रामलक्ष्मणौ ।अवरोहशताकीर्णं वटमासाद्य तस्थतुः”
इति रामायणे ।) स्वर्गः इति त्रिकाण्डशेषः
वाचस्पत्यम्
Sanskrit
अवरोह
पु०
अव + रुह--घञ् अवतरणे, (नामा) ऊर्द्ध्व-देशान्निम्नदेशगमने कर्त्तरि संज्ञायां तरोर्मूला-दग्रपर्य्यन्तमारूढायां गुडूच्यादिलतायाम् अपादानेघञ् चन्द्रादिलोके स्वर्गे, तत्रो हि भोगावसानेसर्व्वेऽवतरन्ति तत्र देहिनां चन्द्रलोकादवरोह-प्रकारस्तावदुक्तः शा० सूत्रे तद्भाष्ये यथा “कृतात्यये-ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च” शा० सू० ।“इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमारूढानांततः प्रत्यवरोह आम्नायते “तस्मिन् यावत्सम्पातमुषित्वा-ऽथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेत” मित्यारभ्य यावत् “रम-णीयचरणाब्राह्मणादियोनिभावमापद्यन्तेकपूयचरणाः श्वा-दियोनिमिति” तत्रेदं विचार्य्यते किं निरनुशया भुक्तकृत्स्नकर्म्माणोऽवरोहन्ति? आहोस्वित् सानुशयाः? इति किं तावत्प्राप्तं निरनुशया इति कुतः? यावत्सम्पातमितिविशेष-णात् सम्पातशब्देनात्र कर्म्माशय उच्यते सम्पतत्यनेना-स्माल्लोकादमुं लोकं फलभोगायेति यावत्सम्पातमुषि-त्वेति कृत्स्नस्य तस्य तत्रैव भुक्ततां दर्शयति “तेषां यदातत्पर्य्यवैतोति” श्रुत्यन्तरेणैष एवाथेः प्रदर्श्यते स्यादे-तत् यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म्म तावदुपभुङ्क इतिकल्पयिष्यामीति नैवं कल्पयितुं शक्यते यत् किञ्चेत्यन्यत्वपरामर्शात् “प्राप्यान्तं कर्म्मणस्तस्य यत् किञ्चेह करोत्य-यम् तस्माल्लोकात् पुनरत्यस्मै लोकाय कर्म्मणे” इतिह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्यैवेह कृतस्यकर्म्मणस्तत्र क्षयितां दर्शयति अपि प्रायणमनारब्ध-फलस्य कर्म्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्म्मणाप्रतिबद्वस्य अभिव्यक्त्यनुपपत्तेः तच्चाविशेषेण यद्यावत्किञ्चिदनारब्धफलं तस्य सर्व्वस्याभिव्यञ्जकं हि साधा-रणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति नह्यविशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते, पटैत्युपपद्यते ।तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः “कृतात्ययेअनुशयवानिति” येन कर्म्मवृन्देन चन्द्रमसमारूढाः फलो-पभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरंचन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंप-र्कात् प्रलीयते सवितृकिरणसंपर्काद्धिमकरकाइंव हुतभ्यु-गर्च्चिःसंपर्कादिव घृतकाठिन्यम् ततः कृतात्यये कृत-स्येष्टादेः कर्म्मणः फलोपभोगेनोपक्षयेसति सानुशया एवेममवरोहन्ति केन हेतुना? दृष्टस्मृतिभ्यामित्याह तथाहिप्रत्यक्षा श्रुतिः सानुशयानामवररोहं दर्शयति “तद्यइह रमणीयवरणा अभ्यासो यत्ते रमणीयां योनिमा-षद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिंवा अथ इह कपूयचरणा अभ्यासो हयत्ते कपूयां योनि-मापद्येरन् श्वयोनिं वा शूकरयोनिं वा चाण्डालयोनिंवेति” चरणशब्देनानेनानुशयः सूच्यत इति वर्ण्णयिष्यति ।दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूपौपभोगः प्रविभज्य-मानः आकस्मिकत्वासम्भवात् अनुशयसद्भावं सूचयतिअभ्युदयप्रत्यवाययोः सुकृतदुःकृतयोः हेतुत्वस्य सामान्यतःशास्त्रेणावगमितत्वात् स्मृतिरपि वर्ण्णा आश्रमाश्च स्व-कर्म्मनिष्ठाः प्रेत्य कम्म फलमनुभूय ततः शेषेण विशिष्टदेश-जातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधायै जन्म प्रतिपद्यन्तइति सानुशयानामेवावरोह दर्शयति कः पुनरनुशयीनामेति केचित्तावदाहुः स्वर्गार्थस्य कर्म्मणो भुक्तफलस्याव-शेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथाहिस्नेहभाण्डं विरिच्यमानं सर्व्वात्मना विरिच्यते भाण्डानु-सार्य्येव कश्चित् स्नेहशेषोऽवति ते तथानुशयोऽपीति ननु-कार्य्यविरोधित्वाददृष्टस्य भुक्तफलस्यावशेषेणाव-स्थानं न्थाप्यम् नायं दोषः हि सर्व्वात्मनाभुक्तफलत्वं कर्म्मणः प्रतीजानीमहे ननु निरवशेष-कर्म्मफलभोगाय चन्द्रमण्डलमारूढः वाढं तथापिस्वल्पकर्म्मावशेषमात्रेण तत्रावस्थातुं शक्यते यथाकिल कश्चित् सेवकः सकलैः सेवोपकरणैः राजकुल-मुपसप्तः चिरप्रवासात् परिक्षीणबहूपकरणः छत्रपादु-कादिमात्रावशेषो राजकुलेऽवस्थातुं शक्नोति, एव-मनुशयलेशमात्रपरिग्रहो चन्द्रमण्डलेऽवस्थातुं शक्नो-तीति चैतद्युक्तमिव हि स्वर्गार्थस्य कर्म्मणोभुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्य्यविरोधित्वादित्युक्तम् ।नन्वेतदप्युक्तं स्वर्गफलस्य कर्मणोनिखिलस्य भुक्तफलत्वंभविष्यतीति तदेतदपेशलं स्वगांर्थं किल कर्म स्वर्गस्थस्यैवस्वर्गफलं निखिलं जनयति स्वर्गच्युतस्यापि कञ्चित् फललेशंजनयतीति” शब्दप्रमाणकानामीदृशी कल्पनावकल्पते ।स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते तथासेवकस्योपकरणलेशानुवृत्तिर्दृश्यते त्विह तथा स्वर्ग-फलस्य कर्म्मणोलेशानुवृत्तिर्दृश्यते नापि कल्पयितुंशक्यते स्वर्गफलत्वशास्त्रषिरोधात् अवश्यञ्चैतदेवं विज्ञेयंन स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेक-देशोऽनुवर्त्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्म-णेष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयःकल्प्येत ततो रमणीयएवैकोऽनुशयः स्यान्न विपरीतः ।तत्रेयमनुशयविभागश्रुतिरुपरुध्येत “तद्य इह रमणीय-चरणाः अथ इह कपूयचरणा इति” तस्मादामुद्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः तद्वन्तोऽवरोहन्ति यदप्युक्तं यत्किञ्चित्यवि-शेषेण परामर्शात् सर्वस्येहकृतस्य कर्मणः फलोपभोगेनान्तंप्राप्य निरनुशया अवरोहन्तीति नैतदेवम् अनुशयसद्भा-वस्यावगमितत्वात् यत्किश्चिदिहकृतमामुष्मिकफलं कर्मा-रब्धभोगं तत् सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।यदप्युक्तं प्रायणमविशिष्टत्वादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित् कर्मणामुष्मिल्लोँके फलमारभ्यतेकेनचिदस्मिन्नित्ययं विभागो सम्भवतीति तदप्यनु-शयसद्भावप्रतिपादनेनैव प्रत्युक्तम् अपि केनहेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं “प्रतिज्ञायतइति वक्तव्यम् आरब्धफलेन कर्म्मणा प्रतिबद्धस्येतरस्यवृत्त्युद्भवानुपपत्तेस्तष्टुपशमात् प्रायणकाले वृत्त्युद्भवो भव-तीति यद्युच्येत” ततोवक्तव्यं यथैव हि प्राक्प्रायणादारब्ध-फलेन कर्म्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवंप्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्म्मणः युगपत्फला-रम्भामम्भावाद्वलवता प्रतिवृद्धस्य दुर्बलस्य वृत्त्युद्भवानुपप-त्तिरिति नह्यनारब्ध्वफलत्वसामान्ये जात्यन्तरोपभोग्यफलमप्यनेककर्म्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जाति-मारभतैति शक्यं वक्तु प्रतिनियतफलत्वविरोधात् नापि-कस्यचित् कर्म्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इतिशक्यं वक्तुम् ऐकान्तिकफलत्वविरोधात् नहि प्राय-श्चित्तादिभिर्हेतुभिर्विना कर्म्मणोऽनुच्छेदः सम्भाव्यते ।स्मृतिरपि विरुद्धफलेन कर्म्मणा प्रतिबद्धस्य कर्मान्तरस्य-चिरमप्यवस्थानं दर्शयति “कदाचित् सुकृतं कर्म्मकूटस्थमिह तिष्ठति पच्यमानस्य संसारे यावद्दुःखाद्विमु-च्यते” इत्येवंजातीयका यदि कृत्स्नमनारब्धफलंकर्म्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत ततःसर्गनरकतिर्य्यग्योनिष्वधिकारानवगमात् धर्म्माधर्म्मानुत्-पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ब्रह्महत्या-दीनां चैकैकस्य कर्म्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाण-मुपरुध्येत नच धम्माधर्म्मयोः स्वस्वरूपफलसाधनतादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् ।नच दृष्टफलस्य कर्म्मणः कारीर्य्यादेः प्रयाणमभिव्यञ्जकंसम्भवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।प्रदीपोपन्यासोऽपि कर्म्मबलाबलप्रदर्शनेनैव प्रतिनीतः ।स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यं यथा हि प्रदीपःसमानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति सूक्ष्मम्, एवंप्रायणं समानेऽप्यनारब्धफलस्यकर्म्मजातस्य प्राप्तावसरत्वेबलवतः कर्म्मणोवृत्तिमुद्भावयति दुर्बलस्येति ।तस्मात् श्रुतिस्मृतिन्यायविरोधादश्लिष्टोयमशेषकर्म्माभिव्यक्ते-रभ्युपगमः शेषकर्म्मसद्भावेऽनिर्मोक्ष प्रसङ्ग इत्ययमप्यस्थाने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः तस्मात्स्थितमेतदनुशयवन्तोऽवरोहन्तीति ते चावरहन्तो यथेत-मनेवञ्चावरोहन्तीति यथेतमिति यथागतमित्यर्थः ।अनेवमिति तद्विपर्य्ययणेत्यर्थः धूमाकाशयीः पितृयाने-ऽध्वन्युपात्तयोरवरोहे सङ्कीर्त्तनात् यथेतंशब्दाच्च यथागत-मिति प्रतीयते रात्र्याद्यसंकीर्त्तनादभ्रादिसंख्यानाच्चविपर्प्ययोऽपि प्रतीयते” भा० अनतिदूरे तत्रैव“स्वाभाव्यापत्तिरुपपत्तेः” शा० सू० “इष्टादिकारिण-श्चन्द्रमसमारुह्य तस्मिन् यावत्संम्पातमुषित्वा ततः सानु-शया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यतेतत्रेयमवरोहश्रुतिर्भवति “अथैतमेवाध्वानं पुनर्निवर्त्तन्तेयथेतमाकाशमाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वाऽभ्रं भवति अभ्रं भूत्वा प्रवर्षतीति” तत्र संशयः किमा-काशादिस्वरूपमेवावरोहन्तः? प्रतिपद्यन्तेकिं वाऽकाशादि-साम्यमिति? तत्र प्राप्तन्तावदाकाशादिस्वरूपमेव प्रतिपद्यन्तेइति कुतः? एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात्श्रुतिलक्षणाविषये श्रुतिर्न्याय्या लक्षणा, तथा वायु-र्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत् स्वरूपोपपत्तावेव-कल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरित्येवं प्राप्ते ब्रूमःआकाशादिसाम्यं प्रतिपद्यन्त इति चन्द्रमण्डले यदन्मयंशरीरमुपभीगार्थमारब्धं तदुपभोगक्षये सति प्रलीयमानंसूक्ष्ममाकाशसमं भवति ततोवायोर्वशमेति ततो धूमा-दिभिः संसृज्यत इति तदेतदुच्यते यथेतमाकाशाद्वायुमित्या-दिना कुतः एतत्? उपपत्तेः एवं ह्युपपद्यते नह्य-न्यस्यान्यभावोमुख्य उपपद्यते आकाशस्वरूपप्रतिपत्तौच वाष्वादिक्रमेणावरोहोनोपपद्यते विभुत्वाच्चाकाशे-न नित्यसंबन्धान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटेत ।श्रुत्यसम्भवे लक्षणाश्रयणं न्याय्यमेव अत आकाशादि-तुल्यत्वापत्तिरेवात्राकाशादि भाव इत्युपचर्य्यते” भा० नाति-चिरेण विशेषात्” शा० सू० “तत्राकाशादिप्रतिपत्तौ प्राग्-व्रीह्यादिप्रतिपत्तेर्भवति विशयः किं दीर्घं कालं पूर्व्व-पूर्व्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यंगच्छन्ति? उताल्पमल्प-मिति? तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवंप्राप्ते इदमाह नातिचिरेणेति अल्पमल्पकालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति कुतएतत्? विशेषदर्शनात् तथा हि व्रीह्यादिभावापत्तेरनन्तरंविशिनष्टि “अतो वै खलु दुर्न्निष्प्रपतरमिति” तकार एकःछान्दस्यां प्रक्रियायां लुप्तोमन्तव्यः दुर्निप्रपततरं दुर्निःक्रमतरं दुःर्खतरमस्माद्व्रीह्यादिभावान्निःसरणम्भवती-त्यर्थः तदत्र दुःखनिःप्रपतनं प्रदर्शयन् पूर्व्वेषु सुखनिःप्रपतनं दर्शयति सुखदुःखताविशेषश्चायं निः-प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरी-रानिष्पत्तेरुपतापासम्भवात् तस्माद्व्रीह्यादिभावा-पत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति” भा० “अन्या-धिष्ठिते पूर्व्ववदभिलापात्” सू० “तस्मिन्नेवावरोहे प्रवर्ष-णानन्तरं पठ्यते “इह व्रीहियवाओषधिवनस्पतयस्तिलमाषाजायन्त” इति तत्र संशयः किमस्मिन्नवधौ स्थावरजात्या-पन्नाः स्थावरसुखदुःखभाजोऽनुशयिनी भवन्ति? आहोस्वित्क्षेत्नज्ञान्तराधिष्ठितेषु संश्लेषमात्रंगच्छन्तीति? किं तावत्प्राप्तं स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति कुतः एतत्? जनेर्मुख्यार्थत्वोपपत्तेः स्थावर-भावस्य श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः तस्मान्-मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादि जन्मवत् ।यथा श्वयोनिं वा शूकरयोतिं वा चाण्डालयोनिं वेतिमुख्यमेवानु शयिनां श्वादिजन्म सुखदुःखान्वित म्भवतिएवं व्रीह्यादिजन्मापीत्येवं प्राप्ते ब्रूमः अन्यैर्जी वैरधि-ष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते तत्-मुखदुःखभाजो भवन्ति पूर्ब्धवत् यथा वायुधूमादिभावोऽ-नुशयिनान्तत्संप्लेषमात्नमेवं व्रीह्यादिभावोऽपि स्थावरैःसंश्लेषमात्रम् कुत एतत्? तद्वदेवेहास्याभिलापात् कोऽ-भिलापस्यतद्वद्भावः! कर्तव्यापारमन्तरेण संकीर्त्तनं यथाऽ-काशादिषु कञ्चित् कर्मव्यापारं परामृशति एवंव्रीह्यादिजन्मन्यपि तस्मान्नास्त्यत्र सुखभाक्त्वमनुशयिनाम्यत्र तु सुखदुःखभाक्त्वमभिप्रति, परामृशति तत्र कर्मव्या-पारं “रमणीय चरणाः कपूयचरणा” इति अपि चमुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषुभज्यमानेषु पच्यमानेषु भक्ष्यमाणेषु तदभिमानि-नोऽनुशयिनः प्रवसेयुः यो हि जीवोयच्छरीरमभि-मन्यते तस्मिन् पीड्यमाने प्रवसतीति प्रसिद्धम् ।तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत, अतः संसर्गमात्रमनुशयिनामन्याघिष्ठितेषु ब्रीह्यादिषुभवति एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थानत्वञ्च स्थावरभावस्य वयमुपभोगस्थानत्वं स्थावरभा-वस्यावजानीमहे भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येनस्थावरभावमुपगतानामेतदुपभोगस्थानं, चन्द्रमसं त्ववरो-हन्तोऽनुशयिनो स्थावरभावमुपभुञ्जत इत्याचक्ष्महे” भा० ।“अशुद्धमिति चेन्न शब्दात्” सू० “यत् पुनरुक्तं पशु-हिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फल-मवकल्पत इत्यतो मुख्यमेवानुशयिनो व्रीह्यादिजन्मास्तुतत्र गौणी कल्पनाऽनर्थिकेति तत् परिह्रियते ।न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्मइति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोर-नियतदेशकालनिमित्तत्वाच्च यस्मिन्देशे काले निमित्तेच योधर्मोऽनुष्ठीयते एव देशकालनिमित्तान्तरेषुअघर्मो भवति तेन शास्त्रादृते धर्मावर्मविषयंज्ञानंकस्यचिदस्ति शास्त्राच्च हिंसानुग्रहाद्यात्मकोज्योतिष्टो-मोधर्म्म इत्यवधारितं कथमशुद्ध इति शक्यते वक्तुम् ।ननु “मा हिंस्यात् सर्व्वाभूतानीति” शास्त्रमेव भूतविषयांहिंसामधर्म इत्यवगमयति” वाढं उत्सर्गस्तु सः ।अपवादः “अग्नीषोमीयं पशुमालभेतेति” उत्सर्गापवादयोश्चव्यवस्थितविषयत्वम् तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनु-ष्ठीयमानत्वादनिन्द्यमानत्वाच्च तेन तस्य प्रतिरूपंफलं जातिस्थावरत्वम् नच श्वादिजन्मवदपि ब्रीह्यादि-जन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्योच्यते नैवमिहवैशेषिकः कश्चिदधिकारोऽस्ति अतश्चन्द्रस्थलात् स्खलिता-नामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्य्यते”भा० “रेतःसिग्योगोऽथ” सू० “इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः यत्कारणं ब्रीह्यादिभावस्या-नन्तरमनुशयिनां रेतःसिगभाव आम्नायते “योयोह्य-न्नमत्ति योरेतः सिञ्चति तद्भूय एव भवतीति” चात्रमुख्योरेतःसिग्भावः सम्भवति चिरजातो हि प्राप्तयौवनो-रेतःसिग्भवतीति कथमिवानुपचरिततद्भावमद्यमानान्नानु-गतोऽनुशयी प्रतिपद्येत तत्रावश्यं रेतःसिग्योग एवरेतःसिग्भावोऽभ्युपगन्तव्यः तद्वद्व्रीह्यादिभावोऽपिव्रीह्यादियोग एवेत्यविरोधः” भा०
“योनेःशरीरम्”सू०
“अथ रेतःसिग्भावस्यानन्तरं योनौ सिक्ते रेतसियोनेरधिशरीरमनुशयिनामनुशयफलोपभोगायतनम् इत्याह शास्त्रम् “तद्य इह रमणोयचरणा” इत्यादि ।तस्मादप्यवगम्यते नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेवसुखदुःखान्वितं मवतीति तस्माद्व्रीह्यादिसंश्लेषमात्र-मनुशयिनां तज्जन्मेति सिद्धम्” भा० संज्ञायां कर्त्तरि घञ्“वटादितरोः शाखातो मूलावघि अवतारकेऽंशभेदे ।“अवरोहगताकीर्ण्णं वटमासाद्य तस्थतुः” रामा० ।ज्योतिषोक्ते दशाभेदे स्त्री अवरोहिशब्दे उदा०
Capeller
German
अवरोह
m.
das Herabsteigen (übertr.).
Stchoupak
French
अव-रोह-
m.
racines aériennes (du banyan).