| YouTube Channel

अवकृष्टः (avakRSTaH)

 
Apte Hindi
Hindi
अवकृष्टः
भू* क* कृ* - -
वह नौकर जो झाडू-बुहारु आदि का काम करता है
E Bharati Sampat
Sanskrit
(वि) अव + कृष (विलोखने) + क्तः ‘निष्ठा’ (३.२.१०२) १. निकृष्टः, निम्नवर्गीयः ‘चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्यतु’ - याज्ञवल्क्यः २. दूरीकृतः अपसरितः ‘प्रतिकर्तुं प्रकृष्टस्य नावकृष्टेन युज्यते’ - रामा. ।“निष्कासितोऽवकृष्टः स्यात्’ - अमरः ३. आकृष्टः, बहिः आनीतः "एकाकिनाऽपिहिमया रभसावकृष्टनिस्त्रिंशदीधितिसटाभरभासुरेण" - नागा. ४. नीतः, स्थानान्तरितः ५. गृहादिमार्जने नियुक्तः कर्मकरः "पणौ देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः" - मनुः ७.१२६
(वि) अव + क्रुश (आह्वाने रोदने च) + क्तः "निष्ठा" (३.२.१०२) आहूतः ‘अवक्रुष्टः कोकिलया’
शब्दकल्पद्रुमः
Sanskrit
अवकृष्टः, त्रि, (अव + कृष् + क्त ।) वहिष्कृतः ।दूरीकृतः तत्पर्य्यायः निष्काशितः इत्य-मरः
निःसारितः इति जटाधरः
निर्ग-मितः इति शब्दरत्नावली
(वहिष्कारितः ।निर्गलितः आकृष्टः ।“एकाकिनापि हि मया रमसावकृष्ट-निस्त्रिंशदीधितिसटाभरभासुरेण” ।इति नागानन्दे नीचः निकृष्टः ।“प्रतिकर्त्तुं प्रकृष्टस्य नावकृष्टेन युज्यते” ।इति रामायणे हीनजातीयः
नीचजातीयः ।अपकृष्टवर्णः ।“चान्द्रायणं चरेत् सर्व्वानवकृष्टान् निहन्य तु” ।इति याज्ञवल्क्यः गृहादिसम्मार्ज्जकोदकवा-हादिः कर्म्मकरः ।“पाणौ देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः”
इति मनुः ।)