| YouTube Channel

अवनाटः (avanATaH)

 
E Bharati Sampat
Sanskrit
(पुं) अवनतं नासिकायाः "नाटच्" "नते नासिकायाः संज्ञायां टीटञनाटज्भ्रटचः" (५.२.३१) अवनतं नासिकायाः अवनाटम् तद्योगात् नासिकापि अवनाटा सा अस्य अस्तीति अच् "अर्शाअदिभ्योऽच्" (५.२.१२७) नता नासिका यस्य तत् नासिकावान् ‘अवटीटोऽवनाटश्चावभटो नतनासिके’ - अमरः
शब्दकल्पद्रुमः
Sanskrit
अवनाटः, त्रि, (अवनता नासिका, प्रादिसमासः, नतार्थे नासिकाया नाटादेशः अर्श आद्यच् ।)नतनासिकः खाँदा छेपडानाकव्यक्ति इतिभाषा तत्पर्य्यायः अवटीटः अवभ्रटः ।इत्यमरः