| YouTube Channel

अवटः (avaTaH)

 
Apte Hindi
Hindi
अवटः
पुं*
- अव+अटन्
"विवर, गुफा"
अवटः
पुं*
- अव+अटन्
गर्त
अवटः
पुं*
- अव+अटन्
कुआं
अवटः
पुं*
- अव+अटन्
"शरीर का कोई दबा हुआ या नीचा भाग, नाड़ीव्रण"
अवटः
पुं*
- अव+अटन्
बाजीगर
E Bharati Sampat
Sanskrit
(पु) अव (रक्षणादौ) + अटन् (उ०४-५१) १. विवरम्, गर्तः ‘गर्तावटौ भुवीश्वभ्रे’ - अमरः "अवटे ये निधीयन्ते तेषां लोकाः सनातनः’ - रामा० २. बिलम्, गुहा ३. कूपः ४. शरीरस्य निम्नः भागः, कण्ठमूलादिः "अवटश्चैवमेतानि स्थानान्यत्र शरीरके" - याजज्ञ० ३.९८ ५. ऎन्द्रजालिकः "अवटः कूपखिलयोर्गर्ते कुहकजीविनि" - हेमः ६. पक्षिशावकः "पक्षिपोतस्तु चिल्लाकश्चम्पुकः पीलुकावटौ" - वैज. ७. चतुर्विंशतिः अङ्गुलाः ‘किष्कुः स्यादवटो हस्तः चतुर्विंशतिरङ्गुलाः" - वैज० ८. काकः ९. लशुनम् १०. निम्बतरुः ११. दुर्जनः "काके निम्बे लशुने गर्ते कूपे खलेऽवटः" - त्रिकाण्ड० १२. क्षीणः, दुर्बलः "अवटःस्यात् खिले गर्ते कूपे कुहकजीवनि" - मेदिनी
Wordnet
Sanskrit
Synonyms:
भूमिगृहम्, गुप्तिः, भूतिकील, अवटः, अवटिः
noun
गृहस्याधस्ताद् भूमौ खातः कोष्ठः।
"तेन सर्वं धनं भूमिगृहे रक्षितम्।"
शब्दकल्पद्रुमः
Sanskrit
अवटः,
पुं,
(अव + अटन् ।) खिलं गत्तः कूपः ।(“रक्षसां गतसत्त्वानामेष धर्म्मः सनातनः ।अवटे ये निधीयन्ते तेषां लोकाः सनातनाः”
इति रामायणे ।) कुहकजीवो इति विश्व-मेदिन्यौ