| YouTube Channel

अवमानितः (avamAnitaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + मन (ज्ञाने) + णिच् + क्तः "निष्ठा" (३.२.१०२) [मान (पूजायाम्) क्तो वा] तिरस्कृतः, अनादृतः ‘विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता’ - सा.द. ‘अवमानितं परिभूते’ - अमरः
शब्दकल्पद्रुमः
Sanskrit
अवमानितः, त्रि, (अव + मान + क्त ।) कृतापमानः ।अवज्ञातः अनादृतः इत्यमरः
(“विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता” ।इति सहित्यदर्पणे ।)