| YouTube Channel

अलौकिकसन्निकर्षः (alaukikasannikarSaH)

 
E Bharati Sampat
Sanskrit
(पुं) लोके अविदितः सन्निकर्षः। प्रत्यक्षसाधनसन्निकर्षभेदः सामान्यलक्षणादि। प्रत्यक्षं द्विविधम् लौकिकम् अलौकिकं लौकिकं चक्षुरादिजन्यम् अलौकिकं चक्षुराद्यजन्यं सामान्यलक्षणाद्यलौकिकसन्निकर्षव्यापारजन्यम् ‘अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः। सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा’ कारिका०१.६३।