| YouTube Channel

अवरजः (avarajaH)

 
Apte Hindi
Hindi
अवरजः
पुं*
अवर-जः -
छोटा भाई
E Bharati Sampat
Sanskrit
(पुं) अवरस्मिन् काले जायते - जनी (प्रादुर्भावे) + डः "सप्तम्यां जनेर्डः" (३..२.९७) १. कनिष्ठभ्राता ‘जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः’ - अमरः "सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः" - रघु. १४.११ २. ब्राह्मादिचतुर्षु वर्णेषु अन्तिमः ‘द्वौ शूरावरजौ धीरवित्रपाख्यैः निजाख्यया’ - राजतर० (स्त्री) अवरजा ३. कनिष्ठा भगिनी "रावणावरजा तत्र राघवं मदनातुरा" - रघु. १२.३२ ४. शूद्रा स्त्री ५. अनन्तरं जाता "आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ" - माघ० १४.७४
Wordnet
Sanskrit
Synonyms:
अनुजः, जघन्यजः, कनिष्ठः, यवीयान्, अवरजः, कनीयान्, यविष्ठः, जघन्यः
noun
कनिष्ठभ्राता।
"भास्करः मम अनुजः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अवरजः,
पुं,
(अवर + जन् + ।) कनिष्ठभ्राता ।इत्यमरसिंहः
(“अस्य चावरजं विद्धि भ्रातरं मां तु लक्ष्मणम्” ।इति रामायणे हीनवंशजातः ।“द्वौ शूरावरजौ धीरवित्रपाख्यौ निजाख्यया” ।इति राजतरङ्गिण्यां
शूद्रः ।“यदि स्त्री यद्यवरजः श्रेयः किञ्चित् समाचरेत् ।तत्सर्व्वमाचरेत् युक्तो यत्र वास्य रमेन्मनः”
इति मानवे ।)