अवच्छिन्नवाद (avacchinnavAda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritअवच्छिन्नवाद अवच्छिन्नतया अन्तःकरणावच्छिन्नतयाजीवस्य वादोव्यवस्थापनम् । वेदान्तिमतप्रसिद्धे चैतन्यस्यअन्तः करणावच्छिद्वतया व्यवस्थापके मतभेदे । तथाहि तेषांमतद्वैधम् केचित् अन्तःकरणे प्रतिविम्बितं चैतन्यं जीवइति प्रतिपेदिरे केचिच्च तदवच्छिन्नं चैतन्यंजीव इति ।तत्र नीरूपस्य चैतन्यस्यान्तःकरणे प्रतिविम्बासम्भवेन प्रति-विम्बस्य च मिथ्यात्वेन जीवस्य सत्यत्वानुपपत्तेः बन्ध-मोक्षयोः सामानाधिकरण्याभावापत्तेः प्रतिविम्बवादंदूषयित्वाऽवच्छिन्नवादं समर्थयाञ्चक्रिरे । तथा च नैयायि-कादीनामेकस्यापि नभसः कर्ण्णशष्कुल्यादिभेदेन उपाधि-कृतं नानात्वं न वस्तुकृतमेवमेकस्यापि चैतन्यस्यान्तःकर-णोपाधिभेदेनावच्छिन्नतया नानात्वं तेन “तद्गुणसार-त्वात्” शा० सू० “घटसंवृतआकाशे नीयमाने यथा घटे ।घटोनीयेत नाकाशस्तद्वंज्जीवोनभोपम” इत्युक्तेश्च जीवस्यन स्वत इहलोकपरलोकगामित्वमपि तु बुद्धिरूपाषि-भेदन तथाव्यवहारः अतो न बन्धमोक्षव्यवस्थानुपपत्तिःयन्निन्नुपाधौ अज्ञानाधीना संसारप्रवृत्तिस्तस्य जीवभावा-त्मकतया बन्धः, यत्र च तन्निवृत्तिः न तत्र तथा, किन्तु-मोक्षः । विस्तरस्त्वाकरे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
