| YouTube Channel

अलौकिकसन्निकर्ष (alaukikasannikarSa)

 
वाचस्पत्यम्
Sanskrit
अलौकिकसन्निकर्ष
पु०
लोकेषु अविदितः सन्निकर्षः ।“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः सामान्यलक्षणा ज्ञानलक्षणा योगजोमत” इति भाषा०उक्ते प्रत्यक्षसाधनसन्निकर्षभेदे सामान्यलक्षणादिलक्षणंच तत्तच्छब्दे वक्ष्यते तथाहि यत्किञ्चिद्घटादौचक्षुःसन्निकर्षे घटत्वसामान्यधर्म्मज्ञानेन सकलघटादिज्ञानंसामान्यलक्षणाधीनं घटादिज्ञाने घटादिज्ञानंज्ञानलक्षणाधीनम्, योगविशेषजनितं सकलघटज्ञानं चएतत्त्रयमलौकिकं प्रत्यक्षं तस्य अलौकिकत्वात् तदुत्तरंतत्तद्विषये साक्षात्करोमीति नानुव्यवसायः किन्तु जाना-मीत्येवानुव्यवसाय इति भेदः