| YouTube Channel

अवच्छेदकत्वं (avacchedakatvaM)

 
शब्दकल्पद्रुमः
Sanskrit
अवच्छेदकत्वं,
क्ली,
(अवच्छेदकस्य भावः, भावार्थे त्व ।)स्वरूपसम्बन्धविशेषः यथा घटकञ्चावच्छेदकत्वंस्वरूपसम्बन्धविशेषः इत्यवच्छेदकत्वनिरुक्तौ शि-रोमणिः
अनतिरिक्तवृत्तित्वं यथा अव-च्छेदकत्वञ्च इहानतिरिक्तवृत्तित्वं तेन विशिष्ट-स्यासत्वेपि भ्रमात् प्रतिबन्धेऽपि क्षतिः इतिसामान्यनिरुक्तौ शिरोमणिः
अन्यूनानतिरिक्त-वृत्तित्वं यथा ननु तादृशप्रतियोगित्वान्यूना-नतिरिक्तवृत्तित्वं वाच्यं वह्नित्वं घटवृत्तितादृशप्रतियोगित्वान्यूनानतिरिक्तवृत्ति अतआहतार्णतार्णेति इत्यवच्छेदकत्वनिरुक्तौ जगदीशः
अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं पारिभाषिकं ।यथा तदवच्छिन्नाभाववदसम्बद्धस्वविशिष्टसामा-न्यकत्वं स्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगिता-नवच्छेदकतत्कत्वं वा तदनतिरिक्तवृत्तित्वं वक्तव्यं ।इति अवच्छेदकत्वनिरुक्तौ शिरोमणिः
अव्याप्य-वृत्तेरवच्छेदकत्वमपि स्वरूपसम्बन्धविशेषः तदा-श्रयावच्छेदकः तच्चावच्छेदकत्वं इह शिखरिणिनितम्बे हुताशनो शिखरे इत्यादि प्रतीति-बलात् कुत्रचिदव्याप्यवृत्त्यधिकरणदेशविशेषादि-दानीं गोष्ठे गौर्नतु गृहे इत्यादिप्रतीतिबलात्कुत्रचित् देशवृत्तितायाः काले कुत्रचित् काल-वृत्तिताया देशे अप्यस्ति इति न्यायशास्त्रं