| YouTube Channel

अवयविन् (avayavin)

 
शब्दसागरः
English
अवयविन्
mfn.
(-वि-विनी-वि)
1. Limbed, having limbs.
2. Having portions
or subdivisions.
m.
(-वी) A syllogism, a logical argument.
E.
अवयव
and इनि
aff.
Yates
English
अव-यविन् (वी-विनी-वि)
a. Limbed,
having parts.
m.
A syllogism.
Spoken Sanskrit
English
अवयविन् - avayavin -
m.
- syllogism
संवाक्य - saMvAkya -
n.
- syllogism [ Logic ]
पञ्चावयव - paJcAvayava -
n.
- syllogism
केवल संवाक्य - kevala saMvAkya -
n.
- categorical syllogism [ Aristotelian Logic ]
साध्य - sAdhya -
n.
- major term in a syllogism [ logic ]
निगमन - nigamana -
n.
- conclusion in a syllogism
अपदेश - apadeza -
m.
- second step in a syllogism
हेत्वपदेश - hetvapadeza -
m.
- second part in a syllogism
अनुसन्धान - anusandhAna -
n.
- fourth step in a syllogism
उत्तरपक्ष - uttarapakSa -
m.
- minor proposition in a syllogism
अर्थापत्ति - arthApatti -
f.
- disjunctive hypothetical syllogism
वाक्य - vAkya -
n.
- syllogism or member of a syllogism
पक्ष - pakSa -
m.
- proposition to be proved in a syllogism
अनुसन्धान - anusandhAna -
n.
- fourth step in a syllogism (application) [ logic ]
अधिकरणसिद्धान्त - adhikaraNasiddhAnta -
m.
- syllogism or conclusion which involves others
निग्रह - nigraha -
m.
- weak point in an argument or fault in a syllogism
निगमन - nigamana -
n.
- summing up of an argument or conclusion in a syllogism
प्रतिज्ञा - pratijJA -
f.
- first member or avyaya of the five-membered nyAya syllogism
अवयविन् avayavin
adj.
having portions or subdivisions
अवयविन् avayavin
adj.
a whole
अवयविन् avayavin
m.
syllogism
Wilson
English
अवयविन्
mfn.
(-वी-विनी-वि) Limbed, having limbs.
2 Having portions or subdivisions.
m.
(-वी) A syllogism, a logical
argument.
E.
अवयव and इनि
aff.
Apte
English
अवयविन् [avayavin],
a.
[अवयवः कारणत्वेनास्त्यस्य इनि] Having limbs, having portions or subdivisions (as a whole)
अवयविना सह पूर्वादयः समस्यन्ते
P.
II.2.1. Sk.
m.
(वी) A whole, any substance formed of several constituents
ननु अवयविनि किं मानम् Sid. Mukt.
A syllogism, or any logical argument.
Apte 1890
English
अवयविन् a. [अवयवः कारणत्वेनास्त्यस्य इनि] Having limbs, having portions or subdivisions (as a whole)
अवयविना सह पूर्वादयः समस्यंते P. II. 2. 1. Sk.
m. (वी) 1 A whole, any substance formed of several constituents
ननु अवयविनि किं मानं Sid. Mukt.
2 A syllogism, or any logical argument.
Monier Williams Cologne
English
अवयविन्
mfn.
having portions or subdivisions, a whole,
BhP.
&c.
अवयविन्
m.
(ई) a syllogism,
Nyāyad.
&c.
Monier Williams 1872
English
अवयविन्, ई, इनी, इ, limbed, having limbs
having
portions or subdivisions
a whole
(ई), m. a syl-
logism, a logical argument.
Benfey
English
अवयविन् अवयविन्, i. e. अवयव +
इन्,
adj.
,
f.
नी, Consisting of parts,
Bhāṣāp. 155.
Apte Hindi
Hindi
अवयविन्
वि* - अवयव +इनि
"अवयव, अंश या उपभागों से बना हुआ।"
Shabdartha Kaustubha
Kannada
अवयविन्
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಪ್ರತಿಜ್ಞಾದಿ ಪಂಚಾವಯವಗಳನ್ನೊಳಗೊಂಡ ತಾರ್ಕಿಕರ ವಾದ
अवयविन्
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಂದು ಸಂಪೂರ್ಣ ವಸ್ತು /ನಾನಾಭಾಗಗಳನ್ನೊಳಗೊಂಡ ಒಂದು ಪೂರ್ಣವಸ್ತು
निष्पत्तिः - > "इनिः" (५-२-११५)
व्युत्पत्तिः - > अवयवाः सन्त्यस्य
L R Vaidya
English
avayavin {% (I) a. (f. नी) %} Having अवयव q.v.
avayavin {% (II) m. %} A syllogism (in logic).
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अवयविन् ° = प्रशस्तावयव, H 43, 182.
Sanskrit Tibetan
Tibetan
cha shas can
अवयविन्
वाचस्पत्यम्
Sanskrit
अवयविन्
त्रि०
अवयवः कारणत्वेनास्त्यस्य इनि अवयवजन्येद्रव्ये अवयवित्वंच कार्य्यद्रव्यत्वम् तच्च नैयाकिदिभिरवयवा-द्भिन्नतया उत्पद्यते इत्युरीकृतम् तत्र मुक्ता० प्रमाणमप्युपन्य-स्तम् “ननु अवयविनि किं मानं? परमाणुपुञ्जैरैवोपपत्तेः नच परमाणूनामतोन्द्रियत्वात् घटादेः प्रत्यक्ष स्यादिति वा-च्यम् एकस्थ परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्ष-त्वात् यथा एकस्य केशस्य दूरेऽप्रत्यक्षत्वे तत्समूहस्य प्रत्यक्ष-त्वम् एकः स्थूलो महान् घट इति बुद्धेरनुपप-त्तिरिति वाच्यम् एको महान् धान्यराशिरितिवदुपपत्तेः, सैवं परमाणोरतोन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायो-ग्यत्वात दूरस्यकेशस्तु नातीन्द्रियः सन्निधाने तस्यैव प्रत्यक्ष-त्वात् तदानीम् अदृश्यपरमाणुपुञ्जात् दृश्यपरमाणुपु-ञ्जस्योत्पन्नत्वात् प्रत्यक्षत्वे विरोध इति वाच्यम् अदृश्यस्यदृश्यानुपादानत्वात् अन्यथा चक्षुरूष्मादिसन्ततौ कदाचिद्दृश्यत्वप्रसङ्गात् चातितप्ततैलादौ कथमदृश्यदहनस-न्ततेः दृश्यदहनोत्पत्तिरिति वाच्यं तत्र तदन्तःपातिभिःदृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् चअदृश्यद्व्यणुकेन कथं त्रसरेणोरुत्पत्तिरिति? वाच्यम् ।यतो वयं दृश्यत्वमदृश्यत्वं वा कस्यचित् स्वभावादाचक्ष्महेपरन्तु महत्त्वोद्भूतरूपादिकारणसमुदायवशात् दृश्यत्वंतथा त्रसरेणोर्म्महत्त्वात् प्रत्यक्षं तु द्व्यणुकादेःतद-भावात् हि तन्मतेऽपीदं सम्भवति परमाणौ महत्त्वा-भावात् इत्थं चावयविसिद्धौ तेषामुत्पादविनाशयोः प्रत्यक्ष-त्वादनित्यत्वं तेषां चावयवावयविधाराया अनन्तत्वे मेरुसर्ष-पयोरपि साम्यप्रसङ्गः अतः क्वचिद्विश्रामो वाच्यःयत्र विश्रामस्तस्यानित्यत्वे त्वसमवेतकार्य्योत्पत्तिप्रसङ्गःस्यात् अतस्तस्य नित्यत्वं महत्परिमाणतारतस्यस्य गगनादौविश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्तत्व-मस्ति इति तस्य परमाणुत्वसिद्धिः त्रसरेणावेवविश्रामोऽस्त्विति वाच्यं त्रसरेणुः सावयवः चाक्षुषद्रव्यत्वात्घटवदित्यनुमानेन दवयवसिद्धौ त्रसरेणोरवयवाः सावयवाःमहदवयवत्त्वात् कपालवदित्यनुमानेन तदवयवसिद्धेः नचेदमप्रथोजकम् अपकृष्टमहत्त्वं प्रति अनेकद्रव्यवत्त्वस्यप्रयोजकत्वात् नचैवं क्रमेण तदवयवधारापि सिध्ये-दिति वाच्यम् अनवस्थाभवेन तदसिद्धेः” व्यख्यातञ्चै तत्दिनकर्य्याम् “बौद्धः शङ्कते नन्विति नन्वयं घटैत्यादिप्रतीतिरेव तत्र प्रमाणं भविष्यतीत्यत आह परमाणुपुञ्जैरेवेति विलक्षणसंस्थानविशिष्टैः परमाणुभिरेवेत्यर्थः उपप-त्तेरिति अयं घट इत्यादिप्रतीतेरुपपत्तेरित्यर्थः तत् समूहस्यपरमाणुसमूहस्य तत्र दृष्टान्तमाह यथेति तत्समूहस्यकेशसमूहस्य अनुपपत्तिरिति परमाणुविषयत्वादिति शेषःउपपर्त्तरिति तत्र यथा धान्यसमूहस्येकत्वादेक इतिप्रतीतिरेवं संयोगविशेषस्यैव महत्त्वात्मकतया महानितिप्रतीतिस्तथा परमाणुपुञ्जेष्वपीति भावः प्रत्यक्षायो-ग्यत्वादिति तथाच स्वभावतोऽयोग्यानां परमाणूनां पर-स्परसंयोगमात्रेण योग्यत्वं भम्भवतीति भावः दूर-स्थकेशस्तु स्वमावतो नातीन्द्रिय इति त्वदुक्तदृष्टान्तस्यवैषम्यमित्याह दूरस्थकेशस्त्विति तस्य दूरस्थ केशस्य तस्यै-वेति एवकारश्च प्राक्तनसन्निधानपदेनान्वेति तथाच सन्नि-धान एव तस्य प्रत्यक्षत्वादित्यर्थः तथाच दूरत्वस्य प्रतिबन्धकत्वात्तद्दशायाम् अप्रत्यक्षत्वमात्रं तस्य, तु स्वाभाविकाप्रत्यक्षत्वमिति भावः उत्पन्नत्वादिति क्षणभङ्गवादिनांमते परमाणूनामुत्पत्तिस्वीकारादिति भावः अन्यथाअदृश्यस्य दृश्योत्पादकत्वे तत्र तादृशदहनोत्पत्तिस्थले) ।तदन्तःपातिभिः अतितप्ततैलान्तःपातिभिः स्वभावात्कारणनैरपेक्ष्यात् उद्भूतरूपादीति आदिनालोकादि-परिग्रहः तदभावे महत्त्वोद्भूतरूपाद्यभावे महत्त्वाभा-वादित्यर्थः अत्र नास्तिकमतानुयायिनः परस्परविभक्तपरमाणूनां महत्त्वाभावादप्रत्यक्षत्वेऽपि परस्परसंयुक्तानां पुञ्जात्मनान्तेषां प्रत्यक्षे बाधकाभावः नच महत्त्वाभावएव बाधकः परस्परविलक्षणसंयोगस्यैव महत्त्वरूपस्यप्रत्यक्षजनकत्वात् नच परमाणूनां नित्यत्वाद्घटादावुत्पत्तिनाशयोः प्रतीत्यनुपपत्तिरिति वाच्यम् तन्मते पदार्थमात्रस्यैवक्षणिकत्वात् परमाणूनामुपत्पत्तिनाशयोः स्वीकारात् नचपरमाणुपुञ्जेषु घटत्वाङ्गीकारे कपालाद्घट इति प्रतीतेरनुपपत्तिः परमाणृनां कपालजन्यत्वाभावादिति वाच्यतन्मते कपालस्यापि परमाणुपुञ्जरूपतया घटरूपपुञ्जेषुकपालरूपपुञ्जजन्यत्वस्वीकारात् पुञ्जात् पुञ्जोत्पत्तिरितितेषां सिद्धान्तादित्याहुः, तन्न घट इत्यादिप्रतीतिविषय-ताया अनेकपरमाणुषु कल्पने गौरवात् अवयवातिरिक्ता-वयविसिद्धिरिति दिक् मेरुसर्षपयोरपीति अपिशब्दःसाम्यप्रसङ्ग इत्युत्तरं सम्बध्यते तेन द्व्यणुकस्य सावय-वारब्ध्रत्वे महत्त्वापत्तिः समुच्चीयते साम्यं परिमाणता-रतम्याभावः परिमाणकारणीभूताया अवयवसंख्यायाउभयत्र साम्यादिति भावः नच मेर्ववयवानां नसर्षमतुल्यपरिमाणवत्त्वं, सर्षपावयवानां मेर्ववयवतुल्यपरिमाणवत्त्वमित्यवयवपरिमाणविशेषाद्विशेष इति वा-च्यम् मेर्बवयवसर्षपावयवयोरप्यनन्तावयवत्वेन तत्परि-माणतारतम्याभावस्याप्यापादनीयत्वाम् नच मेरुसर्षपयोरवयवगतप्रचयाख्यसंयोगविशेष इति वाच्यम् प्रचयविशेष-स्यापि संख्याविशेषनियम्यत्वेन संख्याविशेषाभावे तद्वि-शेषानुपपत्तेरिति ननु तथापि विश्रामाश्रयस्य नित्यत्वेमानाभाव इत्यत आह यत्र त्विति असमवेतकार्य्योत्पत्तिप्रसङ्ग इति असमवेतभावकार्य्योत्पत्ति प्रसङ्ग इत्यर्थः ।ननु तस्य नित्यत्वसिद्धावपि अणुत्वे किं मानमित्यत आहमहत्परिमाणेति चाक्षुषद्रव्यत्वादिति अत्रात्मनि व्यभि-चारवाराय चाक्षुषंपदं घटाभावे व्यभिचारवारणायद्रव्यपदम् तदवयवसिद्धाविति त्रसरेण्ववयसिद्धावित्यर्थः तदसिद्धेरिति अवयवधाराया असिद्धेरित्यर्थः अत्र नव्याःत्रसरेणोरवयवाः सावयवा इत्याद्यनुमानयोरुक्तयोरप्र-योजकत्वेन त्रुटावेव विश्रामः नच चाक्षुषं प्रति महत्त्वंकारणं तथाच त्रुटौ महत्त्वमावश्यकं तच्चावयवसंख्याजन्य-मिति अवयवं विना नोत्पद्यते इत्यनुकूलतर्कसत्त्वान्नाप्रयो-जकत्वं द्व्यणुकसाधकानुमानस्येति बाच्यम् त्रसरेणुमहत्त्वस्यनित्यत्वस्वीकारेणोक्ततर्कानवतारात् नचाणुव्यवहारस्याणु-परिमाणनिबन्धनतया तदाश्रयद्रव्यसिद्धिराश्यकीति वा-च्यम् तस्यापकृष्टपरिमाणनिबन्धनत्वात् महत्यपि मह-त्तमादणुव्यवहारात् चैवं त्रसरेणुपुञ्जएवास्त्ववय-वीति वाच्यम् विशकलितेष्वपि तेषु घट इत्यादिप्रत्ययप्रसङ्गात् नच तत्संयोगवृत्त्येव घटत्वं घटोद्रव्यमित्यादिप्रतीतौ परम्परया तद्भानमिति वाच्यं सम्भवति साक्षात्सम्बन्धविषयत्वे परम्परासम्बन्धविषयकत्वकल्पने गौरवादि-त्याहुः ननु परमाणुत्रयेण कुतो द्रव्यान्तरोत्पत्तिःपरमाणुद्वयेन द्व्यणुकवत् द्व्यणुकद्वयेन द्रव्यान्तरोत्पत्त्या-पत्तिस्त्रिभिर्द्व्यणुकैस्त्र्यणुकवदिति चेन्न प्रमाणाभावेनतादृशद्रव्यासिद्धौ परमाणुत्रये द्व्यणुकद्वये द्रव्यारम्भ-कसंयोगाऽकल्पनात् अत्रेदं चिन्त्यं त्रिभिः परमाणुभिरेवत्र्यणुकमस्तु परमाणुभ्यामारिम्भे सिद्धान्तिनां द्व्यणु-काभ्यामनारम्भ इव मानाभावात् फलबलेन त्रयाणामेवयुगपद्द्रव्यारम्भसंयोगकल्पनात् वस्तुतो गवाक्षरन्ध्रे दृश्य-मानानां द्व्यणुकत्वमेव युक्तमणुद्वयारब्धत्वे लाघवादिति” ।अयमबयवी कारणात् भिन्नएव कार्य्यकारणयोरैक्याभावात्नियतपूर्व्ववर्त्तिन एव कारणतया कारणस्य प्राक्सत्त्व-नियमेन कार्य्यस्य तदाऽसत्त्वेन तयोर्भेदात् अतएव“द्रव्याणि द्रव्यान्तरभारभन्ते” इति वै० सूत्रे अन्तरपद-मुपात्तम् इति वैशेषिकादयः स्वीचक्रुः सांख्यावेदान्ति-नश्च कार्य्यस्य कारणैक्यमेव स्वीचक्रुः तथाहि “तदनन्य-त्वमारम्भणशब्दादिभ्यः” “युक्तेश्च शब्दान्तराच्च” शा० सू०तद्भाष्ये चोक्तम् “युक्तेश्च प्रागुत्पत्तेः कार्य्यस्य सत्त्वमनन्यत्वञ्च कारणादवगम्यते शब्दान्तराच्च युक्तिस्तावद्व-र्ण्यते दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानिक्षीरसुवर्ण्णमृत्तिकादीन्युपादीयमानानि लोके दृश्यन्ते नहि दध्यर्थिभिर्मृत्तिकोपादीयते घटार्थिभिः क्षीरम् ।तच्चासत्कार्य्यवादे नोपपद्यते अविशिष्टे हि प्रागुत्पत्तेःसर्वत्र सर्व्वस्यासत्त्वे कस्मात् क्षीरादेरेव दध्युत्पद्यते नमृत्तिकायाः, मृत्तिकाया एव घट उत्पद्यते क्षीरात् ।अथाविशिष्टेऽपि प्रागसत्त्वे क्षीरएव दध्नः कश्चिदतिशयोन मृत्तिकायां, मृत्तिकायामेव घटस्य कश्चिदतिशयो क्षीरे-इत्युच्येत तर्ह्यंतिशयवत्त्वात् प्रागवस्थाया असत्कार्य्यवाद-हानिः सत्कार्य्यवादसिद्धिश्च शक्तिश्च कारणस्य कार्य्य-नियमार्था कल्प्यमाना नान्याऽसतो वा कार्य्यं नियच्छेत्असत्त्वाविशेषादन्यत्वाविशेषाच्च तस्मात् कारणस्यात्म-भूता शक्तिः शक्तेश्चात्मभूतं कार्य्यम् अपिच कार्य्यकारण-योर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्य-मभ्युपगन्तव्यम् समवायकल्पनायामपि समवायस्यसमवायिभिः सम्बन्धेऽभ्युपगम्यमाने तस्य तस्वान्योऽन्यःसम्बन्धः कल्पयितव्यः इत्यनवस्थाप्रसङ्गः अनायुपगम्य-मानेऽत्र विच्छेदप्रसङ्गः अथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्यते, संयोगोऽपि तर्हि स्वयंसम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत तादात्म्यप्रतीतेश्चद्रव्यगुणादीनां सभवायकल्पनानर्थक्यम् कथञ्च कार्य्यमव-यविद्रव्यं कारणेष्ववयवेषु वर्त्त मानं वर्त्तते किं समस्तेष्व-वयवेषु वर्त्ततौत प्रत्यवयवम् यदि तावत् समस्तेषु वर्त्तेतततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्या-शक्यत्वात् नहि बहुत्वं समस्तेष्वाश्रयेषु वर्त्तमानं व्यस्ताश्रयग्रहणेन गृह्यते अथावयवशः समस्तेषु वर्त्तेततदास्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन्यैरवयवैरारम्भकेष्ववयवशवयवी वर्त्तेत कोशावयवव्यति-रिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति अनवस्था चैवं प्रस-ज्येत तेषु तेष्ववयवेषु वर्त्तयितुमन्येषामन्येषा मवयवानांकल्पनीयत्वात् अथ प्रत्यवयवं वर्त्तेत तर्ह्येकत्र व्यापारेऽन्या-त्राव्यापारः स्यात् हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रे सन्निधीयते युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गात् देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः ।गोत्वादिवत् प्रत्येकं परिसमाप्तेरदोष इति चेन्न तथाप्रतीत्यभावात् यदि गोत्वादिवत् प्रत्येकं परिसमाप्तोऽवय-वी स्यात् यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते एवमवय-व्यपि प्रत्यवयवं प्रत्यक्षेण गृह्येत नचैचेवं नियतं गृह्यते ।प्रत्येकं परिसमाप्तौ चावयविनः कार्य्येणाधिकारात्तस्य चैक-त्वात् शृङ्गेणापि स्तनकार्य्यं कुर्य्यात् उरसा पृष्ठकार्य्यं, नचैवं दृश्यते प्रागुत्पत्तेश्च कार्य्यस्यासत्त्वे उत्पत्तिरकर्त्तृकानिरात्मिका स्यात् उत्पत्तिश्च नाम क्रिया सा सकर्त्तकैवमवितुमर्हति गत्यादिवत् क्रिया नाम स्यादकर्त्तृकाचेति विप्रतिषिद्ध्येत घटस्य चोत्पत्तिरुच्यमाना घट-कर्त्तृका किन्तर्ह्यन्यकर्त्तृकेति कल्प्या स्यात् तथा कपाला-दीनामप्युत्पत्तिरुच्यमानान्यकर्त्तृकैव कल्प्येत तथाच सतिघटौत्पद्यते इत्युक्ते कुलालादीनि कारणान्युत्पद्यन्त इत्युक्तंस्यात् लोके घटौत्पद्यत इत्युक्ते कुलालादय उत्-पद्यमानाः प्रतीयन्ते उत्पन्नताप्रतीतेश्च अथ स्वकारणसत्ता सम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्य्यस्येति चेत्कथमलब्धात्मकं सम्भध्येतेति वक्तव्यं, सतोर्हि द्वयोः सम्बन्धःसम्भवति सददसतीरसतो र्वा अभावस्य निरुपाख्य-त्वात् प्रागुत्पत्तेरिति मर्य्यादाकरणमनुपपन्नम् सतां हिलोके क्षेत्रगृहादीनां मर्य्यादा दृष्टा नाभावस्य हिबन्ध्यापुत्रो राजा बभूव प्राक्पूर्ण्णवर्मण्णोऽभिषेकादित्येवंजातीयकेन मर्य्यादाकरणेन निरुपाख्यो बन्ध्यापुत्रो राजाबभूव भवति भविष्यतोति वा विशेष्यते यदि बन्ध्या-पुत्रः कारकव्यापारादूर्द्ध्वमभविष्यत्तत इदमप्युपापत्स्यतकार्य्याभावोऽपि कारकव्यापारादूर्द्ध्वं भविष्यतीति वयन्तुपश्यामो बन्ध्यापुत्रस्य कार्य्याभावस्य चाभावत्वाविशेषात्यथा बन्ध्यायुत्रः कारकव्यापारादूर्द्ध्वं भविष्यति एवंकार्य्याभावीऽपि कारकव्यापारादूर्द्ध्वं भविष्यतीति ।तन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत, यथैव हि प्राक्-सिद्धत्वात् कारणस्य स्वरूपसिद्धये कश्चिद्व्याप्रियतेएवं प्राक्सिद्धत्वात् तदनन्यत्वाच्च कार्य्यस्वरूपसिद्धयेऽपि नकश्चिद्व्याप्रियेत व्याप्रियते च, अतः कारकव्यापारार्थ-वत्त्वाय मन्यामहे प्रागुप्पत्तेरभावः कार्य्यस्येति नैष दोषःयतः कार्य्याकारेण कारणं व्यवस्थापयतः कारकव्यापार-स्यार्थवत्त्वमुपपद्यते कार्य्याकारोऽपि कारणस्यात्मभूत एवअनात्मभूतस्यानारभ्यत्वादित्यभाणि विशेषदर्शन्मात्रेण वस्त्वन्यत्वं भवति हि देवदत्तः सङ्कोचितहस्त-पादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, एवेतिप्रत्यभिज्ञानात् यथा प्रतिदिनमनेकसंस्थानानामपिपित्रादीनां वस्त्वन्यत्वं भवति, मम पिता मम माता ममभ्रातेति प्रत्यभिज्ञानात जन्मोच्छेदानन्तरित्वात्तत्रतत्र युक्तं नान्यतेति चेन्न क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् अदृश्यमानानामपि वटधाना-दीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेनदर्शनगोचरतापत्तौ जन्मसंज्ञा तेषामेवावयवानामपचय-वशाददर्शनापत्तावुच्छेदसंज्ञा तत्रेदृग्जन्मोच्छेदान्त-रितत्वेन चेदसतः सत्त्वापत्तिः सतश्चासत्त्वापत्तिः तथासति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः तथाबाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः पित्रादिव्यवहारलोपप्रसङ्गश्च एतेन क्षणभङ्गवादः प्रतिवदितव्यः ।यस्य पुनः प्रागुत्पत्तेरसत् कार्य्यं तस्य निर्व्विषयः कारक-व्यापारः स्यात् अभावस्य विषयत्वानुपपत्तेः आकाशस्याह-ननप्रयोजनखड्गाद्यनेकायुधप्रसक्तिवत् समवायिकारणे व्या-पारःकारकव्यापारःस्यादितिचेन्न अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् समवायिकारणस्यैवात्मातिशयःकार्य्यमितिचेन्न अतस्तर्हि सत्कार्य्यापत्तिः तस्मात् क्षीरा-दीन्येव दध्यादिद्रव्यादिभावेनावतिष्ठमानानि कार्य्याख्यांलभन्त इति कारणादन्यत्कार्य्यं वर्षशतेनापि शक्यंकल्पयितुम् तथा मूलकारणमेवान्त्यात्कार्य्यात् तेन तेनकार्य्याकारेण नटवत् सर्व्वव्यवहारास्पदत्वं प्रतिपद्यते ।एवं युक्तेः कार्य्यस्य प्रागुत्पत्तेः सत्त्वंमनन्यत्वञ्च कारणा-दवगम्यते शब्दान्तराच्चैतदवगम्यते पूर्व्वसूत्रे असद्व्यपदेशि-नः शब्दस्योदाहृतत्वात्ततोन्यः सद्व्यपदेशी शब्द शब्दाचरः“सदेव मौम्येदग्रआसीदेकमेवाद्वितीयमित्यादि “तद्ध्येक आ-हुरसदेवेदमग्रआसीदिति” चासत् पक्षमुपक्षिप्य “कथमसतःसज्जायेत?” इत्याक्षिप्य “सदेवसोम्येदमग्रआसीत्” इत्यवधार-यति तत्रेदंशब्दवाच्यस्यकार्य्यस्य प्रागुत्पत्तेःसच्छब्दवाच्येनकारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् सत्त्वानन्यत्वेप्रसिद्ध्यतः यदि नु प्र गुत्पत्तेरसत्कार्य्यं स्यात् पश्चाच्चोत्-पद्यमानं कारणे समवेयात् तदन्यत्कारणात् स्यात् तत्र“येना श्रुतं श्रुतं भवतीयं प्रतिज्ञा पीड्येत सत्त्वानन्यत्वावग-तेस्त्वियं प्रतिज्ञा समर्थ्यते” भा० “पटवच्च” शा० सू० ।“यथा संवेष्टितः पटो व्यक्तं गृह्यते किमयं पटः किञ्चान्यद्द्रव्यमिति एव प्रसारितोयत् संवेष्टितं द्रव्यंस पट एवेति प्रसारणेनाभि-व्यक्तो गृह्यते यथा संवेष्टनसमये पट इति गृह्यमा-णोऽपि विशिष्टायामविस्तारोगृह्यते एव प्रसारण-समयेऽपि विशिष्टायामविस्तारो गृह्यते संवेष्टितरूपा-दयं भिन्नःपटः इति एवं तन्त्वादिकारणावस्थं प्रटादिकार्य्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापाराभि-व्यक्तं स्पष्टं गृह्यते ततः संवेष्टितपटप्रसारि-तपटन्यायेनानन्यत् कारणात् कार्य्यमित्यर्थः” भा० सां० कौ०कारणात् कार्य्यस्वानन्यता दर्शिता यथा “कार्य्यस्यकारणाभेदसाधकानि प्रमाणानि पटस्तन्तुम्योभि-द्यते तद्धर्मत्वात् इह यद्यतोभिद्यते तत्तस्य धर्म्मो नभवति यथा गौरश्वस्य धर्मश्च पटस्तन्तूनां तस्मान्नार्थान्तरम् ।उपादानोपादेयभावाच्च नार्थान्तरत्वम् नाथयोरुपादानोपा-देयभावः यथा घटपटयोः उपादानोपादेयभावश्च तन्तुप-टयोः तस्मान्नार्थान्तरत्वमिति इतश्च नार्थान्तरत्वं तन्तु-पटयोः संयोगाप्राप्ताभावात् पदार्थान्तरत्वे हि संयोगो-दृष्टो यथा कुण्डबदरयोः अप्राप्तिर्वा यथा हिमवद्वि-न्ध्ययोः” नचेह संयोगाप्राप्ती तस्मान्नार्थान्तरत्वमिति ।इतश्च पटस्तन्तुभ्यो भिद्यते गुरुत्वान्तरकार्य्याग्रहणात् ।इह यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्य्यं गृह्यतेयथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्य्योऽवनतिविशेषोऽधिकः तथा तन्तुगुरुत्वकार्य्यात् पटगुरुत्वस्यकार्य्यान्तरं दृश्यते तस्मादभिन्नस्तन्तुभ्यः पटैति तान्येतान्यवीतान्यभेदसाधनानि तदेवमभेदे सिद्धे तन्तव-एव तेन तेन संस्थानभेदेन परिणताः पटः, तन्तु-भ्योऽर्थान्तरं पटः स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थ-क्रियाक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति-एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरो-धात् यथाहि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानितिरोभवन्ति निःसरन्ति चाविर्भवन्ति तु कूर्मतस्तदङ्गान्यु-त्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वा घट-मुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्तेन पुनरसतामुत्पादः सतां वा निरोधः यथाह भगवान्कृष्णद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते सतः”इति यया कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नःएवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो भिन्नाः ।एवञ्चेत् तन्तषु पटैति व्यपदेशो यथेह वने तिलका इत्यु-पपन्नः चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापिनानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकःपाचकश्चेति नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषा-मेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकंविष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति तु शिवि-कावहनं मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकंप्रावरणमकुर्व्वाणा अपि मिलिताः आविर्भूतपटभावाःप्रावरिष्यन्ति स्यादेतत् आविर्भावः पटस्य कारण-व्यापारात् प्राक् सन्नसन्वा असंश्चेत् प्राप्तं तर्ह्यसतउत्पादनम् अथ सनु कृतं तर्हि कारणव्यापारेण ।न हि सति कार्य्ये कारणव्यापारप्रयोजनं पश्यामः ।आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः तस्मा-दाविर्भूतपटभावास्तन्तवः क्रियन्ते इति रिक्तं तचः ।अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सतीअसती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्याअप्युत्पत्त्यन्तरमित्यनवस्था अथोत्पत्तिः पटान्ना-र्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवतिपटैति तावदुक्तं भवत्युत्पद्यतैति वाच्यं पौनरुक्त्यात्विनश्यतीत्यपि वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्रविरोधात् तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वास्वकारणसत्तासमवायोवा उभयथापि नोत्पद्यते अथ चतदर्थानि कारणानि व्यापार्य्यन्ते एवं सत एव पटादे-राविर्भावाय कारणापेक्षेत्युपपन्नम् पटरूपेणकारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात् क्रियासम्बन्धि-त्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात्” व्याख्या-तञ्चैतदस्माभिस्तट्टीकायां यथा “तद्धर्मत्वात् तेषांतन्तूनां धर्मत्वात् अवस्थाविशेषात्मकत्वात् स्वसत्त्वनियतसत्ताकत्वाद्वा तत्सत्त्वनियतसत्त्वाकत्वरूपहेतुमध्ये एव ऽन्वय-व्याप्तेः प्रवेशात् व्यतिरेकव्याप्तिं दर्शयति यत् यतोभिद्यतेइत्यादि तथा व्यापकस्य धर्मत्वाभावस्य निवृत्त्या व्याप्यस्यभेदस्य निवृत्तेरभेदसिद्धिरिति भावः पक्षे धर्भत्वरूप-हेतुसत्त्वप्रदर्शनाय उपनयरूपन्यायाङ्गमाह धर्मश्चेत्यादि ।धर्मत्वं प्रागुक्तम् निगमयति तस्मान्नार्थान्तरमिति ।अन्योऽर्थः पदार्थः अर्थान्तरं मयूरव्यंसकादित्वात् समासेक्लीवता पटः तन्तुभ्यो भिन्नः पदार्थः किन्तु अभिन्नएवेत्यर्थः उपादीयते कार्य्यजननाय विशेषरूपेण गृह्यतेइत्युपादानम् कार्य्यस्यानागतावस्थाविशेषाश्रयरूपं कारणंतदाश्रितसूक्षमावस्थापन्नं कार्य्यन्तूपादेयं तद्भावात् कार्य्य-कारणविशेषरूपत्वादित्यर्थः तथा कार्य्य स्यानागतावस्थाश्रयत्वभेवोपादानंकारणत्वम्, तच्च अनागतावस्थापन्नकार्य्य-रूपमेव अन्यस्य दर्वचत्वात् अन्यथा सर्व एव सर्वकार्य्यजन-नाय उपादीयेरन् तथा उपादीयन्ते उपादीयन्ते चपटादिजननाय तन्तवः तु मृदादयः प्रागभावएव तस्य नियामकः, तस्य अभावत्वेन स्वतोविशेषकत्वाभावात्प्रतियोग्युपरक्तस्य तस्य तथात्वकल्पनन्तु प्रतियोग्यसत्त्वकालेऽसम्भवात् उत्पत्तेः प्राक् प्रतियोगिनोऽसत्त्वेन तेन सहप्रागभावस्य संबन्धस्यानौचित्यात् इत्यनागतावस्थापन्नका-र्य्यात्मकत्वमुपादानस्य युक्तम् तस्मात् पटः तन्तुभ्यो भिन्नइत्युपेयमिति भावः संयोगाप्राप्त्यमावादिति संयोगश्चअप्राप्तिः विभागश्च तयोरभावात् तथाच संयोगाभावःविमागाभावश्च पृथक् अभेदसाधकः यथा पटस्तन्तुप्यो नभिठ्यते तत्संयोगानाश्रयत्वात् यद्यतो भिद्यते तयोःसंयोगोदृष्टः यथा घटपटयोः गुणेषु व्यभिचारःस्वमते तत्र तन्त्वभेदस्येष्टत्वात् द्रव्यत्वे सतीति हेतोर्विशेषणेच व्यभिचाराभावाच्च अप्राप्तिर्वेति विभागश्चेत्यर्थः तथा चसंयोगानाश्रयत्वस्येव विभागानश्रयत्वस्यापि अभेदसाधकत्व-मिति भावः गुरुत्वान्तरकार्य्याग्रहणादिति अयमाश-यः अवयवतन्तुपरिमाणेनेव तद्गुरुत्वेन स्वापेक्षयाधिकंमहत्परिमाणमिव गुरुत्वम् जन्यते, गुरुत्वञ्च स्वपतन इवस्वाश्रिततुलादण्डादेरवनतिविशेषे हेतुरिति नैयायिका-दिभिरम्युपगम्यते तत्र यदि पटस्तन्तुभ्योभिद्येत तदातदाश्रितगुरुत्वविशेषेण स्वाश्रिततुलादण्डादेरवनतिविशेषोऽत्र गृह्येत यथा एकपलिकस्वर्णापेक्षया द्विपलिक-स्वर्ण्णस्य, तथा पटस्तन्तुभ्यो मिद्यते गुरुत्वा-न्तरप्रयुक्तस्वाश्रिततुलादण्डाद्यवनतिविशेषग्रहणायोग्यत्वात्गुरुत्वान्तरयुक्तस्वर्णादिवत् तुल्यगुरुत्वयुक्तपदार्थे व्यभिचार-वारणाय ग्रहणायोग्यत्वादित्युक्तं तस्य पृथक् तुला-दण्डारोपणेऽवनत्यन्तरस्य ग्रहणसम्भवात् तन्तुपष्टयोश्च नतथासम्भव इति अभिन्नत्वमित्यन्यत्र विस्तरः तन्तुगुरुत्वस्यकार्य्यं स्वाश्रिततुलादण्डादेरवनतिविशेषस्तस्मात् कार्य्या-न्तरम् अवनत्यन्तरं दृश्यते गृह्यते इत्यर्थः ।अवीतानि व्यतिरेकव्याप्तियुक्तानि यथा तत्र तत्र व्यति-रेकव्याप्तिस्तथानुपदं तत्रतत्र दर्शितं प्राक् पटैतिबुद्धिविषयाः व्यपदेशभाजश्चेति शेषः फलितमाह नतन्तुभ्योऽर्थान्तरमिति अभेदसाधकहेतोः सत्प्रतिपक्षित-त्वमाशङ्कते स्वात्मनीत्यादि क्रिया उत्पादनक्रिया, निरोधः प्रध्वंसस्तयोर्बुद्धिः तथा कार्य्यकारणयोरभेदेकार्य्यस्य कारणात्मकत्वेन स्वतः स्वस्योत्पत्तिविनाशबुद्ध्यसम्भव इत्यर्थः व्यपदेशः व्यवहारः अर्थक्रिया प्रयोजनो-त्पादनं क्रियाव्यवस्था प्रावरणादिकार्य्यनियमः तेषां भेदःपश्चात्पुनर्द्वन्द्वः तथा कार्य्यकारणयोरभेदे तन्तुषुपट इति कथं भेदव्यपदेशः? कथं वा प्रयोजनान्तरजन-कता, ? प्रयोजनान्तरनियमश्च स्यादित्यर्थः इत्थञ्चात्रप्रयोगः पटस्तन्तुभ्यो भिद्यते तत्कार्य्यत्वेन, तत्र नष्टत्वेनवा प्रतीयमानत्वात्, तन्तुषु पट इति व्यपदेशप्रयोजक-संज्ञाभेदात्, विभिन्नार्थसाधकत्वात्, कार्य्यभेदवत्त्वाच्च ।इति पञ्चभिर्हेतुभिः सत्प्रतिपक्षितोऽभेदसाधकहेतुर्नाभेद-साधनायालमित्याशङ्कार्थः समाधत्ते नैकान्तिकमिति ।ऐकान्तिकं वास्तवमित्यर्थः तथा तत्र तत्रावास्तवएवभेदव्यवहारो वास्तवाभेदप्रतिद्वन्द्वीति मावः एवञ्चवुद्धिमात्रस्य, व्यवहारमात्रस्य वा वास्तविकत्वप्रयोजकत्वेइदं रजतमितिबोधात् व्यवहाराच्च शुक्तिरजतस्यापिवास्तवत्वापत्तिः तथा अर्थक्रियाक्रियाव्यवस्थाभेदयोश्च नभेदसाधकत्वम् एकस्यैव वह्न्यादेः प्रकाशनपाचनादिरूपना-नाकार्य्याणां, विष्टीनां व्यस्तानां मार्गदर्शनादिकार्य्यस्यसमस्तानां तु शिविकावाहनादिविभिन्नकार्य्यस्य सम्पा-दनस्य दृष्टत्वात् तत्र तत्र हेतोर्व्यभिचारान्न तयोर्भेदसाधक-तेति सत्प्रतिक्षितत्वमभेदसाधकहेतोरिति भावः तदेवक्रमश उपपादयति एकस्मिन्नपीति प्रध्वंसन्ते नश्यन्ति ।कूर्म्मत इत्यनुषङ्गः अस्मिन् पक्षे कूर्म्मे इत्यर्थः सार्व्व-विभक्तिकः सप्तम्यास्तसिल् यथाहेति भगवद्गीता-यामितिशेषः असतोऽसत्त्वाश्रयस्य, भावः सत्त्वम्, सतःसत्त्वाश्रयस्य अभावः असत्त्वम्, सदसतोरेकत्र समावेशाभावादिति शेषः आपादयति व्यतिरेकव्याप्त्या साधयतितथा प्रावरणादिक्रियाभेदः कारणभेदं विनाअनुपपन्न इति व्यापकः प्रावरणादिप्रयोजनभेदाभावःनिवर्त्तमानः व्याप्यं कारणभेदाभावं निवर्त्तयन् कार्य्यस्यकारणाद्भेदम् साधयतीत्यर्थः इति यन्मतं तदनूद्यनञा दूषयित्वा तत्र हेतुप्रदर्शनाय व्यभिचारं दर्श-यति एकस्यापीति तथा कार्य्यभेदाभावः नकारणभेदाभावव्यापकः एकस्मिन् वह्न्यादौ नानाकार्य्य-दर्शनात् तथा भेदसाधकहेतुर्व्यभिचारीति भावः ।एवम् भेदसाधकहेतुषु दूषितेषु इदानीं आविर्भावादेःसदसत्त्वे विकल्पेन दूषयितुं शङ्कते स्यादेतदित्यादि ।कृतमित्यव्ययम् अलमर्थकं कारणव्यापारेणेतितृतीयान्ते-नान्वयि तथा कारणव्यापारसाध्यं नास्ति तस्यस्वतएव सिद्धत्वादित्यर्थः क्रियन्ते उत्पाद्यन्ते पट-रूपेण व्यवह्रियन्ते इत्यपि बोध्यम् यद्धि उभय-वादिनोस्तुल्यदोषत्वं तद्दूष्यमित्याशयेन प्रतिवन्दि-रूपदूषणदानायाह अथासदुपद्यत इत्यादि उत्पत्तिःआद्यक्षणसंबन्धः स्वरूपसंबन्धविशैषः तु संयो-गमात्रः गुणक्रिययोस्तदसम्भवात् तयोश्च उत्पत्ति-व्यवहारस्य सर्व्वसिद्धत्वात् प्रकृते स्वरूपसंबन्धविशेषश्चअनुयोगिस्वरूपएव एवञ्च उत्पत्तिः पटरूप एव नार्था-न्तरमिति पटस्य उत्पत्तेः प्राक् असत्त्वात् तत्र कारण-व्यापारापेक्षा भविष्यतीति शङ्कते अथोत्पत्तिरित्यादि ।दूषयति तथापीति पटादिशब्देन पटत्वविशिष्टस्येवउत्पत्तिमतोऽप्युक्तत्वात् उत्पद्यते इति प्रयोक्तव्यम्तद्वाच्यार्थस्योक्तत्वात् तदुक्तौ पौनरुक्त्यात् घटो घटइतिवत् तत्र शाब्दबोध इति भावः पटादिशब्दस्यउत्पत्त्यर्थकत्वे दूषणान्तरमप्याह विनश्यतीत्यादि वाच्यंप्रयोक्तुं शक्यम् अयोग्यत्वादिति शेषः पटशब्देनपटत्वविशिष्टस्येव उत्पत्तिमतोऽप्यभिधानात् उत्पत्तिमतिचैकदा विनाशप्रतियोगित्वासम्भवेनायोग्यत्वादित्यर्थः ।अयोग्यत्वे हेतुमाह उत्पत्त्यादीति एकत्र एकस्मिन्धर्म्मिणि युगपदेकदा विरोधात् सहानवस्थानात् काला-न्तरे भवितुमर्हतीति द्योतनाय युगपदिति विनश्यतीतिवर्त्तमानताप्रतोतेर्न विभिन्नकालता तयोरिति भावः एव-मुत्पत्तेः पटस्वरूपत्वाभावासम्भवमुक्त्वा अन्यरूपतास्वीका-रेऽपि उत्पत्तेरुत्पत्त्यसम्भव एवेत्याह तस्मादियं पटीत्-पत्तिरित्यादि स्वकारणसमवायः स्वस्य कारणेषु तन्तुषुसमवायः तत्संबन्धविशेषरूपा पटोत्पत्तिः समवायस्य चसर्वदा विद्यमानत्वात तस्या उत्पत्तिः समवायस्यनित्यत्वात् पटस्य कादाचित्कोत्पत्तिः कथं स्यादित्यतःपक्षान्तरमाह स्वसत्तासमवाय इति स्वसत्तया स्वकारणेविद्यमानतया यः कारणे समवायस्तथा स्वसत्ता-कालिकत्वविशिष्टसमवायस्य पूर्व्वमसत्त्वान्न कादा-चित्कत्वव्याघात इति भावः उभयथापि उत्पत्तेरुभय-रूपमध्येऽन्यतरूपत्वेऽपीत्यर्थः उत्पद्यते उत्पत्तिरितिशेषः सिद्धस्वरूपत्वेऽपि सर्वजनानुभवसिद्धायाः कारण-व्यापारापेक्षाया अनौचित्यस्य उभयमतेऽपि तुल्यत्वात्प्रतिवन्दिसमबधानमिति भावः उत्पत्तेः कार्य्यस्य रूपेणसम्बन्धरूपतां शङ्कते चेति पटरूपस्य तन्तुरूपजन्यत्वात्तेन सह कारणानां संबन्धएव कार्य्यस्य उतपत्तिस्तथाच तस्य जन्यत्वात् कारणव्यापारापेक्षेति समानंदूषणमिति भावः दूषयति रूपस्येति रूपस्य भव-न्मते गुणत्वेन क्रियारूपत्वाभावात् उत्पत्तेश्च क्रियारूप-तायाः सर्वैरिष्यमाणत्वात् कारणानां क्रियानुबन्धित्वे-नैव कारकत्वाभ्युपगमात् तन्तुभ्यः पटौत्पद्यते इत्यादिषुच तन्त्वादीनामुत्पत्तिकारकत्वप्रतीतेश्च नोत्पत्तेः पट-रूपसंबन्धरूपतेति” भावः
Stchoupak
French
अव-यविन्-
a. qui a des portions, qui forme un tout.