| YouTube Channel

अवतीर्णः (avatIrNaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + तॄ (प्लवनतरणयोः) + क्तः ‘गत्यर्थाकर्मक’ (३.४.७२) १. अवरूढः, उपरिष्टात् अधः आगतः "कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः" - माघः ३.१ २. जले कृतावगाहः ‘पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते’ तिथ्यादितत्त्वम् ३. रूपान्तरेण प्रादुर्भूतः तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः’ - भा.व.प. ४. अनूदितः
शब्दकल्पद्रुमः
Sanskrit
अवतीर्णः, त्रि, (अव + तॄ + कर्त्तरि क्तः ।) अवतरण-विशिष्टः प्रादुर्भूतः जलादौ कृतावरोहः ।यथा ज्योतिषे ।“नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद ।पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते”
इति तिथ्यादितत्त्वं