| YouTube Channel

अवरोधिकः (avarodhikaH)

 
Apte Hindi
Hindi
अवरोधिकः
पुं*
- -
अंतःपुर का पहरेदार
E Bharati Sampat
Sanskrit
(पुं) अवरोधे नियुक्तः - अवरोध + ठक् "तत्र नियुक्तः" (४.४.६९) [संज्ञापूर्वकत्वात् वृद्धयभावः] १. कञ्चुकी, अन्तःपुरस्य रक्षकः (स्त्री) अवरोधिका अवरोधः वासत्वेन अस्ति अस्याः २. राजपत्नी ‘ययुस्तुरङ्गाधिरुहोऽवरोधिकाः’ - माघ. १२.२० ३. अन्तःपुरवास्त्रिनी महिला
शब्दकल्पद्रुमः
Sanskrit
अवरोधिकः,
पुं,
(अवरोध + तत्र नियुक्त इति ठक् ।संज्ञापूर्व्वकत्वात् वृद्ध्यभावः अवरोधः निवास-त्वेन अस्ति अस्य वा ठन् ।) राजान्तःपुराध्यक्षः ।इति हेमचन्द्रः