| YouTube Channel

अवच्छिन्नं (avacchinnaM)

 
शब्दकल्पद्रुमः
Sanskrit
अवच्छिन्नं, त्रि, (अव + छिद् + क्त ।) अवच्छेदकता-निरूपकं विशिष्टं इति न्यायभाषा अवच्छे-दाश्रयः यथा प्रतियोग्यसमानाधिकरणयत्-सामानाधिकरणात्यन्ताभावप्रतियोगितावच्छेद-कावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधि-करण्यंव्याप्तिः इति सिद्धान्तलक्षणचिन्तामणिः
(“जलाशये महाकाशस्तदवच्छिन्नमेव हि ।बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्
साभासबुद्धेः कर्तृत्वमवच्छिन्ने विकारिणि” ।इति अध्यात्मरामायणे ।)