| YouTube Channel

अवधूतः (avadhUtaH)

 
Apte Hindi
Hindi
अवधूतः
पुं*
- -
वह संन्यासी जिसने सांसारिक बंधनों तथा विषय - वासनाओं को त्याग दिया है
E Bharati Sampat
Sanskrit
(पुं) अव + धूञ् (कम्पने) + क्तः "निष्ठा" (३.२.१०२) १. संन्यासी, विरक्तः, वर्णाश्रमधर्मान् परित्यज्य भगवति ध्यानासक्तः कश्चन योगी ‘यो विलङ्घ्याश्रमान् वर्णानात्मन्येव स्थितः पुमान् अतिवर्णाश्रमी योगी अवधूतः उच्यते’ [अक्षरत्वात् वरेण्यत्वात् धूतसंसारबन्धवात् तत्त्वमस्यर्थसिद्धत्वादवधूतोऽभिर्धायते ।] २. कम्पितः "अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः" - किरा० ६.३ ३. तिरस्कृतः, निराकृतः, त्यक्तः "अन्वनैषुरवधूतविग्रहस्तं दुरुत्सहवियोगमङ्गनाः" - रघु० १९.४३ ४. अपमानितः
शब्दकल्पद्रुमः
Sanskrit
अवधूतः,
पुं,
(अव + धू + क्तः ।) सन्न्यासाश्रमी ।तद्विधानं सन्न्यासिशब्दे द्रष्टव्यं तद्भेदा यथा ।देव्युवाच ।“द्विविधावाश्रमौ प्रोक्तौ गार्हस्थ्यो भैक्षुकस्तथा ।किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः
एतद्वेदितुमिच्छामि तत्त्वतः कथय प्रभो ।चतुर्व्विधावधूतानां लक्षणानि विशेषतः
सदाशिव उवाच ।ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः ।गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये
पूर्णाभिषेकविधिना संस्कृता ये मानवाः ।शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्च्चिते
ब्रह्मावधूतः शैवाश्च साग्रिमाचारवर्त्तिनः ।विदध्युः सर्व्वकर्म्माणि शश्वदीरितवर्त्मना
विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना ।निषिद्धमन्नं तोयञ्च गृह्लीयुः कदाचन
ब्रह्मावधूतकौलानां कौलानामभिषेकिणां ।प्रागेव कथितो धर्म्म आचारश्च वरानने
स्नानं संन्यासनं पानं दानञ्च दाररक्षणं ।सर्व्वमागममार्गेण शैवब्रह्मावधूतयोः”
इति महानिर्व्वाणतन्त्रे १४ उल्लासः
*
अन्यच्च ।शङ्कर उवाच ।“शृणु देवि प्रवक्ष्यामि अवधूतो यथा भवेत् ।वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः
यद्रूपं कथितं सर्व्वं सन्न्यासधारणं परं ।तद्रूपं सर्व्वकर्म्माणि प्रकुर्य्याद्वीरवल्लभं
दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा ।तथा नैव प्रकुर्य्यात्तु वीरस्य मुण्डनं प्रिये
असंस्कृतं केशजालमुक्तालम्बिकचोच्चयं ।अस्थिमाला विभूषा वा रुद्राक्षानपि धारयेत्
दिगम्बरो वा वीरेन्द्रश्चाथ वा कौपिनी भवेत् ।रक्तचन्दनसिक्ताङ्गं कुर्य्याद्भस्माङ्गभूषणं”
रति निर्व्वाणतन्त्रे १४ पटलः
*
अपिच ।“नृकरोटिं विधार्य्यञ्च काष्ठदण्डं तथा प्रिये ।परशुञ्चाजिनञ्चैव योगीव धारयेत् सदा
खट्टाङ्गं धारयेद्योगी वासरूपकवाससी ।कपाले धारयेच्चन्द्रं चन्दनाद्यैर्व्विशेषतः
ईषत् पिङ्गलकं वस्त्रं धारयेत् सर्व्वदा सुत” ।सुत इति शिवस्य सम्बोधनं ।सुदर्शनाख्यं यच्चक्रं तत्तु संधारयेद्बुधः
विपञ्चीं कपिलञ्चैव मड्डडिण्डिमझर्झरान् ।वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः”
इति योगसारे परिच्छेदः
*
अपरञ्च ।“क्षमा दानं तपो ध्यानं बालभावेन शैलजे ।शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः
एवं भावपरो मन्त्री हेतुयुक्तः सदाशिवः ।संविदासेवनं कुर्य्यात् सदा कारणसेवनं
भवेत् साक्षात् पुरुषः शम्भुरूपो संशयः” ।इति निर्व्वाणतन्त्रं
*
किञ्च ।“ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव ।कुलावधूतसंस्कारे पञ्चानामधिकारिता”
इति महानिर्व्वाणतन्त्रं
*
अन्यच्च ।“निर्व्वाणमुक्तिमाप्नोति ब्राह्मणो वीरभावतः ।अवधूतः क्षत्रियश्च महायोगी संशयः
स्वरूपोऽपि भवेद्वैश्यः शूद्रोऽपि सहलोकवान् ।सम्पूर्णफलमाप्नोति विप्रो निर्व्वाणतां व्रजेत्
त्रिभागं फलमाप्नोति क्षत्रियो वीरभावतः ।पादद्वयन्तु वैश्यस्य शूद्रस्य चैकपादकं”
*
दशनामावधूतानां प्रत्येकं नाम प्रागुक्तमिदानी-मपि तेषां प्रधानत्वेनाङ्गीकरणार्थं संज्ञाकथनगर्भंलक्षणविशेषमाह ।“अवधूतस्य चाख्यानं शृणुष्व पर्ब्बतात्मजे ।वनारण्ये भारती गिरिश्च पुरिरेव
एकस्थाने तु संस्थित्य इष्टध्यानादिकञ्चरेत् ।यो मन्त्रदानं तपसा सवनः परिकीर्त्तितः
स्नस्तकेशो जटाजूटः सदा वातुलवद्भवेत् ।अन्तर्योगी महावीरोऽरण्यसंज्ञश्च शैलजे
नानाशास्त्रेषु यो विज्ञो नानाकर्म्मविशारदः ।सदेष्टदेवीभावेन भावयेद् यो हि चाबलां
एव भारतीवीरो महाज्ञानी जितेन्द्रियः ।सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः
सर्व्वत्र समभावेन भावयेत् यो नरोत्तमः
इष्टदेवीं विना नास्ति गिरिः परिकीर्त्तितः
नानादेशेषु पीठेषु क्षेत्रेषु तीर्थभूमिषु ।भ्रमणं कुरुते नित्यं कुर्य्याद्यत्नेन पूजनं
देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा ।अन्तर्यागेषु यो निष्ठः वीरः पुरिरेव
अवधूताश्रमे देवि ! यस्य भक्तिः सुनिश्चला ।तस्य तुष्टा भवेत् काली किं सिद्ध्यति भूतले
अवधूतं समालोक्य शम्भुवत् पूजनं चरेत् ।शक्तितः पञ्चतत्त्वानि यत्नेनैव निवेदयेत् ।अशक्तः परमेशानि भक्तितः परितोषयेत्”
इति निर्व्वाणतन्त्रं
*
अपि ।“भक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः ।पूर्णः परमहंसाख्यः परिव्राडपरः स्मृतः
कृतावधूतसंस्कारो यदि स्याज्ज्ञानदुर्ब्बलः ।तदा लोकालये तिष्ठन्नात्मानं तु शोधयेत्
रक्षन् स्वजातिचिह्नञ्च कुर्व्वन् कर्म्माणि केवलं ।सदा ब्रह्मपरो भूत्वा साधयेज्ज्ञानमुत्तमं”
इति महानिर्व्वाणतन्त्रं
*
अपि ।“अवधूतः शिवः साक्षादवधूतः सदाशिवः ।अवधूती शिवादेवी अवधूताश्रमं शृणु
चतुराश्रमिणां मध्ये अवधूताश्रमो महान् ।अवधूतश्च द्विविधो गृहस्थश्च चितानुगः
सचेलश्चापि दिग्वासा विधियोनिविहारवान् ।सदारः सर्व्वदारस्थश्चाट्टहासो दिगम्बरः
गृहावधूतो देवेशि द्वितयस्तु सदाशिवः” ।इति मुण्डमालातन्त्रे पटलः
*
अवधूतस्यओम् तत् सदिति मन्त्रेण कर्म्मकर्त्तव्यतामाह ।“ओँ तत्सन्मन्त्रमुच्चार्य्य सोऽहमस्मीति चिन्तयन् ।कुर्य्यादात्मोचितं कर्म्म सदा वैराग्यमाश्रितः
कुर्व्वन् कर्म्माण्यनासक्तो नलिनोदलनीरवत् ।यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः”
*
सर्व्वेषामोम् तत्सदिति निर्देशेन कर्म्मफलमाह ।“ओँ तत्सदिति मन्त्रेण यो यत्कर्म्म समाचरेत् ।गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत्”
*
तन्मन्त्रक्रियमाणकर्म्मणः सम्पूर्णत्वमपि ।“जपहोमप्रतिष्ठा संस्काराद्यखिलाः क्रियाः ।ओँ तत्सदिति निष्पन्नाः संपूर्णाः स्युर्न संशयः
किमन्यैर्ब्बहुभिर्म्मन्त्रैः किमन्यैर्भूरिसाधनैः ।ब्राह्म्येणानेन मन्त्रेण सर्व्वकर्म्माणि साधयेत्
सुखसाध्यमबाहुल्यं संपूर्णफलदायकं ।नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके
पुरप्रदेशे देहे वा लिखित्वा धारयेदिमं ।गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत्
निगमागमतन्त्राणां सारात् सारतरो मनुः ।ओँ तत्सदिति देवेशि तवाग्रे सत्यमीरितं
चतुर्व्विधानां तत्त्वानामन्येषामपि वस्तुनां
मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितं
पश्यन् सर्व्वत्र सद्रूपं जपंस्तत् सन्महामनुं ।स्वेच्छाचारः शुद्धचित्तः एव भुवि कौलराट्
जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् ।साक्षाद्ब्रह्ममयो देही सार्थमेनं जपेन्मनुं
त्रिपदोऽयं महामन्त्रः सर्व्वकारणकारणं ।साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयं
युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा ।जप्त्वैतस्य महेशानि साधकः सिद्धिभाग्भवेत्” ।इति मन्त्रप्रशंसा
*
शैवावधूतस्य सर्व्वकर्म्मा-नधिकारमाह ।“शैवावधूतसंस्कारविधूताखिलकर्म्मणः ।नापि दैवे नवा पित्र्ये नार्षे कृत्येऽधिकारिता”
*
अथ परमहंसः ।“चतुर्णामवधूतानां तुरीयो हंस उच्यते ।त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्व्वे शिवोपमाः
हंसो कुर्य्यात् स्त्रीसङ्गं विधत्ते परिग्रहं ।प्रारब्धमश्नन् विहरेत् निषेधविधिवर्जितः
त्यजेत् स्वजातिचिह्नानि कर्म्माणि गृहमेधिनां ।तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः
सदात्मभावसन्तुष्टः शोकमोहविवर्ज्जितः ।निर्निकेतस्तितिक्षुः स्यान्निःसङ्गो निरुपद्रवः
नार्पणं भक्ष्यपेयानां तस्य ध्यानधारणा ।मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः
इति ते कथितं देवि ! चतुर्णां कुलयोगिनां ।लक्षणं सविशेषेण साधूनां मत्स्वरूपिणां
एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् ।सर्व्वतीर्थफलावाप्तिर्जायते मनुजन्मनां”
इति महानिर्व्वाणतन्त्रं