| YouTube Channel

अवकीर्ण्णिन् (avakIrNNin)

 
वाचस्पत्यम्
Sanskrit
अवकीर्ण्णिन्
पु०
अवकीर्णमनेन इष्टा० इनि ध्वस्तव्रतेब्रह्मचारिणोयद्व्रतमुक्तं स्त्रीसङ्गमादिवर्जनं तस्य भ्रंसे-ऽवकीर्णता “अवकीर्ण्णी तु कालेन गर्द्धभेन चतुष्पथे ।पाकयज्ञविधानेन नैरृतं निशि याजयेत्” अङ्गि० “कुशी-लवोऽवकार्ण्णी वृषलीपतिरेव च” मनुः अवकीर्णि-लक्षणञ्च--“कामतोरेतसः सेकं ब्रतस्थस्य द्विजन्मनः ।अतिक्रमं व्रतस्याहुर्धर्म्मज्ञा ब्रह्मवादिनः “अवकीर्ण्णी भवेद्-गत्वा ब्रह्मचारी तु योषितम् गर्द्धभं षशुमालभ्य नैरृतं सविशुध्यति” या० स्मृ० स्त्रियं विनाऽपि रेतसः स्रावेब्रतलोपः “ब्रह्मचारी चेत् स्त्रियमुपेयात् अरण्येचतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्द्दभं पशुमालभेतनैरृतं वा चरुं निर्वपेत् तत्र जुहूयात् कामाय स्वाहाकामकामाय स्वाहा निरृत्यै स्वाहा रक्षोदेवताभ्यःस्वाहेति एतदेव रेतसः प्रयत्नोत्सर्गे” इति वसिष्ठोक्तेःतेन कामतोरेतस उत्सर्गेऽपि अवकीर्ण्णित्वम् अकामतस्तुनावकार्णित्वं किन्तु प्रायश्चित्ताल्पत्वं यथोक्तं मनुना“स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्वानतृचं जपेत्”