| YouTube Channel

अवधूतगीत (avadhUtagIta)

 
वाचस्पत्यम्
Sanskrit
अवधूतगीत
न०
त० भागवते ११ स्क० भगवदुद्धवसंवादेयदुनृपं प्रति कस्यचिदवधूतस्य उपदेशभेदे यथा “अत्रा-प्युदाहरन्तीममितिहासं पुरातनम् अवधूतस्य संवादंयदोरमिततेजसः अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।कविं निरीक्ष्य तरुणं यदुः पप्रच्छ षर्मवत् कुतोबुद्धिरियं ब्रह्मन्नकर्त्तुः सुविशारदा यामासाद्य भवाल्लोँकंविद्वांश्चरति बालवत् प्रायोधर्मार्थकामेषु विवित्सायाञ्चमानवाः हेतुनैव समीहन्ते आयुषा यशसा श्रिया त्वन्तुकल्यः कविर्दक्षः सुभगोमितभाषणः कर्त्ता नेहसे कर्त्तुंजडोन्मत्तपिशाचवत् जनेषु दह्यमानेषु कामलोभद-वाग्निना तप्यसेऽग्निना युक्तो गङ्गाम्भःस्थैव द्विपः ।त्वं नः संपृच्छतां ब्रह्मन्! आत्मन्यानन्दकारणम् ब्रूहिस्पर्शविहीनस्य भवतः केवलात्मनः” इति यदुनृपेणतल्लक्षणमुक्तम् एवं यदुना प्रष्टःस यदाह तदेव अवधूतगीतम् ।तेन “सन्ति मे बहवोराजन्! गुरवोबुद्ध्युपाश्रिताः ।यतो बुद्धिमुपादाय सुस्थोऽटामीह तान् शृणु पृथिवीवायुराकाशमापोऽग्निश्चन्द्रमा रविः कपोतोऽजगरः सिन्धुःपतगोमधुकृद्गजः मधुहाहरिणो मीनः पिङ्गला कुर-रोऽर्भकः कमारी शरकृत् सर्प ऊर्ण्णनाभः सुपेशकृत् ।ततो मे गुरवो राजन्! चतुर्विंशतिराश्रिताः शिक्षावृत्तिभिरेतेषामन्वशिक्षमनुक्रमात्” इत्युपक्रम्य क्षित्यादिभ्यश्चतु-र्विंशतेर्यथा यत् शिक्षितं तद्वर्ण्णितम् तद्विस्तरस्तु ९नवमाध्यायसमाप्तिपर्य्यन्ते तत्रैवानुसन्धेयः