अलर्कः (alarkaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअलर्कः [alarkḥ], 1 A mad dog or one rendered furious.
A fabulous animal like a hog with eight legs. अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् । रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः * 12.3.13.
A kind of worm.
of a plant (श्वेतार्क
पांढरी रुई).
Apte 1890
EnglishApte Hindi
Hindiअलर्कः
वि* - "अलम् अर्क्यते अर्च्यते वा अर्क्+अच्, अच्+घञ् वा शक* पररूपम्"
पागल कुत्ता या मदोन्मत्त व्यक्ति
अलर्कः
वि* - "अलम् अर्क्यते अर्च्यते वा अर्क्+अच्, अच्+घञ् वा शक* पररूपम्"
सफेद मदार
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(पुं) अलम् अर्क्यते । अलम्+अर्क(स्तवने)+घञ् । ‘अकर्तरि च०’ ३.३.१९। १.भ्रान्तश्वा, उन्मत्तशुनकः। २.श्वेतार्कः। ३.कृमिभेदः, शूकराकाराष्टापदतीक्ष्णदन्तसूच्याकृतिलोमजन्तुविशेषः। दंशनामासुरः भृगुशापात् अलर्कजन्तुः भूत्वा कर्णस्य ऊरुं भित्वा परशुरामदृष्टिपातात् शापमुक्तः पूर्वरूपं प्राप्नोति । ‘ददर्श रामस्तं चापि कृमिं शूकरसन्निभम् । अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् ॥ रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः’ महाभा०१२.३.१३। ४.राजभेदः। ‘अपूरयत् कश्चिदलर्कसंज्ञः प्राज्ञः प्रतिज्ञां प्रथितप्रभावः’ चम्पूरा०२.१८। ५.पुत्रः, आत्मजः। (स्त्री) अलर्का । ६.मदालसाख्या अप्सराः। ‘अथात्मजे । मदालसायां श्वेतार्केऽप्यलर्को भ्रान्तशुन्यपि’ नानार्थर०।
(पुं) अलम् अर्क्यते । अलम्+अर्क(स्तवने)+घञ् । ‘अकर्तरि च०’ ३.३.१९। १.भ्रान्तश्वा, उन्मत्तशुनकः। २.श्वेतार्कः। ३.कृमिभेदः, शूकराकाराष्टापदतीक्ष्णदन्तसूच्याकृतिलोमजन्तुविशेषः। दंशनामासुरः भृगुशापात् अलर्कजन्तुः भूत्वा कर्णस्य ऊरुं भित्वा परशुरामदृष्टिपातात् शापमुक्तः पूर्वरूपं प्राप्नोति । ‘ददर्श रामस्तं चापि कृमिं शूकरसन्निभम् । अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् ॥ रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः’ महाभा०१२.३.१३। ४.राजभेदः। ‘अपूरयत् कश्चिदलर्कसंज्ञः प्राज्ञः प्रतिज्ञां प्रथितप्रभावः’ चम्पूरा०२.१८। ५.पुत्रः, आत्मजः। (स्त्री) अलर्का । ६.मदालसाख्या अप्सराः। ‘अथात्मजे । मदालसायां श्वेतार्केऽप्यलर्को भ्रान्तशुन्यपि’ नानार्थर०।
Wordnet
Sanskrit अलर्कः
प्राचीनः दानशीलः राजा।
"याचनायाम् अलर्कः अन्धाय ब्राह्मणाय नेत्रे अयच्छत्।"
दुष्टश्वा, अलर्कः
मस्तिष्के दुष्टः सारमेयः।
"सः दुष्टशुना दष्टः।"
शब्दकल्पद्रुमः
Sanskritअलर्कः, (अलमर्कतेऽर्च्यते वा, अर्क + अच्, अर्च+ घञ् वा ।) क्षिप्तकुक्कुरः । (“आलर्कं विष-मिव सर्व्वतः प्रसुप्तम्” । इति उत्तरचरिते ।)श्वेतार्कवृक्षः । शादा आकन्द इति भाषा ।(अस्य पर्य्यायान्तरं गुणान्तरञ्च यथा --“अलर्को गुणरूपः स्यान्मन्दारो वसुकोपि च ।श्वेतपुष्पः सदापुष्पः सबालार्कः प्रतापसः ॥
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः ।रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् ।निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्क्रिमीन् ॥
अलर्ककुसुमं वृष्यं लघुदीपनपाचनं ।अरोचकप्रसेकार्शःकासश्वासनिवारणम्” ॥
इति भावप्रकाशः ॥
“दुष्टकर्द्दमसंस्पर्शाः कण्डूक्लेदान्वितान्तराः” ।अङ्गुल्योऽलस मित्याहुः ॥
इति वाभटः ॥
)तत्पर्य्यायः । प्रतापसः २ राजार्कः ३ गणरूपी ४ ।इति रत्नमालामरौ ॥
शूकराकाराष्टपादतीक्ष्ण-दन्तसूच्याकृतिलोमजन्तुविशेषः । दंशनामासुरोभृगुशापात् अयं जन्तुर्भूत्वा कर्णस्योरुं भित्त्वापरशुरामदृष्टिपातात् शापमुक्तः पूर्व्वरूपो बभूव ।इति महाभारते राजधर्म्मे ॥
(“ददर्श रामस्तं चापि कृमिं शूकरसन्निभं ।अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतं ॥
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ।सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः ।पुरा देवयुगे तात ! भृगोस्तुल्यवया इव ।सोऽहं भृगोः सुदयितां भार्य्यामपहरं बलात् ॥
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि” ।स्वनामख्यातो नृपतिः ।“शैव्यः शेनकपोतीये स्वमांसं पक्षिणे ददौ ।अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्” ॥
इति रामायणे । स्वनामख्यातः काशिराजः, स हिवत्सराजस्य पुत्त्रः सन्नतेश्च पिता, यथा हरिवंशे, --“वत्सपुत्त्रस्त्वलर्कस्तु सन्नतिस्तस्य चात्मजः ।अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः” ।)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
