| YouTube Channel

अवरः (avaraH)

 
E Bharati Sampat
Sanskrit
(पुं) अवराति अव + रा (दाने) + कः "आतश्चोपसर्गे" (३.१.१३६) [न वरः इति वा] १. अग्रिमः कालः २. पृष्ठभागः ३. अन्तिमः ४. अधमः, निकृष्टः "दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय" - गीता. (२.४९) ६. लघुः ७. पृष्ठभागस्यः ८. विद्यते वरः यस्मात् श्रेष्ठः ९. (न) गजस्य ऊरोः पृष्ठभागः ‘द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात्’ - अमरः
शब्दकल्पद्रुमः
Sanskrit
अवरः, त्रि, (न व्रियते इति वृञ्वरणे + ग्रहवृ-द्रिति अप् ।) चरमः इति मेदिनी कनिष्ठः ।अश्रेष्ठः यथा, --“श्रीर्नेशेन विना शम्भुः पृथग्विश्वेन तत्पुनः ।न नाना शम्भुना रामाद्वर्षेणाधोक्षजोऽवरः”
इति मुग्धबोधव्याकरणे वोपदेवः
निकृष्टः ।यथा, --“दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः”
इति श्रीभगवद्गीतायां अध्याये ४९ श्लोकः