| YouTube Channel

अवतारः (avatAraH)

 
Apte
English
अवतारः [avatārḥ], [अव-तृ करणे घञ्]
Descent, alighting
descending or going down into
(fig) accepting, resorting to पाखण्डिपथावतारः
Dk.*
47
advent, setting in
वसन्तावतारसमये
Ś.*
1.
Form, manifestation
मत्स्यादिभि-वतारैरवतारवता$वसुधाम् Śaṅkara.
Descent of a deity upon earth, incarnation in general
को$प्येष संप्रतिवः पुरुषावतारः
U.*
5.33
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्
R.*
1.84
ऋष्यवतारो$यं नृपतिः
Ks.*
7.18.
An incarnation of Viṣṇu
विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे
Bh.*
2.95. (There are ten incarnations of Viṣṇu
the following verse from Gīt. describes them
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः मत्स्यः कूर्मो वराहश्च नरसिंहो$थ वामनः रामो रामश्च कृष्णश्च बुद्धः कल्की ते दश Varāh.
P.
Any new appearance, growth, rise
नवावतारं कमलादिवोत्पलम्
R.*
3.36
परीवादनवावतारः 5.24
यौवनावतारे
K.*
289
Ve.*
3
Śānti.2.26
3.14
Ks.*
8.3
Any distinguished person (who, in the language of respect, is called an अवतार or incarnation of a deity).
Aiming at object.
A landing place
रुद्धे गजेन सरितः सरुषावतारे
Śi.*
5.33.
A sacred bathing place.
Translation.
A pond, tank,
Introduction, preface.
Crossing
˚रं लभ् To gain one's object (with
gen.
).Comp. -कथा account of an अवतार,
N.
of a chapter in शङ्करविजय. -मन्त्रः the prayer causing the descent of a deity.
Apte 1890
English
अवतारः [अव-तॄ करणे घञ्] 1 Descent, alighting
descending or going down into
(fig.) accepting, resorting to
पाखंडिपथावतारः Dk. 47
advent, setting in
वसंतावतारसमये Ś. 1.
2 Form, manifestation
मत्स्यादिभिरवतारैरवतारवता वताऽवतावसुधां Śaṅkara.
3 Descent of a deity upon earth, incarnation in general
कोप्येष संप्रति नवः पुरुषावतारः U. 5. 34
धर्मार्थकाममोक्षाणामवतार इवांगवान् R. 10. 84
ऋष्यवतारोयं नृपतिः Ks. 7. 18.
4 An incarnation of Viṣṇu
विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे Bh. 3. 95. There are ten incarnations of Viṣṇu
the following verse from Gīt. describes them
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥. मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः रामो रामश्च कृष्णश्च बुद्धः कल्की ते दश ॥.
5 Any new appearance, growth, rise
नवावतारं कमलादिवोत्पलम् R. 3. 36
परीवादनवावतारः 5. 24
यौवनावतारे K. 289
Ve. 3
Śānti. 2. 26
3. 14
Ks. 8. 30.
6 Any distinguished person (who, in the language of respect, is called an अवतार or incarnation of a deity).
7 Aiming at an object.
8 A landing-place
रुद्धे गजेन सरितः सरुषावतारे Śi. 5. 33.
9 A sacred bathing-place.
10 Translation.
11 A pond, tank.
12 Introduction, preface.
13 Crossing
°रं लभ् to gain one's object (with gen.)
Comp.
कथा account of an अवतार, N. of a chapter in शंकरविजय.
मंत्रः the prayer causing the descent of a deity.
Apte Hindi
Hindi
अवतारः
पुं*
- अव+त+घञ्
"उतार, उदय, आरंभ"
अवतारः
पुं*
- अव+त+घञ्
"रुप, प्रकट होना"
अवतारः
पुं*
- अव+त+घञ्
"देवता का भूमि पर पदार्पण, अवतार लेना"
अवतारः
पुं*
- अव+त+घञ्
विष्णु का अवतार
अवतारः
पुं*
- अव+त+घञ्
"नया दर्शन, विकास, जन्म"
अवतारः
पुं*
- अव+त+घञ्
तीर्थ स्थान
अवतारः
पुं*
- अव+त+घञ्
उतरने का स्थान
अवतारः
पुं*
- अव+त+घञ्
अनुवाद
अवतारः
पुं*
- अव+त+घञ्
"जोहड़, तालाब"
अवतारः
पुं*
- अव+त+घञ्
"प्रस्तावना, भूमिका"
E Bharati Sampat
Sanskrit
(पुं) अव + तॄ (प्लवनरतणयोः) + घञ् ‘अवे तॄस्त्रोर्घञ्’ (३.३.१२०) १. अवतरणम्, अधोगमनम् २. रूपान्तरस्य प्रादुर्भावः "धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्" - रघु. १०.८४ ३. लोकरक्षणार्थं देवताभिः भूमौ जन्मप्राप्तिः विष्णोः मत्स्यादयः अवताराः ["मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः "रामो रामश्च कृष्णश्च बुद्धः कल्की दे दश" ।] ४. अवरोहणस्थानम्, सोपानम् "रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः" - माघः ५.३३ ५. अनुवादः ६. प्रस्तावना, पीठिका ७. पुण्यतीर्थम्, पवित्रा नदी ‘अवतारोऽवतरणे पुष्करिण्यादितीर्थयोः’ - मेदिनी ८. उत्पत्तिः ‘नवावतारं कमलादिवोत्पलम्’ - रघुः ९. अपसारणम्, हरणम् ‘भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा’ - अध्यात्मरामा०
Wordnet
Sanskrit
Synonyms:
अवतारः
noun
भगवताम् अवतरितं स्वरूपम्।
"श्रीरामः विष्णोः चतुर्विंशतौ अवतारेषु एकः अस्ति।"
Synonyms:
अनुवादः, भाषान्तरम्, अवतारः
noun
अनुवादिता रचना।
"अस्मिन् अनुवादे बहवः त्रुटयः सन्ति।"
Synonyms:
आवर्तनम्, आक्रमणम्, आवेशः, अवतारः, अवतरणम्
noun
रोगस्य पुनरावृत्तिः।
"यज्ञदत्तः उत्कासस्य आवर्तनेन पीडितः अस्ति।"
Synonyms:
अवतारः
noun
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
"प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।"
Synonyms:
भाषान्तरम्, भाषान्तरीकरणम्, अवतरणम्, अवतारः, विवरणम्, अनुवादः, छाया
noun
अन्यस्यां भाषायां निरूपणम्।
"रामायणस्य भाषान्तरं नैकासु भाषासु दृश्यते।"
शब्दकल्पद्रुमः
Sanskrit
अवतारः,
पुं,
(अव + तॄ + करणे घञ् ।) अवतरणं ।पुष्करिण्यादिः तीर्थः इति मेदिनी
(सोपान-पद्धतिः प्रस्तावना आभासः उपक्रमणिका ।यथा “दूरे गुरुप्रथितवस्तुकथावतारः” इतिशान्तिशतके ।) देवानां विशेषतोविष्णोर्मूर्त्त्यन्तरेणपूर्णांशावेशरुपेण पृथिव्यामवतरणं अवतारास्त्र-संख्येयाः तेष्वेते प्रसिद्धाः ब्रह्मा वराहः नारदः३ नरनारायणौ कपिलः दत्तात्रेयः यज्ञः ७ऋषभदेवः पृथुः मत्स्यः १० कूर्म्मः ११धन्वन्तरिः १२ मोहिनी १३ नृसिंहः १४ वामनः१५ परशुरामः १६ वेदव्यासः १७ रामः १८बलरामः १९ कृष्णः २० बुद्धः २१ कल्की २२
इति श्रीभागवते
यथा, --“सएव प्रथमं देवः कौमारं सर्गमाश्रितः ।चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितं
द्वितीयन्तु भवायास्य रसातलगतां महीं ।उद्धरिष्यन्नुपादत्त यज्ञेशः शौकरं वपुः
तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।तन्त्रं सात्वतमाचष्ट नैष्कर्म्मं कर्म्मणां यतः
तुर्य्ये धर्म्मकला सर्गे नरनारायणावृषी ।भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः
पञ्चमः कपिलोनाम सिद्धेशः कालविप्लुतं ।प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयं
षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्
ततः सप्तम आकूत्यां रुचेर्य्यज्ञोऽभ्यजायत ।स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरं
अष्टमे मेरुदेव्यान्तु नाभेर्जात उरक्रमः ।दर्शयन् वर्त्म धीराणां सर्व्वाश्रमनमस्कृतं
ऋषिभिर्य्याचितो भेजे नवमं पार्थिवं वपुः ।दुग्धेमामोषधीर्विप्रास्तेनायं उशत्तमः
रूपं जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे ।नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुं
सुरासुराणामुदधिं मथ्नतां मन्दराचलं ।दध्रे कमठरूपेण पृष्ठ एकादशे विभुः
धान्वन्तरं द्वादशमं त्रयोदशममेव ।अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितं ।ददार करजैरूरावेरकां कटकृद्यथा
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपं
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीं
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः
नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ।समुद्रनिग्रहादीनि चक्रे वीर्य्याण्यतः परं
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।रामकृष्णाविति भुवो भगवानहरत् भरं
ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषां ।बुद्धोनाम्नाञ्जनसुतः कीकटेषु भविष्यति
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः
अवतारा ह्यसंख्येया हरेः सत्वनिधेर्द्विजाः ।यथा विदासिनः कुल्याः सरसःस्युः सहस्रशः
षयो मनवो देवा मनुपुत्रा महौजसः ।कलाः सर्व्वे हरेरेव सप्रजापतयः स्मृताः
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयं ।इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे”
इति श्रीभागवते स्कन्धे अध्यायः
(दश-अवतारा एव प्रधानतया प्रसिद्धाः ते यथा, --“मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।रामो रामश्च रामश्च बुद्धः कल्की ते दश”
)(आविर्भावः जन्म उत्पत्तिः यथा, --“अगच्छदंशेन गुणाभिलाषिणीनवावतारं कमलादिवोत्पलम्” ।इति रघुः अपसारणं हरणं यथा, --“भूमेर्भारावताराय ब्रह्मणाप्रार्थितः पुरा ।स एव जातो भवने कौशल्यायां तवानघ”
इति अध्यात्मरामायणे
कृदन्तरूपमाला
Sanskrit
1 {@“तॄ प्लवनतरणयोः”@} 2 प्लवनम् = मज्जनम्, तरणम् = लङ्घनम्।
‘अभिभवे च’ इति कविकल्पद्रुमे।
3 तारकः-रिका, 4 तारका, तारकः-रिका, 5 तितरिषकः-तितरीषकः-तितीर्षकः-र्षिका, 6 तेतिरकः-रिका
तरिता-तरीता-त्री, तारयिता-त्री, तितरिषिता-तितरीषिता-तितीर्षिता-त्री, तेतिरिता-त्री
7 तरन्- 8 समुत्तरन्-न्ती, तारयन्-न्ती, तितरिषन्- 9 तितरीषन्-तितीर्षन्-न्ती
तरिष्यन्-तरीष्यन्-न्ती-ती, तारयिष्यन्-न्ती-ती, तितरिषिष्यन्-तितरीषिष्यन्-तितीर्षिष्यन्-न्ती-ती
-- 10 व्यतितरमाणः, तारयमाणः, तारयिष्यमाणः, -- तेतीर्यमाणः, तेतिरिष्यमाणः
11 तीः-तिरौ-तिरः
-- -- -- 12 13 उत्तीर्णम्-तीर्णः-तीर्णवान्, तारितः, तितरिषितः-तितरीषितः-तितीर्षितः-तवान्, तेतिरितः-तवान्
तरः, 14 तेरिवान्, 15 सुतर्मा, 16 रथन्तरं 17, तारः-तितरिषुः-तितरीषुः- 18 तितीर्षुः-तेतिरः
तरितव्यम्-तरीतव्यम्, तारयितव्यम्, तितरिषितव्यम्-तितरीषितव्यम्-तितीर्षितव्यम्, तेतिरितव्यम्
तरणीयम्, तारणीयम्, तितरिषणीयम्-तितरीषणीयम्-तितीर्षणीयम्, तेतिरणीयम्
19 तार्यम्, तार्यम्, तितरिष्यम्-तितरीष्यम्-तितीर्ष्यम्, तेतीर्यम्
ईषत्तरः-दुस्तरः-सुतरः
-- -- तीर्यमाणः, तार्यमाणः, तितरिष्यमाणः-तितरीष्यमाणः-तितीर्ष्यमाणः, तेतीर्यमाणः
20 21 तरः, 22 अवतारः, तारः, तितरिषः-तितरीषः-तितीर्षः, तेतिरः
तरितुम्- 23 अवतरीतुम्, तारयितुम्, तितरिषितुम्-तितरीषितुम्-तितीर्षितुम्, तेतिरितुम्
24 तीर्णिः, 25 तारा, तारणा, तितरिषा-तितरीषा-तितीर्षा, तेतिरा
तरणम्, तारणम्, तितरिषणम्-तितरीषणम्-तितीर्षणम्, तेतिरणम्
26 तीर्त्वा, तारयित्वा, तितरिषित्वा-तितरीषित्वा-तितीर्षित्वा, तेतिरित्वा
वितीर्य, वितार्य, वितितरिष्य-वितितरीष्य-वितितीर्ष्य, वितेतीर्य
तारम् २, तीर्त्वा २, तारम् २, तारयित्वा २, तितरिषम् २-तितरीषम् २-तितीर्षम् २, तितरिषित्वा २-तितरीषित्वा २-तितीर्षित्वा २, तेतिरम्
तेतिरित्वा
27 इत्यनिप्रत्यये गुणः।
तरणिः = सूर्यः।]] तरणिः, 28 इत्युप्रत्ययः।
छायापुष्पफलार्थिनोऽमुं तरन्तीति तरुः = वृक्षः।]] तरुः, 29 इति ईप्रत्ययः।
तरीः = प्लवो वायुश्च।]] तरीः, 30 इत्युनन्प्रत्ययः।
तरुणः = वायुर्युवा च।]] तरुणः।
प्रासङ्गिक्यः
01
=>
(७७८)
02
=>
(१-भ्वादिः-९६९। सक। सेट्। पर।)
03
=>
[[१। ण्वुलि, ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वृद्धिः। ‘उरण् रपरः’ (१-१-५१) इति रपरः सन् वृद्धिर्भवति। एवं घञादिष्वपि बोध्यम्।]]
04
=>
[[२। ‘तारका ज्योतिषि’ (वा। ७-३-४५) इति वचनात् ज्योतिषि वाच्ये, ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं भवति। अन्यत्र इत्वे तारिका = दासी।]]
05
=>
[[३। धातोः ॠदन्तत्वेन ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे, ‘वॄतो वा’ (७-२-३८) इतीटो दीर्घविकल्पः। इडभावपक्षे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे तितीर्षकः इति रूपम्। एवं सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
06
=>
[[४। ‘ॠत इद् धातोः’ (७-१-१००) इति इत्वम्। रपरत्वम्। द्वित्वम्। अभ्यासे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। एवं यङन्ते सर्वत्र ज्ञेयम्। धातुरूपप्रकाशिकायां तु ‘न धातु- लोप--’ (१-१-४) इति सूत्रस्थोद्योतकारपक्षमवलम्ब्य तेतीरकः-रिका इत्यादीनि यङन्ते दीर्घघटितानि रूपाणि प्रदर्शितानि।]]
07
=>
[[५। शतरि, ‘कर्तरि शपू’ (३-१-६८) इति शपि, शतुः सार्वधातुकत्वेन ङिद्वद्भावात् धातो- रित्वे प्राप्ते, ‘इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति गुणे रूपम्।]]
08
=>
[[आ। ‘समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्। सिध्यतारामिव ख्यातां शबरीमापतुर्वने।।’ भ। का। ६। ६०।]]
09
=>
[[B। ‘अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा यमुत्ततार। नभःस्पृगूर्मिस्तितरीषतोऽस्य हरेर्दधस्यैकपदीमदात् सः।।’ वा। वि। ३। ३८।]]
10
=>
[[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि, णत्वम्।]]
11
=>
[[७। क्विपि, इत्वे रपरत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे विसर्गः।]]
12
=>
[पृष्ठम्०६९८+ २४]
13
=>
[[१। सनि विकल्पितेट्कत्वात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, इत्वे रपरत्वे, दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वे, ‘रषाभ्यां नो णः--’ (८-४-१) इति णत्वे रूपम्।]]
14
=>
[[२। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतं पपिवद्रूप्यम्।’ इति प्रयोगात् क्वसुर्लोकेऽपि क्वचिद्भवति। अस्य क्वसौ, ‘तॄफलभजत्रपश्च’ (६-४-१२२) इत्येत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे रूपम्। ‘छन्दस्युभयथा’ (३-४-११७) इत्यनेनास्य- सार्वधातुकसंज्ञायां तु ‘ऋच्छत्यॄताम्’ (७-४-११) इति गुणम्, एत्वाभ्या- सलोपम्, इडागमं बाधित्वा, तितीर्वान् इत्येव रूपमिति स्फुटं बृहच्छब्दे- न्दुशेखरे।]]
15
=>
[[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः, गुणः।]]
16
=>
[[४। ‘संज्ञायां भॄतॄ--’ (३-२-४६) इत्यादिना संज्ञायां खच्प्रत्ययः। रथन्तरं = साम। ‘इह रथेन तरतीति व्युत्पत्तिमात्रं, त्ववयवार्थानुगमः।’ इति सि। कौमुदी। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। ‘विश्वम्भरा, साम रथन्तराख्यं पतिंवरा चापि धनञ्जयश्च। शत्रुंसहः कोऽपि वसुन्धरा शत्रुंतपोऽरिन्दम एवमूह्यम्।।’ इति प्र। सर्वस्वे।]]
17
=>
(साम)
18
=>
[[आ। ‘तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्।।’ रघुवंशे १। २।]]
19
=>
[[५। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
20
=>
[पृष्ठम्०६९९+ २३]
21
=>
[[१। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप् प्रत्ययः। घञपवादः।]]
22
=>
[[२। ‘अवे तॄस्त्रोर्घञ्, (३-३-१२०) इति करणाधिकरणयोर्घञ्।]]
23
=>
[[आ। ‘अवलोक एव नृपतेः स्म दूरतो रभसाद् रथादवतरीतुमिच्छतः। अवतीर्णवान् प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः।।’ शि। व। १३। ७।]]
24
=>
[[३। क्तिनि, इत्वरपरत्वयोः, ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः। णत्वम्।]]
25
=>
[[४। भिदादिषु (३-३-१०४) तारा इति पाठात् ज्योतिषि वाच्ये वृद्धिर्भवति। तु इत्वमिति ज्ञेयम्।]]
26
=>
[[५। ‘श्रयुकः क्किति’ (७-२-११) इतीण्णिषेधे, इत्वरपरत्वदीर्घेषु रूपम्।]]
27
=>
[[६। ‘अशावतॄभ्योऽनिः’ [द। उ। १। १]
28
=>
[[७। ‘भृमृशीतॄ--’ [द। उ। १-९२]
29
=>
[[८। ‘अवितॄ--’ [द। उ। १-८२]
30
=>
[[९। ‘कॄवृतॄदारिभ्य उनन्’ [द। उ। ५-५२]