| YouTube Channel

अल्पकः (alpakaH)

 
E Bharati Sampat
Sanskrit
(पुं) अल्पः एव अल्प+कन् ‘संज्ञायां कन्’ ५.४.५। १.यवासवृक्षः। (वि) अल्पः एव स्वार्थे कन् २.स्वल्पपरिमितः। ३.तुच्छः, नीचः, निन्द्यः। ‘परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति’ माघः१६.२८। (स्त्री) अल्पिका ‘तदात्वे चाल्पिकां पीडां तदा सन्धिं समाचरेत्’ मनुः८.१६९। (न) ४.ईषत्, स्तोकम्
शब्दकल्पद्रुमः
Sanskrit
अल्पकः,
पुं,
(अल्प एव, अल्प + स्वाथ कन् ।)यवासवृक्षः इति राजनिर्घण्टः
अस्य गुणाः
“यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः ।कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित्
तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः ।यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा”
इति भावप्रकाशः ।) (स्वल्पपरिमितः किञ्चित् ।“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्”
इति मनुः ।)