| YouTube Channel

अवन्ध्यः (avandhyaH)

 
E Bharati Sampat
Sanskrit
(वि) बध्नाति फलानि इति वन्ध्यः (वबयोरभेदः) वन्ध्यः १. फलसहितः, फलवान् (वृक्षः) ‘कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्’ - मेघ० ‘अवन्ध्यः फलेग्रहिः’ - अमरः २. सफलः, व्यर्थः "अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः" - किरा० १.३३ (स्त्री) अवन्ध्या-पुत्रवती स्त्री