| YouTube Channel

अवटीटः (avaTITaH)

 
E Bharati Sampat
Sanskrit
(पु) अवनतं नासिकायाः अव + टीटच् "नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटजः" (५.२.३१) अवटीटम् तद्युक्तापि अवटीटा (नासिका) सा अस्य अस्ति अवटीटा + अच् "अर्श आदिभ्योऽच्" (५.२.१२७) नतनासिकः जनः "अवटीटॊऽवनाटश्चाऽवभ्रटो नतनासिके" - अमरः
शब्दकल्पद्रुमः
Sanskrit
अवटीटः, त्रि, (अवनता नासिका, प्रादिसमासः, नतार्थे नासायाः टीटादेशः अर्शआदित्वादच् ।)नतनासिकः खाँदा छेपडानेको यस्य प्रसिद्धिः ।तत्पर्य्यायः अवनाटः अवभ्रटः इत्यमरः