| YouTube Channel

अवकेशी (avakezI)

 
E Bharati Sampat
Sanskrit
(पुं) अवकेशिन् अव निर्गतं, कं-सुखं, यस्मात् अवकम् फलशून्यताम् ईष्टे - अवक् + ईश (ऐश्वर्ये) + णिनिः ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३.२.७८) १. वन्ध्यः वृक्षः "वन्ध्योऽफलोऽवकेशी च"- अमरः "निन्द्यते पितृभिस्तप्तैर्निरपत्यधनः पुमान् अध्वनीनैः अतिश्रान्तैः अवकेशीव पादपः" चम्पू भारतम् २. अवसन्नाः केशाः विद्यन्ते अस्य अवकेश + इनिः ‘अत इनिठनौ’ (५.२.११५) अल्पकेशी
वैजयन्तीकोषः
Sanskrit
Word: अवकेशी
Root: अवकेशिन्
Gender: नपुं
Number: all
अर्थः वृक्षोऽवकेशी/ऋतावपि_फलरहितसस्यः
Meaning(s):
Barren
Shloka(s):
3|3|8|1 बन्ध्यो वृक्षोऽवकेशी स्यादबन्ध्यस्तु फलेग्रहिः। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|8|1 वन्ध्य: (वन्ध्य) (पुं) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
3|3|8|1 वन्ध्या (वन्ध्य) (स्त्री) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
3|3|8|1 वन्ध्यम् (वन्ध्य) (नपुं) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
3|3|8|1 अवकेशी (अवकेशिन्) (पुं) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
3|3|8|1 अवकेशि: (अवकेशिन्) (स्त्री) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
3|3|8|1 अवकेशिन् (अवकेशिन्) (नपुं) Barren वृक्षोऽवकेशी, ऋतावपि_फलरहितसस्यः
Related word(s):
परा_अपरासंबन्धः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
अवकेशी, [न्] त्रि, (अवच्युतं कं सुखं यस्मात्, अवकं फलशून्यतामीशितुं शीलमस्य, अवक +ईश + णिनि ।) फलकालेऽप्यनुत्पन्नफलकवृक्षादिः ।इत्यमरः
तत्पर्य्यायः बन्ध्यः अफलः