| YouTube Channel

अवच्छिन्नः (avacchinnaH)

 
E Bharati Sampat
Sanskrit
(वि) अव + छिदिर् (द्वैधीकरणे) + क्तः ‘निष्ठा’ ९३.२.१०२) १. पृथक् कृतम् २. आश्रयभेदेन दर्शितभेदः "अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः मम ब्रवीति देवीयं सत्यानन्दचिदात्मताम्’ - प्रबोध० (६.२६) ३. निर्णीतः, विकृतः, सीमितः ४. अवच्छेदकतानिरूपकम् विशिष्टम् अवच्छेदाश्रयः "दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये" - नीतिशतकम्