| YouTube Channel

अवकीर्णिव्रतम् (avakIrNivratam)

 
वाचस्पत्यम्
Sanskrit
अवकीर्णिव्रतम् अवकोर्ण्णिनो ब्रतम् प्रायश्चित्तम् “अथातो-ऽवकार्ण्णिप्रायश्चित्तं व्याख्यास्यामः ब्रह्मचारी यश्चावकीर्य्येत चतुर्थकालमब्दं भैक्ष्यं चरेदेवं पूतो भवतीति”शातातपोक्ते “एतस्मिन्नेव संप्राप्ते वसित्वा गर्द्धभाजिनम् ।तप्तवानचरेत् भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् तेभ्यो लब्धेनभैक्ष्येण वर्त्तयन्नेककालिकम् उपस्पृशःस्त्रिसवनमेनसस विशुध्यति” मनूक्ते अवकीर्ण्णिब्रतमुपक्रम्य “तत्र प्राय-श्चित्तं महाव्याहृतिभिर्जुहूयात् ओङ्कारपूर्व्विकाभिः ।संवत्सरं वा नक्तं भैक्ष्यं चरेत् चतुर्थकाले मितभुग् गायत्रींवत्सरानुगां जपेदिति” शङ्खलिखितोक्ते “अवकीर्ण्ण-निमित्तन्तु ब्रह्महत्याब्रतञ्चरेत् खरचर्म्मवासा षण्मामासां-स्तस्मान् मुच्येत किल्विषात्” अङ्गिरसोक्ते व्रतभेदे ।एतस्य विषयभेदः प्रायश्चित्तविवेकतोज्ञेयः