अलङ्कार (alaGkAra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English अलङ्कार alaGkAra decoration an ornament of the sense or the sound
अलङ्कार alaGkAra ornament
अलङ्कार alaGkAra trinket
अलङ्कार alaGkAra act of decorating
अलङ्कार alaGkAra ornament
अलङ्कार alaGkAra decoration
अलङ्कार alaGkAra trinket
अल्पसर alpasara trinket
कङ्कण kaGkaNa trinket
कङ्कण kaGkaNa any ornament or trinket
प्रियमण्डन priyamaNDana fond of trinkets or ornaments
Wilson
EnglishApte 1890
Englishअलंकारः 1 Decoration, act of decorating or ornamenting.
2 An ornament (fig. also)
अलंकारः स्वर्गस्य V. 1
अनुत्सेकः खलु विक्रमालंकारः ibid.
3 A figure of speech of which there are three kinds:
शब्द°, अर्थ°, and शब्दार्थ°
शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः । रसादीनुपकुर्वंतोऽलंकारास्तेंऽ गदादिवत् ॥ S. D. 631
उपकुर्वंति लं संतंयेंऽगद्वारेण जातु चित् । हारादिवदलंकारास्तेनुप्रासोपमादयः K. P. 8.
4 The whole science of Rhetoric.
Comp.
चंद्रिका a commentary on Kuvalayānanda.
शास्त्रं the science and art of rhetoric, poetics.
सुवर्णं gold used for ornaments.
सूरः N. of a kind of meditation in Buddhism.
हीन a. unadorned.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishअलङ्-कार, अस्, m. the act of decorating
ornament,
decoration
a figure or rhetorical expression.
—अलङ्-
कार-चन्द्रिका, f. title of a commentary on Kuvala-
yānanda.
—अलङ्कार-वत्, आन्, अती, अत्, decorated,
ornamented
(ती), f. title of the ninth Lambaka in
the Kathāsaritsāgara
(वत्), ind. like an ornament.
—अलङ्कार-शास्त्र, अम्, n. a manual or text-book
of rhetoric.
—अलङ्कार-सुवर्ण, अम्, n. gold used
for ornaments.
—अलङ्कार-सूर, अस्, m., N. of a
kind of meditation in Buddhism.
—अलङ्कार-हीन,
अस्, आ, अम्, unadorned.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiअलङ्कारः
वि* - अलम्+कृ+घञ्
"सजावट, सजाने या अलंकृत करने की क्रिया "
अलङ्कारः
वि* - अलम्+कृ+घञ्
आभूषण
अलङ्कारः
वि* - अलम्+कृ+घञ्
अलंकार
अलङ्कारः
वि* - अलम्+कृ+घञ्
काव्य के गुण दोष बताने बाला शास्त्र ।
Shabdartha Kaustubha
Kannadaअलङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭೂಷಣ /ಒಡವೆ
निष्पत्तिः - > अलम् + डुकृञ् (करणे) - "घञ्" (३-३-१९)
व्युत्पत्तिः - > अलङ्क्रियतेऽनेन
अलङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಲಂಕಾರ /ಶೃಂಗಾರ
अलङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಲಂಕಾರಶಾಸ್ತ್ರ
अलङ्कार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶಬ್ದ ಮತ್ತು ಅರ್ಥಾಲಂಕಾರ /ಶಬ್ದಾರ್ಥಗಳಿಗೆ ಹೆಚ್ಚು ಕಾಂತಿಯನ್ನು ಕೊಡುವ ಧರ್ಮ
प्रयोगाः - > "काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते"
उल्लेखाः - > काव्या० २-१
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritस्थासकस्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥ ६४९ ॥
परिष्काराभरणे च चूडामणिः शिरोमणिः ।
स्थासक (पुं), हस्तबिम्ब (क्ली), अलङ्कार (पुं), भूषण (क्ली), परिष्कार (पुं), आभरण (क्ली), चूडामणि (पुं), शिरोमणि (पुं)
अभिधानरत्नमाला
Sanskritआकल्प
आकल्प, मण्डन, वेष, प्रतिकर्मन्, प्रसाधन, भूषण, अलङ्कार, नेपथ्य, आभरण
आकल्पो मण्डनं वेषः प्रतिकर्म प्रसाधनम् ।
भूषणं स्यादलङ्कारो नेपथ्याभरणे तथा ॥ ५३९ ॥
verse 2.1.1.539
page 0061
शब्दकल्पद्रुमः
Sanskritअलङ्कारः, (अलम् + कृ + भावे घञ् ।) भूषणं ।तत्पर्य्यायः । आभरणं २ परिष्कारः ३ विभूषणं४ मण्डनं ५ । इत्यमरः ॥
अलङ्क्रिया ६ भूषा ७अलङ्करणं ८ । इति शब्दरत्नावली । कलापः ९इति जटाधरः ॥
* ॥
अथालङ्कारयुक्तिः । तद्धा-रणदिनमुच्यते ।“रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु ।गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणं ॥
अनिष्टेष्वपि निर्दिष्टं बस्त्रालङ्कारधारणम् ।उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥
शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा ।कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥
प्रधानभूषणान्येषु यथासंख्यानि निश्चयः ।पद्मरागश्च वज्रञ्च विजयो गोविदास्तथा ॥
मुक्ता वैदूर्य्यनीलञ्च तथा मरकतं क्रमात् ।आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥
सुवर्णेनापि घटना सर्व्वेषामुपयुज्यते ।प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥
प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते ।तस्य प्रधानभूषत्वादित्याह भृगुनन्दनः ॥
सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ।अतो मणीनां वक्ष्यामि लक्षणानि यथाकम” ॥
इति युक्तिकल्पतरुः ॥
* ॥
मणिविशेषाणां लक्ष-णानि तत्तच्छन्दे द्रष्टव्यानि ॥
* ॥
काव्यालङ्कारः ।स द्विविधः । शब्दालङ्कारः १ । अर्थालङ्कारश्च २ ।तस्य लक्षणं । काव्यशोभाकरधर्म्मः । इति काव्या-दर्शः ॥
वैचित्र्यमलङ्कार इत्यलङ्कारसामान्यलक्षणं ।अथालङ्कारनामानिअक्रमातिशयोक्तिः -- १अतद्गुणः -- २अत्यन्तातिशयोक्तिः -- ३अत्युक्तिः -- ४अधिकं -- ५अनन्वयः -- ६अनुकूलं -- ७अनुगुणः -- ८अनुज्ञा -- ९अनुप्रासः -- १०अनुप्रासस्तु पञ्चविधः । एकस्य लक्षणोदाहरणेउक्ते ।अपरेयथा, वृत्त्यनुप्रासः --श्रत्यनुप्रासः --अन्त्यानुप्रासः --लाटानुप्रासः --अनुमानं -- ११अन्योन्यं -- १२अपह्नवातिशयोक्तिः -- १३अप्रस्तुतप्रशंसा -- १४अभिधाहेतुः -- १५अर्थान्तरन्यासः -- १६अर्थापत्तिः -- १७वैचित्र्यञ्च भङ्गीविशेषः प्रतीतिसाक्षिकः । इतिकाव्यप्रकाशटीकायां महेश्वरः ॥
अङ्गदादिवत्शब्दार्थशोभातिशयजनको रसाद्युपकारकोऽस्थि-रधर्म्मः । इति साहित्यदर्पणं ॥
अस्य विवरणंदण्डि-काव्यप्रकाश-साहित्यदर्पणालङ्कारकौस्तुभ-तल्लक्षणानि“अक्रमातिशयोक्तिः स्यात् सहत्वे हेतुकार्य्ययोः । १“सङ्गतानुगुणासङ्गीकारमाहुरतद्गुणं” । २“अत्यन्तातिशयोक्तिस्तु कार्य्ये हेतुप्रशक्तिजे” । ३“अत्युक्तिरद्भुतातथ्यशौर्य्यौदार्य्यादिवर्णनं” । ४“अधिक पृथुलाधारादाधेयाधिक्यवर्णनं” । ५“उपमानोपमेयत्वं यदेकस्यैव वस्तुनः” । ६“अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् । ७“प्राक्सिद्धः स्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” । ८“दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्” । ९“अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्” । १०“अनेकस्यैकधा साम्यसकृद्वाप्यनेकधा ।एकस्य सकृदप्येष वृत्त्यनुप्रास इष्यते” ॥
“उच्चार्य्यत्वाद्यदेकत्र स्थाने तालुरदादिके” ।सादृश्यं व्यञ्जनस्यैतत् श्रुत्यनुप्रास उच्यते ॥
व्यञ्जनञ्चेद्यथावस्थं सहाद्येन स्वरेण तु ।आवर्त्त्यतेऽन्त्ययोज्यत्वादनुप्रासः स एव तत्” ।“शब्दार्थयोः पौनरुक्तं भेदे तात्पर्य्यमात्रतः ।लाटानुप्रास इत्युक्तः” ॥
“अनुमानन्तु विच्छित्त्या ज्ञानं साध्यस्य साध-नात्” । ११“अन्योन्यं नाम यत्र स्यादुपकारः परस्परं” । १२“रूपकातिशयोक्तिः स्यान्निगीर्य्याध्यवसानतः ।यदापह्नुतिगर्भत्वं सैव सापह्नवा मता” । १३“अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया” । १४“अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह” । १५“उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः” । १६“दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते ।क्वचित् प्राकरणिकादप्राकरणिकार्थस्यापतर्न ।क्वचित् अप्राकरणिकात् प्राकरणिकार्थस्येति द्वौभेदौ” । १७चन्द्रालोकोज्ज्वल-नीलमणि-काव्यचन्द्रिका-कुबल-यानन्द-सरस्वतीकण्ठाभरणादिग्रन्थेषु ज्ञेयं । अल-ङ्काराणां मध्ये ये ये प्रसिद्धास्तेषां नामलक्षणोदा-हरणानि चन्द्रालोकधृतानि तदतिरिक्तानि सा-हित्यदर्पणोक्तानि च लिख्यन्ते ॥
तदुदाहरणानि“आलिङ्गन्ति समं देव ज्यां शराश्च परांश्चते” ॥
१“चिरं रागिणि मच्चित्तेनिहितापि न रज्यसि” ॥
२“यास्यामीत्युदिते तन्व्या बलयोऽभवदूर्म्मिका” ॥
३“त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः” ॥
४“ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः” ॥
५“इन्दुरिवेन्दुः श्रीमानित्यादौ तदनन्वयः” ॥
६“कुपितासि यदा तन्वि निधाय करजक्षतं ।बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा” ॥
७“नीलोत्पलानि दधते कटाक्षैरतिनोलतां” ॥
८“मय्येव जीर्णतां यातु यत्त्वयैव कृतं हरे ।नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति” ॥
९“आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रमरान् ।अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः” ॥
१०“उन्मीलन्मधुगन्धलूब्धमधुपव्याधूतचूताङ्कुरक्रीडत्-कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ॥
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः” ॥
“केशः काशस्तवकविकाशः कायः प्रकटितकरभ-विलासः । चक्षुर्दग्धवराटककल्पं त्यजति न चेतःकाममनल्पं” ॥
“स्मेरराजीवनयने नयने किं निमीलिते ।पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियं” ॥
“जानीमहेऽस्याः किल सारसाक्ष्या विराजतेऽन्तः-प्रियवक्त्रचन्द्रः । तत्कान्तिजालैः प्रसृतैस्त्वदङ्गेष्वा-पाण्डुता कुट्मलताक्षिपद्मे” ॥
११“त्रियामा शशिना भाति शशी भाति त्रिया-मया” ॥
१२“त्वत्सूक्तिषु सुधा, राजन् भ्रान्ताः पश्यन्ति तांविधौ” ॥
१३“एकः कृती स कृत्येषु योऽन्यं शक्रान्न याचते” ॥
१४“तारुन्यविलासः । इत्यत्र वशीकरणहेतुर्नायिका-वशीकरणत्वेनोक्ता । विलासहासयोस्त्वध्यवसाय-मूलोऽयमलङ्कारः” ॥
१५“हनूमानब्धिमतरत् दुस्तरं किं महात्मनां ॥
गुणवद्वस्तुसंसर्गात् याति स्वल्पोऽपि गौरवं ।पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्य्यते” ॥
१६“हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डलें ।मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः” ॥
“विललाप सवाष्पगद्गदं सहजामप्यपहाय धी-रतां । अतितप्तमयोऽपि मार्द्दवं भजते कैव कथाशरीरिणां” ॥
१७अथालङ्कारनामानिअल्पं -- १८अवज्ञालङ्कृतिः -- १९असङ्गतिः -- २०तस्य त्रीणि लक्षणानि ।असदर्थनिदर्शना -- २१असम्भवः -- २२आवृत्तिदीपकं -- २३तत् त्रिविधं । पदावृत्तिः । अर्थावृत्तिः । उभया-वृत्तिः ।आक्षेपः -- २४अस्य त्रीणि लक्षणानि लक्ष्याणि च ।उत्प्रेक्षा -- २५सा वस्तुहेतुफलात्मतागोचरत्वेन त्रिविधावस्तूत्प्रेक्षा । हेतूत्प्रेक्षा । फलोत्प्रेक्षा । तत्राद्याउक्तविषया अनुक्तविषया चेति द्विविधा । परेहेतुफलोत्प्रेक्षे सिद्धासिद्धविषयतया प्रत्येकं द्वि-विधे । एवमुत्प्रेक्षा षड्विधा ।उत्तरं -- २६उदात्तं -- २७उपमा -- २८उपमेयोपमा -- २९उल्लासः -- ३०उल्लखः -- ३१लक्षणभेदेन स द्विविधः ।एकावली -- ३२कारकदीपकं -- ३३कारणमाला -- ३४सा पूर्व्वपूर्व्वपदार्थानां कारणत्ववर्णनेन एवमुत्त-रोत्तरपदार्थानां कारणत्ववर्णनेन च द्विधा ।काव्यलिङ्गं -- ३५काव्यार्थापत्तिः -- ३६कैतवापह्नुतिः -- ३७गूढोक्तिः -- ३८चपलातिशयोक्तिः -- ३९चित्रं -- ४०तल्लक्षणानि“अल्पन्तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता” । १८“ताभ्यां तौ यदि न स्यातामवज्ञालङ्कृतिस्तुसा” । १९“विरुद्धभिन्नदेशत्वं कार्य्यहेत्वोरसङ्गतिः ।अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ॥
अन्यत् कर्त्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा” । २०“अपरांबोधनं प्राहुः क्रिययासत्सदर्थयोः” । अस्यार्थः ।कस्यचित् किञ्चित् क्रियाविशिष्टस्य स्वक्रियया-परान् प्रति असतः सतो वार्थस्य बोधनंवर्णनं । २१“असम्भवोत्थनिष्पत्तेरसम्भाव्यत्ववर्णनं” । २२“त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकं” । २३“आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।निषेधाभास आक्षेपं बुधाः केचन मन्वते ॥
आक्षेपोऽन्यो व्रिधौ व्यक्ते निषेधेच तिरोहिते” । २४“सम्भावनाः स्युरुत्प्रेक्षा वस्तुहेतुफलात्मता ।उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे” । २५“किञ्चिदाकूतसहितं स्याद्गूढोत्तरमुत्तरं” । २६“उदात्तमृद्धिरचितं श्लाघ्यमाल्योपलक्षणं” । २७“उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः” । २८“पर्य्यायेण द्वयोस्तच्चेदुपमेयोपमा मता” । २९“एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि” । ३०“बहुभिर्बहुधोल्लेखादेकस्योल्लेख ईष्यते ।एकोनबहुधोल्लेखोऽप्यसौ विषयभेदतः” । ३१“गृहीतमुक्तरीत्यार्थश्रेणीरेकावली मता” । ३२“क्रमिकैकगतानान्तु गुम्फः कारकदीपकं” । ३३“गुम्फः कारणमाला स्याद्यथा प्रक्रान्तकारणैः” । ३४“समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनं” । ३५“कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते” । ३६“कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः” । ३७“गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति कथ्यते” । ३८“चपलातिशयोक्तिस्तत्पौर्ब्बापर्य्यव्यतिक्रमः” । ३९“पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते” । ४०तदुदाहरणानि“मणिमालोर्म्मिका तेऽद्य करे जपवटायते” ॥
१८“स्वल्पमेवाम्बु लभते पान्थः प्राप्यापि सागरं ।मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः” ॥
१९“विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गना ।अपारिजातां वसुधां चिकीर्षन् द्यां तथाकृथाः ।गोत्रोद्धारप्रवृत्तो हि गोत्रोद्धारं पुराकरोः” ॥
२०“नश्येद्राजविरोधीति क्षीणं चन्द्रोदये पुनः” ॥
२१“को वेद गोपशिशुकः शैलमुत्पाटयिष्यति” ॥
२२“वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्व्वरी ॥
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखाबलाः” ॥
२३“चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखं ।नायं दूति तनोस्तापस्तस्याः कालानलोपमः ।गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्म्मम” ॥
२४“धूमस्तोमं तमः शङ्के कोकीविरहलक्षणं ।लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥
रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्ध्रुवं ।तन्मुखाभेच्छया नूनं पद्मैर्व्वैरायते शशी ॥
मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति” ॥
२५“यत्रासौ वेतसी पान्थ तत्रेयं सुतरां सरित्” ॥
२६“सासौ यत्राभवद्युद्धं तव धूर्ज्जटिनाऽर्ज्जुनः” ॥
२७“हंसीव भूपतेः क्रीर्त्तिः स्वर्णदीमवगाहते” ॥
२८“धर्म्मोऽर्थ इव पूर्णश्रीरर्थो धर्म्म इव त्वयि” ॥
२९“अपि मां पावयेत् साध्वी स्नात्वेतीच्छति जाह्नवी ॥
काठिन्यं कुचयोर्दृष्टं वाञ्छन्त्यः पादपद्मयोः ।निम्दन्ति विश्वधातारं त्वद्धाटीष्वरियोषितः ॥
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनं ॥
लाभोऽयमेव भूपाल सेवकानां न चेद्बधः” ॥
३०“स्त्रीभिः कामोऽर्थिभिः स्वद्रुः कालः शत्रुभिरैक्षि सः ।गुरुर्वचस्यर्जुनोऽयं कीर्त्तौ भीष्मः शरासने” ॥
३१“नेत्रे कर्णान्तविश्रान्ते कर्णौ दोःस्तम्भशासनौ ।दोःस्तम्भौ जानुपर्य्यन्तप्रलम्बनमनोहरौ ।जानुनी रत्नमुकुराकारे तस्य महीभुजः” ॥
३२“गच्छत्या गच्छति पुनः पान्थः पश्यति पृच्छति” ॥
३३“नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥
भवन्ति नरकाः पापाः पापं दारिद्र्यसम्भवं ।दारिद्र्यमप्रदानेन तस्माद्द्वानपरो भव” ॥
३४“जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः” ॥
३५“स जितन्त्वन्मुखेनेन्दुः का वार्त्ता सरसीरुहां” ॥
३६“निर्यान्ति स्मरनाराचा बालादृक्पातकैतवात्” ॥
३७“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः” ॥
३८“अग्रे मानो गतः पश्चादनुनीता प्रियेण सा” ॥
३९“मारमासुषमा चारुरुचा मारबधूत्तमा ।मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मारमा” ॥
४०अथालङ्कारनामानिचित्रकाव्यमनेकविधं यथा । पद्म-च्छत्र-धनुः-खड्ग-नागपाश-कवाट-नौका-बन्धाः । अश्वगति-त्रिपदी-गोमूत्रिकादयः ।छेकापह्नुतिः -- ४१तद्गुणः -- ४२तुल्ययोगिता -- ४३सा त्रिधा ।प्रथमा यथा --द्वितीया यथा --तृतीया यथा --दीपकं -- ४४दृष्टान्तः -- ४५निदर्शना -- ४६सा त्रिधा ।निरुक्तिः -- ४७परिकरः -- ४८परिकराङ्कुरः -- ४९परिणामः -- ५०परिवृत्तिः -- ५१परिसंख्या -- ५२पर्य्यस्तापह्नुतिः -- ५३पर्य्यायः -- ५४स द्विविधः ।पर्य्यायोक्तं -- ५५तत् द्विविधं ।पिहितं -- ५६पुनरुक्तवदाभासः -- ५७पूर्व्वरूपः -- ५८स द्विविधः ।प्रतिवस्तूपमा -- ५९प्रतिषेधः -- ६०प्रतीपं -- ६१तल्लक्षणभेदेन पञ्चविधं । न तु नामभेदेन ।प्रत्यनीकं -- ६२प्रस्तुताङ्कुरः -- ६३प्रहर्षणं -- ६४तत् त्रिविधं ।प्रौढोक्तिः -- ६५भाविकं -- ६६भाषासमावेशः -- ६७तल्लक्षणानि“छेकापह्नुतिरन्यस्य शङ्कातस्तस्य निह्नवे” । ४१“तद्गणः स्वगुणत्यागादन्यदीयगुणग्रहः” । ४२“वर्ण्यानामितरेषां वा धर्म्मैक्यं तुल्ययोगिता” ।“हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता ।गुणोत्कृष्टेः समीकृत्य वचोऽन्या तुल्ययोगिता” । ४३“वदन्ति वर्ण्यावर्ण्यानां धर्म्मैक्यं दीपकं बुधाः” । ४४“चेद्विम्बप्रतिविम्बत्वं दृष्टान्तस्तदलङ्कृतिः” । ४५“वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।पदार्थगर्भामप्यन्ये वदन्त्यन्यां निदर्शनां ॥
अपरां बोधनं प्राहुः क्रिययासत्सदर्थयोः” । ४६“निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनं” । ४७“अलङ्कारः परिकरः साभिप्रायविशेषणे” । ४८“साभिप्रायविशेष्यश्चेद्भवेत् परिकराङ्कुरः” । ४९“परिणामः क्रियार्थश्चेद्विषयी विषयात्मना” । ५०“परिवृत्तिर्व्विनिमयो न्यूनाभ्यधिकयोर्म्मिथः” । ५१“परिसंख्या निषिध्यैकमेकस्मिन् वस्तुयन्त्रणं” । ५२“अन्यत्र तस्यारोपार्थः पर्य्यस्तापह्नुतिस्तु सा” । ५३“पर्य्यायो यदि पर्य्यायेणैकस्यानेकसंश्रयः ।“एकस्मिन् यस्यनेकं वा पर्य्यायः सोऽपि सम्मतः” ॥
५४“पर्य्यायोक्तं तु गम्यश्चेद्वचोभङ्ग्यान्तराश्रयः ।पर्य्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनं” ॥
५५“पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितं” । ५६“आपाततो यदर्थ स्य पौनरुक्तावभाषणं ।पुनरुक्तवदाभासः स भिन्नाकारशब्दगः” ॥
५७“पुनः स्वगुणसंप्राप्तिः पूर्व्वरूपमुदाहृतं ।पूर्व्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि” ॥
५८“वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता” । ५९“प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्त्तनं” । ६०“प्रतीपमुपमानस्याप्युपमेयत्वकल्पनं ।अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ॥
वर्ण्योपमानलाभेन तथान्यस्याप्यनादरः ।वर्ण्येनान्यस्योपमाया अनिष्पत्तिर्वचश्च तत् ॥
प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते” । ६१“प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः” । ६२“प्रस्तुतेनं प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः” । ६३“उत्कण्ठितार्थसंसिद्धिर्व्विना यत्नं प्रहर्षणं ।वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणं ॥
यत्नादुपायसिद्धार्थात् साक्षाल्लाभः फलस्य तत्” ॥
६४“प्रौढोक्तिरुत्कर्षहेतौ तद्धेतुत्वप्रकल्पनं” । ६५“भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनं” । ६६“शब्दैरेकविधैरव भाषासु विविधास्वपि ।वाक्यं यत्र भवेत् सोऽयं भाषासम इतीष्यते” ॥
६७तदुदाहरणानि“प्रजल्पन् मत्पदे लग्नः कान्तः किं न हि नूपुरः” ॥
४१“पद्मरागायते नासामौक्तिकं तेऽधरत्विषा” ॥
४२“सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च ।त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते ।मालतीशशभृल्लेखा कदलीनां कठोरता ॥
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि” ॥
४३“मदेन भाति कलभः प्रतापेन महीपतिः” ॥
४४“त्त्वमेव कीर्त्तिमान्राजन् विधुरेव हि कन्तिमान्” ॥
४५“या दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥
नश्यद्राजविरोधीति क्षीणं चन्द्रोदये तमः” ॥
४६“ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्” ॥
४७“सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः” ॥
४८“चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः” ॥
४९“प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा” ॥
५०“ययावेकं शरं मुक्त्वा कटाक्षान् स रिपुस्त्रियाः” ॥
५१“स्नहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवां” ॥
५२“नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखं” ॥
५३“पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनप्रभा ॥
अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि” ॥
५४नमस्तस्मै कृतो येन मुधा राहुबधूकुचौ ॥
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह” ॥
५५“प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्” ॥
५६“भुजङ्गकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः ।जगन्त्यपि सदा पायादव्याच्चेतोहरः शिवः” ॥
५७हरकण्ठांशुलिप्तोऽपि शेषस्त्वकृशशासितः ॥
दीपे निर्व्वापितेऽप्यासीत् काञ्चीरत्नैर्मुहर्मुहुः” ॥
५८“तापेन भ्राजते सूर्य्यः शूरश्चापेन राजते” ॥
५९“न द्यूतमेतत् कितवाक्रीडनं निशितैः शरैः” ॥
६०“तल्लोचनसमं पद्मं तद्वक्त्रसदृशो विधुः ।अलं गर्व्वेण ते वक्त्रकान्त्या चन्द्रो भवादृशः ।कः क्रौर्य्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ।मिथ्यावादो हि मुग्धाक्षि त्वन्मुखाभं किलाम्बुजं ।दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दना” ॥
६१“जैत्रनेत्रानुगौ कर्णवुत्पलाभ्यामधःकृतौ” ॥
६२“किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकस्थया” ॥
६३“तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका ॥
दीपमुद्दीपयेद्यावत्तावदभ्युदितो रविः ॥
निध्यञ्जनौषधीमूलं खनतासादितो निधिः” ॥
६४“कचाः कलिन्दजातीरतमालस्तोममेचकाः” ॥
६५“अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः” ॥
६६“गुञ्जन्मणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।विरसासि केलिकीरे किमालि धीरे च गन्धसार-समीरे” ॥
६७अथालङ्कारनामानिभेदकातिशयोक्तिः -- ६८भ्रान्तापह्नुतिः -- ६९भ्रान्तिमान् -- ७०मालादीपकं -- ७१मिथ्याध्यवसितिः -- ७२मीलितं -- ७३मुद्रा -- ७४यथासंख्यं -- ७५यमकं -- ७६युक्तिः -- ७७रत्नावली -- ७८रूपकं -- ७९तत् द्विविधं । अभेदरूपकं । ताद्रूप्यरूपकञ्च ।तच्च समन्यूनाधिक्यकथनद्वारा प्रत्येकं त्रिविधं ।समाभेदरूपकं । न्यूनाभेदरूपकं । अधिकाभेद-रूपकं । समताद्रूप्यरूपकं । न्यूनताद्रूप्यरूपकं ।अधिकताद्रूप्यरूपकं । एतेन षड्विधं ।रूपकातिशोक्तिः -- ८०ललितं -- ८१लुप्तोपमा -- ८२सा चाष्टधा । वाचकलुप्ता । धर्म्मलुप्ता । उपमान-लुप्ता । धर्म्मवाचकलुप्ता । वाचकोपमेयलुप्ता ।वाचकोपमानलुप्ता । धर्म्मोपमानलुप्ता । धर्म्मो-पमानवाचकलुप्ता ।लेशः -- ८३लोकोक्तिः -- ८४वक्रोक्तिः -- ८५विकल्पः -- ८६विकस्वरः -- ८७विचित्रं -- ८८विधिः -- ८९विनोक्तिः -- ९०लक्षणभेदेन सा द्विविधा ।विभावना -- ९१अस्या लक्षणाण्युदाहरणानि च षट् ।विरोधः -- ९२स दशधा ।तल्लक्षणानि“भेदकातिशयोक्तिः स्यात् तस्यैवान्यत्वकल्पनं” । ६८“भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे” । ६९“स्यात् स्मृतिर्भ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । ७०“दीपकैकावलीयोगान्मालादीपकमुच्यते” । ७१“किञ्चिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनं” । ७२“मीलितं यदि सादृश्याद्भेद एव न दृश्यते” । ७३“सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः” । ७४“यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः” । ७५“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते” । ७६“युक्तिः पराभिसन्धानं क्रियया मर्म्मगुप्तये” । ७७“क्रमिकाप्रकृतार्थानां न्यासं रत्नावलीं तिदुः” । ७८“विषय्यभेदताद्रूप्यरञ्जनं विषयश्च यत्” ।“रूपकं तत् त्रिधाधिक्यन्यनत्वानुभयोक्तिभिः” ॥
७९“रूपकातिशयोक्तिः स्यात् निगीर्य्याध्यवसानतः” ।अस्यार्थः । विषयसम्बन्धेन उल्लेखनं विना विषयि-वाचकशब्देन ग्रहणं विषयनिगरणं तत्पूर्व्वकंविषयस्य विषयिरूपतया अध्यवसानं तस्मिन्सति रूपकातिशयोक्तिः” । ८०“प्रस्तुते वर्ण्यवाक्यार्थप्रतिविम्बस्य वर्णनं” । ८१“वर्ण्योपमानधर्म्माणामुपमावाचकस्य च ।एकद्वित्र्यनुपादानात् भिन्ना लुप्तोपमाष्टधा” ॥
८२“लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनं” । ८३“लोकप्रवादानुकृतिं लोकोक्तिरिति कथ्यते” । ८४“वक्रोक्तिः श्लेषकाकुभ्यामपूर्व्वार्थप्रकल्पनं” । ८५“विरोधे तुल्यबलयोर्व्विकल्पालङ्कृतिर्म्मता” । ८६“यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः” । ८७“विचित्रं तत्प्रयत्नश्चेत् विपरीतफलेच्छया” । ८८“सिद्धस्यैव विधानं यत्तामाहुर्व्विध्यलङ्कृतिं” । ८९“विनोक्तिः स्याद्विना किञ्चित् प्रस्तुतं हीनमुच्यते ।तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते” ॥
९०“विभावना विनापि स्यात्कारणं कार्य्यजन्म चेत् ।हेतूनामसमग्रत्वे कार्य्योत्पत्तिश्च सा मता ॥
कर्य्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ।अकारणात् कार्य्यजन्म चतुर्था स्याद्विभावना ॥
विरुद्धात् कार्य्यसम्पत्तिर्दृष्टा काचिद्विभावना ।कार्य्यात् कारणजन्मापि दृष्टा काचिद्विभावना” ॥
९१“जातिश्चतुर्भिर्ज्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।क्रियाक्रियाद्रव्याभ्यां यत् द्रव्यं द्रव्येण वा मिथः ।विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः” ॥
९२तदुदाहरणानि“अन्यदेवास्य गाम्भीर्य्यमन्यद्धैर्य्यञ्च भूपतेः” ॥
६८“तापं करोति सोत्कम्पं ज्वरः किन्नु सखे स्मरः” ॥
६९“अयं प्रमत्तो मधुपस्त्वन्मुखं वेत्ति पङ्कजं” ॥
७०“स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः” ॥
७१“मिथ्याध्यवसितिर्व्वेश्यां वशयेत् खस्रजं वहन्” ॥
७२“रसो नालक्षि लाक्षायाश्चरणे सहजारुणे” ॥
७३“नितम्बगुर्व्वी तरुणी दृग्युग्मविपुला च सा” ॥
७४“शत्रुं मित्रं विपत्तिञ्च जय रञ्जय भञ्जय” ॥
७५“नवपलाशपलाशवनं पुरःस्फुटपरागपरागतपङ्कजं ।मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सु-मनोभरैः” ॥
७६“त्वामालिखन्तिदृष्ट्वान्यां धनुः पौष्पंकरेऽलिखत्” ॥
७७“चतुरास्यः पतिर्लक्ष्म्याः सर्व्वज्ञस्त्वं महीपते” ॥
७८“अयं हि धूर्ज्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ।अयमास्ते विना शम्भुस्तार्त्तीयैकं विलोचनं ॥
शम्भुर्व्विश्वमवत्यद्य स्वीकृत्य समदृष्टितां ।अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥
साध्वीयमपरा लक्ष्मीरसुधासागरोत्थिता ।अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते” ॥
७९पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति सिताः शराः” ॥
८०“ललितं निर्गते नीरे सेतुमेषा चिकीर्षति” ॥
८१“तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्म्मम ।कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥
यत् त्वया मेलनं तत्र लाभो मे यश्च तद्रतेः ।तदेतत् काकतालीयमवितर्क्कितसम्भवं” ॥
८२“अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ।“शुक पञ्जरबन्धस्ते मधुराणां गिरां फलं” ॥
८३“सहस्व कतिचिन्मासान्मीलयित्वा विलोचने” ॥
८४“मुञ्च मानं दिनं प्राप्तं नेह नान्दी हरान्तिके” ॥
८५“सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः” ॥
८६“स न जिग्ये महान्तो हि दुर्द्दशाः सागरा इव” ॥
८७“नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिं” ॥
८८“पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्” ॥
८९“विद्या हृद्यापि सा विद्या विना विनयसम्पदं ।विना खलैर्व्विभात्येषा राजेन्द्र भवतः सभा” ॥
९०“अपलाक्षारसासिक्तं रक्तं ते चरणद्वयं ।अस्त्रैरतीक्ष्णकठिनैर्ज्जगज्जयति मन्मथः ॥
नरेन्द्रानेव ते राजन् दशत्यसिभुजङ्गमः ।शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतः ॥
शीताङ्गकिरणास्तन्वीं हन्त सन्तापयन्ति तां ।यशःपयोराशिरभूत् करकल्पतरोस्तव” ॥
९१“तव विरहे मलयमरुद्दावानलः शशिरुचोऽपिशोषमणिः । हृदयमनिरुतमपि भिन्ते नलिनी-दलमपि निदाघरविरस्याः ॥
सन्ततमुषलासङ्गा-द्बहुतरगृहकर्म्मघटनाया नृपते । द्विजषत्नीनांअथालङ्कारनामानिविरोधामाषः -- ९३विवृतोक्तिः -- ९४विशेषः -- ९५स त्रिविधः ।विशेषोक्तिः -- ९६विषमं -- ९७तत् त्रिविधं ।विषादनं -- ९८व्याघातः -- ९९स द्विविधः ।व्याजनिन्दा -- १००व्याजस्तुतिः -- १०१स द्विविधः ।व्याजोक्तिः -- १०२व्यतिरेकः -- १०३शुद्धापह्नुतिः -- १०४श्लेषः -- १०५स च त्रिविधः । प्रकृतानेकावषयः १ अप्रकृता-नेकविषयः २ प्रकृताप्रकृतानेकविषयः ३ ।सदर्थनिदर्शना -- १०६सन्देहः -- १०७समं -- १०८तत् त्रिविधं ।समाधिः -- १०९समासोक्तिः -- ११०समुच्चयः -- १११स द्विविधः ।सम्बन्धातिशयोक्तिः -- ११२लक्षणभेदेन सा द्विधा ।सम्भावनं -- ११३सहोक्तिः -- ११४सामान्यं -- ११५सारः -- ११६सूक्ष्मं -- ११७न्तोकोक्तिः -- ११८स्वभावोक्तिः -- ११९तल्लक्षणानि“आभाषत्वं विरोधस्य विरोधाभाष इष्यते” । ९३“विवृतोक्तिः श्लेषगुप्तं कविनाविष्कृतं यदि” । ९४“विशेषः ख्यातमाधारं विनाप्याधेयवर्णनं ।विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते ॥
किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः” । ९५“कार्य्याजनिर्विशेषोक्तिः सति पुष्कलकारणे” । ९६“विषमं वर्ण्यते यत्र घटनाननुरूपयोः ।विरूपकार्य्यस्योत्पत्तिरपरं विषमं मतं ॥
अनिष्टस्याप्यवाप्तिश्चेत्तदिष्टार्थसमुद्यमात्” । ९७“इष्यमाणविरुद्धार्थसंप्राप्तिश्च विषादनं” । ९८“स्याद्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् ।सौकार्य्येण निबद्धापि क्रियाकार्य्यविरोधिनः” । ९९“निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गोयते” । १००“उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यांस्तुतिनिन्दयोः” । १०१“व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनं” । १०२“व्यतिरेको विशेषश्चेदुपमानोपमेययोः” । १०३“शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म्मनिह्नवः” । १०४“नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रयः” । १०५“विभावनं समृद्धानां फलं सुहृदनुग्रहः” । १०६“स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । १०७“समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।सारूप्यमपि कार्य्यस्य कारणेन समं विदुः ।विना यत्नेन तत्सिद्धिर्यदर्थः कर्त्तुमुद्यमः” । १०८“समाधिः कार्य्यसौकर्य्यं कारणान्तरसन्निधेः” । १०९“समासोक्तिः परिस्फूर्त्तिः प्रस्तुते प्रस्तुतस्य चेत्” । ११०“बहूनां युगपद्भाजां भावगुम्फः समुच्चयः ।अहं प्रथमिकाभाजामेककार्य्यान्वयोऽपि सः” । १११“सम्बन्धातिशयोक्तिः स्यादयोगे योगकल्पनं ।योगेप्ययोगसम्वन्धातिशयोक्तिरितीर्य्यते” । ११२“सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये” । ११३“सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः” । ११४“सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः” । ११५“उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते” । ११६“सूक्ष्मं पराशयाभिज्ञे तरसाकूतचेष्टितं” । ११७“स्तोकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भिता” । ११८“स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनं” । ११९तदुदाहरणानि ।कठिनाः सति भवति कराः सरोजकुमाराः ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्व-पतो जागरूकस्य याथार्थ्यं वेद कस्तव ॥
वल्लभोत्-सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरी-जानिर्व्विषज्वालाकुलो भवेत् ॥
नयनयुगासेचनकंमानसवृत्त्यापि दुष्प्रापं । रूपमिदं मदिराक्ष्यामदयति हृदयं दुनोति च मे” ॥
९२“विनापि तन्वि हारेण वक्षोजौ तव हारिणौ” ॥
९३“वृषापेहि परक्षेत्रादिति वक्ति स सूचनं” ॥
९४“गते सूर्य्येऽपि द्वीपस्थास्तमश्छिन्दन्ति तत्कराः ।अन्तर्वहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणं” ॥
९५“हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि” ॥
९६“क्वेयं शिरीषमृद्वङ्गी क्व तादृङ्मदनज्वरः ।कीर्त्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥
भक्षाशया हि मञ्जूषां दृष्ट्याखुस्तेन भक्षितः” ॥
९७“दीपमुद्दीपयेद्यावत्तावन्निर्व्वाण एव सः” ॥
९८“यैर्जगत् प्रीयते हन्ति तैरेव कुसुमैः स्मरः ।दया चेद्बाल इति मय्यपरित्यज्य एव ते” ॥
९९“विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः” ॥
१००“कः स्वर्धुनि विवेकस्ते नयसे पापिनो दिवं ॥
साधु दूति पुनः साधु कर्त्तब्यं किमतः परं ।यन्मदर्थे विलूनासि दन्तैरपि नखैरपि” ॥
१०१“सखि पश्य गृहारामपरागैरस्मि धूसरा” ॥
१०२“शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमलाः” ॥
१०३“नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहं” ॥
१०४“सर्व्वतो माधवः पायात् स यो गङ्गामदीधरत् ॥
अब्जेन त्वन्मुखं तुल्यं हरिणा हतशक्तिना ।उच्चरद्भूरिकोलालः शुशुभे वाहिनीपतिः” ॥
१०५“उदयन्नेव सविता पद्मेष्वर्पयति त्विषं” ॥
१०६“पङ्कजं वा सुधांशुर्व्वेत्यस्माकन्तु न निर्णयः” ॥
१०७“स्वानुरूपं कृतं पठ्महारेण कुचमण्डलं ॥
नीचप्ररमता लक्ष्मि जलजायास्तवोचिता ॥
युक्तो वारणलाभोऽयं भूपतेर्वारणार्थिनः” ॥
१०८“उत्कण्ठिता च कुलटा जगामास्तञ्च भानुमान्” ॥
१०९“अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः” ॥
११०“नश्यन्ति पश्चात् पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥
लं शीलं वयो विद्या धनञ्च मदयत्यमुं” ॥
१११“सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलं ।त्वयि दातरि राजेन्द्र स्वर्द्रुमान्नाद्रियामहे” ॥
११२“यदि शेषोऽभवद्वक्ता कथिताः स्युर्गुणास्तव” ॥
११३“दिगन्तमगमत्तस्य कीर्त्तिः प्रत्यर्थिभिः सह” ॥
११४“मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्च्चिताः ।अविभाव्याः सुखं यान्ति चन्द्रिका अभिसारिकाः” ॥
११५“मधुरं मधु पीयूषं तस्मात् तस्मात् कवेर्वचः” ॥
११६“मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्” ॥
११७“भुजङ्ग एव जानीते भुजङ्गाचरणं सखे” ॥
११८“कुरङ्गैरन्तराङ्गाक्षैः स्तब्धकर्णैः समीक्ष्यते” ॥
११९अथालङ्कारनामानिस्मतिमान् -- १२०हेतुः -- १२१स द्विविधः ।हेत्वपह्नुतिः -- १२२
वाचस्पत्यम्
Sanskritअलङ्कार अलम् + कृ--भावे घञ् । १ भूषायाम् । करणे घञ् ।२ हारादौ भूषणे, साहित्यविषयदोषगुणप्रतिपादके ३ ग्रन्थे, ४ शब्दभूषणे--अनुप्रासादौ, ५ शब्दार्थभूषणे--उपमादौ च ।“शब्दार्थयोरस्थिरा ये धर्म्माः शोभातिशायिनः । रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” सा० द० उक्तम् शब्दा-र्थयोः शोभाकारित्वम् तल्लक्षणम् । ते च बहवः शब्दनिष्ठाअर्थनिष्ठाः उभयनिष्ठाश्च । तत्रं जात्यादयः शब्दनिष्ठाःउपमादयोऽर्थनिष्ठाः पुनरुक्तवदाभासादय उभयनिष्ठाःतत्तदन्वयव्यतिरेकाभ्यां तथात्वम् शब्दनिष्ठास्तु बहवस्तेषुकेचित् तत्तच्छब्दे उक्ताः केचित् वक्तव्याश्च तद्भेदा-स्तावत् समासेनात्राभिधीयन्ते तत्र जात्यादयश्चतुर्विंशतिःशब्दालङ्काराः सरस्वतीकण्ठाभरणे दर्शिताः यथा “ये व्युत्-पत्त्यादिना शब्दानलङ्कर्त्तुमिह क्षमाः । शब्दालङ्कारसंज्ञास्तेज्ञंयाजात्यादयोबुधैः” । “जातिर्गतीरीतिवृत्तिच्छाया-मुद्रोक्तियुक्तयः । भणितिर्गुम्फना लप्या पठितिर्यमकानिच । श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका । गूढप्रश्नो-त्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः । चतुर्विंशतिरित्युक्ताः शब्दा-लङ्कारजातयः” । तेषां लक्षणादीनि क्रमेण यथा तत्र१ जातिः “तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते । सात्वौचित्यादिभिर्व्वाचामलङ्काराय जायते संस्कृतेनैव के-ऽप्याहुः प्राकृतेनैव केचन । साधारण्यादिभिःकेचित्केचन स्त्रेछभाषया । न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्रा-कृतं वदत् । संकीर्ण नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् ।देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः । पैशाचाद्यंपिशाचाद्या मगधं होनजातयः । संस्कृतेनैवकोऽप्यर्थः प्राकृ-तेनैव चापरः । शक्योरचयितुं कश्विदपम्रंशेन जायते” ।तत्र जातिरपि षोढा यथोक्तं तत्रैव । “शुद्धा साधारणीमिश्रा सङ्कीर्ण्णा रम्यगामिनो । अपभ्रष्टेति साचार्य्येजातिःषोढा निगद्यते” । इति जातिः १२ गतिः । “गद्यं पद्यं च मिश्रं च वाक्यं यत् सागतिः स्मृता । अर्थौचित्यादिभिः साऽपि वागलङ्कार इष्यते ।कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते । कश्चिदेकेन चद्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः । द्रुता विलम्बिता मध्यासाथ द्रुतविलम्बिता । द्रुतमध्या च विज्ञेया तथा मध्य-विलम्बिता । सा लघूनां गुरूणाञ्च बाहुल्याल्पत्व-मिश्रणैः । गद्ये पद्ये च मिश्रे च षट् प्रकारोऽपिजायते । तत्र वृत्तं च जातिञ्च पद्यमाहुरथो पृथक् ।समञ्चार्द्धसमं चेति विषमञ्च प्रचक्षते” । “वृत्तमक्षरसंख्यातंजातिर्मात्राकृता भवेदिति” वृ० र० । “गद्यमुत्कलिकाप्रायंपद्यगन्धीतिच द्विधा । द्विधैव गद्यपद्यादिभेदान्मिश्रमपी-ष्यते । ललितं निष्ठुरं चूर्ण्णमाविद्धं चेति योऽपरः ।विशेषः सतु गद्यस्यो रीतिवृत्त्योर्विशिष्यते” । गतिः २ ।३ रीतिः यथा “वैदर्भ्यादिगतः पन्थाः काव्ये मार्गइति स्मृतः । रीङ् गताविति धातोश्च व्युत्पत्त्या रीति-रुच्यते । वैदर्भी साथ पाञ्चाली गौडियावन्तिका तथा ।लाटीया मागधी चेति षोढा रीतिर्निगद्यते । तत्रास-मासा निःशेषश्लेषादिगुणगुम्फिता । विपञ्चीस्वरसौभाग्यावैदर्भी रीतिरिष्यते” । दर्पणे तु “माधुर्य्य व्यञ्जकैर्वर्ण्णै रचनाललितात्मिका अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते”लक्षिता । “समस्तपञ्चषपदामोजःकान्तिविवर्ज्जिताम् ।मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः । समस्तात्युद्भ-टपदामोजःकान्तिगुणान्विताम् गौडीयेति विजानन्तिरीतिं रीतिविचक्षणाः । अन्तराले तु पाञ्चालौवैदग्ध्योर्यावतिष्ठते । सावन्तिका समस्तैः स्याद् द्वित्रैस्त्रिचतुरैस्तथा ।ममस्तरीतिव्यामिश्रा लाटीया वृत्तिरिष्यते । पूर्व्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी” । रीतिः ३ ।४ वृत्तिः यथा । “या विकाशेऽथ विक्षेपे संकोचे विस्तरेतथा । चेतसो वर्त्तयित्री स्यात् सा वृत्तिः सापि षड्विधा ।कौशिक्यारभटी चैव भारती सात्वती परा । मध्यमारभटी चैव तथा मध्यमकौशिकी । सुमुकुरार्थसंदर्भा कौशिकीतासु कथ्यते । यातु प्रौढार्थसंदर्भा वृत्तिरारभटी तु सा ।कोमलप्रौढसन्दर्भा कोमलार्था च भारती । प्रौढार्थकोम-लप्रौढसंदर्भां सात्वतीं विदुः । कोमलप्रौढसन्दर्भा या सामध्यमकौशिकी । प्रौढार्थकोमलैर्बन्धैर्मध्यमारभटीष्यते । ४५ छाया । अन्योक्तीामनुकृतिश्छाया सापीहषड्विधा । लोकच्छेकार्भकोन्मत्तप्रोढामत्तोक्तिभेदतः” । ५६ मुद्रां । “स्वाभिप्रायस्य वाक्ये यद्वचसापि निवे-दनम् । मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ।सास्मिन् पदस्य वाक्यस्य विभक्तेर्वचनस्य च । समुच्चयस्यसंवृत्त्या षोढा न्यासेन जायते” । मुद्रा ६७ उक्तिः । “विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः ।प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते । विधेरथ निषेधात् स्यादधिकारात् विकल्पनात् । नियमात् परिसंख्यायाउपाधेः सेह षड्विधा” । उक्तिः ७८ युक्तिः । “अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः ।योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः । पदं चैवपदार्थश्च वाक्यं वाक्यार्थ एव च । विषयोऽस्याः प्रकरणंप्रबन्धश्चाभिधीयते । योगकारणपर्य्यायाङ्गाङ्गिमावपरम्पराः ।पदयुक्तेर्निमित्तं स्युर्निरूढाः पदसिद्धये । विरुद्धानां पदा-र्थानां गत्यादीनां परस्परम् । योजनायेह तां युक्तिंपदार्थविषयां विदुः । गर्भः सह निगर्भेण संवृत्तिः समम-ञ्जसा । हेतवो वाक्ययुक्तीनां क्रियन्तामेवमादयः । यत्तदा-देरुपादानं क्रियाभ्याससमुच्चयौ । क्रियासमभिहारश्च वाक्यार्थान् युञ्जते मिथः । यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये ।वाक्यं सेह प्रकरणविषया युक्तिरिष्यते प्रबन्धविषयाप्येवंयुक्तिरुक्ता मनीषिभिः” । युक्तिः ८९ भणितिः । “उक्तिप्रकारो भणितिः सम्भवेऽसम्भवेच सा । विशेषसंवृत्त्याश्चर्य्यकल्पनासु च कल्पते” । भणितिः ९१० गुम्फना । “वाक्ये शब्दार्थयोः सम्यग्रचना गुस्फनास्मृता । शब्दार्थसमपर्य्यायपदवाक्यकृता च सा” । गुम्फना १०११ लप्या । “लप्येत्याहुः पदार्थानां घटना या पर-स्परम् । सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् ।अतिक्रान्तेन कुत्रापि यथार्थवर्ण्णयोः क्वचित् । क्वचित्वाच्यार्थयोः क्वापि प्रकीर्ण्णानां च दृश्यते” । लप्या १११२ पठितिः “काकुस्वरपदच्छेदभेदाभिनयकान्तिभिःपाठोयोऽर्थविशेषाय पठितिः सेह षड्विधा” । पठितिः १२१३ यमकम् । “विभिन्नार्थकरूपाया याऽवृत्ति-र्वर्ण्णसंहतेः । अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते ।तदव्यपेतयमकं व्यपेतयमकं तथा । स्थानास्थानविभागाभ्यांपादभेदाच्च भिद्यते । तत्र पादादिमध्यान्तस्थाना-न्तेषु प्रकल्प्यते । यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः ।चतुस्त्रिद्येकपादेषु यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्व्वतः । अत्यन्तं बहवस्तेषां भेदाःसंभेदयोनयः सुकरा दुष्कराश्चैव, ” अग्निपुराणे तु ।अनेकवर्ण्णावृत्तिर्या भिन्नार्थप्रतिपांदिका । यमकं सा व्यपेतचाव्यापेतेति द्विधा मता । आनन्तर्य्यादपेता स्यात् व्यपेताव्यवधानतः । द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः । सर्व्वथापूर्व्वपूर्व्वेण चेत्यादिनोत्तरोत्तरम् । एकद्वित्रिपदार-म्भात्तत्पादात्तद्पदात् परम् । तृतीयं त्रिविधंपादस्यादिमध्यान्तगोचरम् । पादान्तयमकं चैव कोष्ठीय-मकमेव च । संसर्गयमकं चैव विक्रान्तयमकं तथा । यमकंचक्रबालं च संदशयमकं तथा । पादादियमकं चैव तत्तुमैत्रीयमेव च । दशधा यमकं श्रेष्ठं तद्भेदाबहवोऽपरे”इत्युक्तम् । तत्रास्थानयमकमुक्तं “नादौ न मध्येनान्ते यत् सन्धौ वा यत् प्रकाशते । अव्यपेतव्यपेतं तद-स्थानयमकं विदुः । पादे श्लोके च तत्प्रायः पादसन्धौ चबध्यते । स्वभेदे च चान्यभेदे च स्थूलं सूक्ष्मं चसूरिभिः” । अन्यदग्निपुराणादौ ज्ञेयम् । यमकम् १३१४ श्लेषः “एकंरूपेण वाक्ये न द्वयोःस्मारणमर्थयोः ।तन्त्रेण यत् स शब्दज्ञैः श्लेष इत्यभिघीयते । प्रकृति-प्रत्ययोत्थौद्वौ विभक्तिवचनाश्रयौ । पदभाषोद्भवौ चेतिशब्दश्लेषा भवन्ति षट्” । १४ श्लेषः१५ अनुप्रासः । “आवृत्तिर्या तु वण्णानां नातिदूरा-न्तरस्थिता । अलङ्कारेषु विद्वद्भिरनुप्रासः स दर्श्यते”“श्रुतिभिर्वृत्तिभिर्वर्ण्णैः पदैर्नामभिरुक्तिभिः । लाटानामुक्ति-भिश्चायं षट्प्रकारः प्रकाशते” तत्र श्रुत्यनुप्रासः१७८ पृष्ठे दर्शितः । स च त्रिविधः ग्राम्योनागर उपनागर-श्चेतिभेदात् । ग्राम्योऽपि चतुर्विधः मसृणोऽमसृणोवर्ण्णोत्कटो वर्ण्णानुत्कटश्चेति भेदात् । वृत्त्यादीनां लक्षणानितत्रैव । “मुहुरावर्त्त्यमानेषु यः स्ववर्गेषु वर्त्तते ।काव्यव्यापी स संदभो वृत्तिरित्यभिधीयते । कार्ण्णाटीकौन्तली कौङ्की कौङ्कणी वानवासिका । द्राविडी माथुरीमात्सी मागधी ताम्रलिप्तिका । औड्री पौण्ड्रोति विद्वद्भिःसा द्वादशविधोच्यते” । तत्र कवर्गेणानुप्रासवती कार्ण्णाटी एवंचवर्गेण कौन्तली, टवर्गेण कौङ्की, तवर्गेण कौङ्कणी, पवर्गेणवानवासिका, यवर्गेण, द्राविडी । शवर्गेण माथुरी, द्वित्रि-वर्गानुप्रासवती मात्सी । द्वाभ्यां गर्भिर्तककवर्गानुप्रासवतीमागधी । स्वान्त्यसंयोगिकवर्गानुप्रासवती ताम्रलिप्तिका ।स्वरूपसंयोगिग्रथिता औड्री । अस्वरूपसंयोगिग्रथितापौण्ड्री । अन्थे तु “स्पर्शादीनामसम्बन्धः सम्बन्धोवापियोमिथः स्फुटादिबन्धसंसिद्ध्यै सेह वृत्तिर्निरुच्यते । सौकु-मार्य्यमथ प्रौढिर्मन्धुरत्वञ्च तद्गुणौ । गम्भीरौजस्विनीप्रौढा मधुरा निष्ठुरा श्लथा । कठोरा कोमला मिश्रापरुषा ललिता मिता । इति द्वादशधा भिन्ना कविभिः परि-पठ्यते” इत्याहुः । “यथा चम्पकपुष्पादिस्रगादेर्वर्ण उच्यतेवर्ण्णावृत्तिस्तथा वाचां वर्ण्णानुप्रास उच्यते । स तु स्तवकवान्स्थानी गर्भोविवृतसंवृतः । गृहीतमुक्तः क्रमवान् विपर्य्य-स्तोऽथ संपुटम् । मिथुनं वेणिका चित्रोविचित्रश्चापिवर्ण्यते” । स्थानेस्थाने वर्ण्णस्तवकस्य विन्यासात् स्तवकवान् ।नियतविवक्षितस्थानविशेषे विन्यासशाली स्थानी । आवृत्तौवर्ण्णान्तरायेण गर्भः । स्थानेस्थाने विकाशसङ्कोचायांविव्र्तसंवृतः । चक्रवालवद्दानोपादानाभ्यां गृहीतमुक्तः ।क्रमेण द्वित्रवर्ण्णानां संयोगखराणामावृत्तिः क्रमवान् ।खरसंयोगवर्ण्णानां क्रमेणावृत्तिश्च क्रमवान् । विपर्य्ययो-पन्यासात् विपर्य्ययः । आद्यवर्ण्णवर्त्तिना स्वरेण सहपादमध्यान्तयोरनुप्रासः संपुटम् । अन्तः पादसुपसंहारो-पक्रमयोर्विवक्षितस्वरानुप्रासे मिथुनम् । आ वाक्यसमाप्तेःवर्णानुप्रासनिर्वाहो वेणिका । उक्तलक्षणेभ्योऽन्यश्चित्रः ।एकवर्ण्णावृत्तेर्वृत्त्यनुप्रासस्थवर्ण्णान्तरवैचित्र्येण विचित्रः ।“समग्रमसमग्रं वा यस्मिन्नावर्त्तते पदम् । पदाश्रयेणस प्रायः पदानुप्रासौच्यते । विसर्गविन्दुसंयोगस्वरस्थानाविवक्षया । अनिर्वाहाय स प्रायो यमकेभ्यो विभि-द्यते” “मसृणोदन्तुरः श्लक्ष्णः संपुटं सम्पुटावली । खिन्नःस्तवकवान् स्थानो मिथुनं मिथुनावली । गृहीतमुक्तना-मान्यस्ततोऽन्यः पुनरुक्तिमान् । इति द्वादशभेदोऽयं मनी-षिभिरिहोच्यते” । असंयुक्त वर्ण्णावृत्तेः पदानुप्रासो मसृणः ।संयोगाधिक्ये दन्तुरः । स्वरेण सहावृत्तेः श्लक्ष्णः । पदा-व्यवधाने संपुटम् । तेषामावली संपुटावली । रीतेरनिर्वा-हात् खिन्नः ॥
वर्ण्णानुप्रासवत् पदानुप्रासोऽपि स्याने स्थानेनिवेशे स्तवकवान् । स्थाननियमात् पदानुप्रासः स्थानी ।प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोः निरन्तरमावृत्तिर्मिथुनं तदावली मिथुनावली । चक्रवालवत् पदानुप्रासोगृहीतमुक्तः पदानां पुनः पुनरावर्त्तने पुनरुक्तिमान् ।“स्वभावतश्च गौण्या च वीप्साऽभीक्ष्ण्यादिमिश्च सा ।नाम्नां द्विरुक्तिर्वाक्ये तु नामानुप्रास उच्यते” । आदिनानिमूलसंभ्रमादि गृह्यते । “अर्थभेदे पदावृत्तिः प्रवृत्त्याभिन्नयाथ वा । स सूरिभिरनुप्रासोलाटीय इति गीयते ।सचाव्यवहितो व्यस्तः समस्त उभयःपुनः । उभयं चक्र-वालञ्च गर्भश्चेहाभिधीयते” ॥
अनुप्रासः १५ ।१६ चित्रम् “वर्ण्णस्थानस्वराकारगतिबन्धान् प्रतीह यः ।नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते” ॥
स्वरस्यपृथक्निर्द्देशात् वर्ण्णा अत्र व्यञ्जनानि एकव्यञ्जनद्विवञ्जनत्रिव्यञ्जनादिभेदात् नानाविधः एवमेकद्वित्रादिस्वरचित्रम् ।स्थानचित्रम् । निष्कण्ठ्यनिस्तालव्यादिभेदात् सप्तविधम्आकारचित्रम् पद्माद्याकारेण चित्रम् । तत्राष्टदलपद्म चित्रम्“कण्णि कायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च । प्रवेश-निर्गमौ दिक्षु कुर्य्यादष्टदलाम्बुजे” प्रकारान्तरं यथा ।“अष्टधा कार्णिकावर्णाः पत्रेष्वष्टौ तथाऽपरे । तेषां सन्धिषुचाप्यष्टावष्टपत्रसरोरुहे” । प्रकारान्तरं यथा । “आकर्णिकंपुनः पर्णपर्णान्तात् पर्ण्णकर्णिके । प्रतिपत्रं व्रजेद्धीमानिहत्वष्टदलाम्बुजे” इति चतुर्द्दलं यथा “कर्णिकातो नयेदूर्द्ध्वंपत्राकाराक्षरावलीम् । प्रवेशयेत् कर्णिकायां पद्ममेत-च्चतुर्दलम्” । षोडशदलं यथा “गोमूत्रिकाक्रमेणास्य वर्णाःसर्व्वे समासतः । मध्ये त्वेकाक्षरन्यासात् पद्मोऽयं षोडश-च्छदः” अष्टपत्रं कविनामाङ्कं यथा “निविष्टाष्टदलन्यासमिदं पादार्द्धभक्तिभिः । अस्पृष्टकर्ण्णिकं कोणैः कविनामाङ्क-मम्बुजम् । एतानि चित्राणि अनुष्टुप्छन्दस्येव । चक्रबन्धोयथा “पुरः पुरोलिखेत् पादानत्र त्रीनुत्तरीकृतान् । तुर्य्यन्तुभ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधः” । अस्योद्धारोदर्शितोमाघव्याख्यायां मल्लिनाथेन । दशमण्डलरेखात्मकेनवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकविंशतिकीष्ठं प्रत्येकं द्व्यक्षरवत् पङ्क्तित्रयं समरेखया लिंखित्वातत्रैकस्यां पङ्क्तौ वामपार्श्वक्रमेण आद्यपादमालिख्य तथाप्रादाक्षिणेन द्वितीयायां तृतीययां च पङ्क्त्यां द्वितीय तृतीयौपादौ लिखित्वा नेमिस्थाने वाह्यवलये साक्षरकोष्ठषट्केनसहाष्टादशकोष्ठवति तृतीयकोष्ठान्तवर्त्तिवर्ण्णमारभ्य प्राद-क्षिण्येन तुर्य्य पादं लिखित्वा तत्रैव समापयेत् । तत्रैवमाद्यन्तवर्ण्णैः तुर्य्यपादोद्वारः तत्रनेमिस्थाने आद्य-पादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे तुर्य्याद्यन्त-वर्ण्णयोः संवादः” यथा “सत्त्वं मानविशिष्टमाजिरभ-सादालम्ब्य भव्यः पुरो लब्ध्वाघक्षयशुद्धिरुद्धुतरश्रीवत्सभूमिर्मुदा । मुक्त्वा काममपास्तभीः परमृगव्याधः सनादंहरेरेकोघैः समकालमभ्रमुदयी रोपैस्तदा ततस्तरे” ।अत्र तृतीयवलये “माघकाव्यमिदम्” । “षष्ठवलये, शिशु-पालबधः इति काव्यनामाङ्गयोगः । एवमन्यत्रापि यथा-यथमूह्यम् गतिचित्रं गत्याविलोमगत्या तुरङ्गादिगत्यावा चित्रं तच्च यमकभेद एव यथोक्तं दण्डिना ।“आवृत्तिः प्रातिलोम्येन पादार्द्धश्लोकगोचरा । यमकं प्रति-लोमत्वात् प्रतिलोममिति स्मृतम्” तत्र पादगता विलोमावृत्तिर्यथा “यामताशकृतायासा सायाता कृशता मया” ।रमणारकता तेऽस्तु स्तुते ताकरणामर” अर्ड्वगता यथा ।“सा रमानवरारोहा नगेभागमना हि या । याहि नामग!भागेन हारोरा वनमार सा” श्लोकगा यथा । “यानमानय मारावि कशोनानजनासना । यामुदारशताघीनामायामायमनादि सा । सादिनामयमाया मानाधीताशरदाऽमुया । नासना जनना शोकविरामाय नमानया” ॥
तथाच पादविलोमावृत्तौ अयुक्पादयो-र्गतिः युकपादयोः प्रत्यागतिः । अर्द्धावृत्तौ प्रथमपादाभ्यांगतिः शेषाभ्यां प्रत्यागतिरिति गतिप्रत्यागतिरूपचित्रमित्य-वधेयम् । श्लोकावृत्तौ तु पादचतुष्टयेन गतिः प्रतिगत्याश्लोकान्तरमिति भेदः । इत्येवं गतिचित्रम् । तुरङ्कगति-चित्रं यथा “क्रमात् पादचतुष्कस्य पङ्क्तिशः परिलेखने ।तुरङ्गपादायातेन श्लोकोऽन्यौपजायते” स० क० । यथा ।वा१ ला३० सु९ का२० ल३ वा२४ ला११ सा२६का१६ न्ति१९ ला२ ल२९ क१० ला२७ लि४ ता२३स३१ स्वा८ सु१७ त१४ व२१ ती६ सा२५ रा१२द१८ र्पि१५ का३२ व्र७ त२८ ग१३ र्द्धि२२ त५अत्र तुरङ्गगत्या “बालाललिततीव्रस्वा सुकला रागतर्पिका ।सुदन्तिका वर्द्धिता ता वा सा साला तललासका इतिदत्ताङ्कानुसारेण क्रमशोवर्ण्णग्रहणे श्लोकोऽयं जायते ।अर्द्धभ्रमगतिचित्रं सर्वतोभ्रमतिगचित्रञ्च यथा ।“आहुरर्द्धभ्रमं नाम श्लोचाद्धभ्रमणं यदि । तदिष्टं सर्व्व-तोभद्रं सर्व्वतोभ्रमणं यदि” स० क० । तत्रार्द्धभ्रममुक्तं३६५ पृष्ठे । सर्वतोभद्रं तु--दे वा का नि नि का वा देवा हि का स्व स्व का हि वाका का रे भ भ रे का कानि स्व भ व्य व्य भ स्व निअत्रार्द्धभ्रमणवत् सर्व्वं किन्तु पादानामपि अनुलोमविलो-माभ्यां तथैव सर्वतोभ्रमणेन सर्व्वतोभद्रम् एवमग्रे दर्शयिष्यमाणगोमूत्रिकाबन्धोऽपि गोमूत्रगतिमत्त्वात् गतिचित्रमपि ।बन्धेन बन्धविशेषेण चित्रम् बन्धचित्रं तच्च नानाविधं तत्रद्विचतुष्कचक्रबन्धो यथा “इह शिखरिसन्धिमालां बिभृ-यादर्द्धं समाश्रितैर्वर्णैः । द्विचतुषकचक्रबन्ध नेमि-विधौ चापरं भ्रमयेत्” । द्विशृङ्गाटकबन्ध । “शृङ्गग्रन्थःशृङ्गव्रजेदिति द्विशृङ्गाटकबन्धोऽस्सिन्नेमिः” । निविडि-तचक्रबन्धः । “शिखरादन्यतरस्मात् प्रतिपब्बे भ्रमतिरेस्वा चाद्यर्द्धम् । नेमौ तदितरमर्द्धे निविडितचक्राभिधेबन्धे” । स० क० एतेषामुद्धारोदाहरणे तत्रैव ज्ञेये । शर-पत्रबन्धः “चतुर्ष्वपि च पादेषु पङ्क्तिशोलिखितेष्विह ।आदेरादेस्तुरङ्गस्य पादैः पादः समाप्यते” । यथान१ म१८ स्ते३ ज२० ग५ तां२२ गा५ त्र२४स९ दा२६ न११ व२८ कु१३ ल३० क्ष१५ य३२स१७ म२ स्ते१९ ज४ स२१ तां६ ना२३ त्र८मु२५ दा१० म२७ व१२ न२९ ल१४ क्ष३१ य१६अत्र तुरङ्गगत्या स एव श्लोकः । व्योमबन्धः । “अष्टादशशिखरचरीं गोमूत्रिकया चतुष्पदीं न्यस्येत । पत्राद्यन्तैर्दृष्टःस ज्ञेयो व्योमबन्धोऽत्र”मुरजबन्धः । “अत्र पादचतुष्केऽपि क्रमशः परि-लेखिते । श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी” ।सा१ से१० ना११ ग२८ म२९ ना१९ र१८ म्भे८र९ से२ ना२७ सो१२ द२० ना३० र७ ता१७ता१६ र२६ ना३ द१३ ज२१ ना६ म३१ त्त२४धी२५ र२५ ना१४ ग४ म५ ना२२ म२३ या३२तदुद्धारस्तु मल्लिनाथेन दर्शितः “तिर्य्यग्रेखालिखेत् पञ्चनवोर्द्धास्तत्र पङ्क्तयः । अष्टकोष्ठाश्चतस्रः स्युस्तासु श्लोकंलिखेत् क्रमात् । तत्राद्यद्वित्रितुर्यासु तुर्य्यत्रिद्व्या-द्यपङ्क्तिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्ठगः ।दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपङ्क्तिप्राथम्या-त्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वित्र्योर्द्वितुर्य्येत्रितुरीयके । तुर्य्यत्रिद्व्योस्तृतीयाद्ये द्रष्टव्योऽङ्घ्रिर्द्वितीयकः ।तृतीयोऽङ्घ्रिर्द्वितीयान्ते आद्यसप्तमषष्ठयोः । द्वित्रिपञ्चमयोस्तुर्य्यषष्ठसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्यो-यमथान्यः क्रम उच्यते ॥
आद्यन्तयुग्मयोः पङ्क्त्योश्चि-न्त्योगोभूत्रिकाक्रमः । कृत्वैकं च द्वितीयं द्वे द्वयनेकमितिक्रमात् । यद्वा दितयमेकं च द्वयमेकं द्वयं पुनः ।स्वपङ्क्तिप्रक्रमादेव विन्यासद्वितयं भवेत् ॥
यद्वा प्रथम-तुर्य्याङ्घ्री स्वपङ्क्त्योस्तदनुक्रमात् । द्वितीयोऽङ्घ्रिर्द्विती-यस्यां क्रमादाद्यचतुष्टये । व्युत्क्रमाच्च तृतीयस्यामाद्यमेवचतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ।द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये ॥
बिन्यासभेदास्त्व-न्येपि सन्त्येव बहबोऽत्र हि । विस्तरात्तु न लिख्यन्तेस्वयमूह्या विचक्षणैः” ॥
एकाक्षरमुरजो यथा । “श्लोक-स्यैकस्य पादेषु लिखितेषु चतुर्ष्वपि । त्रिमृदङ्गकरीहस्याच्चतुरेकाक्षरावली” । मुरजप्रस्तारो यथा । “क्रमेणैकस्यपादेषु प्रसृतेषु चतुर्ष्वपि । तुर्य्यान् मुरजमार्गेण श्लोको-यमुपजायते” । गोमूत्रिकाबन्धः । “गतिरुच्चावचा यत्रमार्गे मूत्रस्य गोरिव । गोमूत्रिकेति तत् प्राहुः दुष्करंचित्रवेदिनाम् । स० क० तच्च नानाविधं दर्शितम् ।“दुष्करत्वात् कठोरत्वात् दुर्बोधत्वादिना विधेः । दिङ्-मात्रं दर्शितं चित्रं स्वयमूह्यं महात्मभिः” स० क० ।“अनेकधा वृत्तवर्णविन्यासैः शिल्पकल्पना । तत्तत्प्रसिद्ध-वस्तूनां चित्रमित्यभिधीयते इति सामन्यतः सर्ववस्त्वा-करकल्पनया चित्रं भवतीत्युक्तम् अग्निपु० । १६१७ वाकोवाक्यम् “उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यंविदुर्बुधाः । द्वयोर्वक्तोस्तदिच्छन्ति बहूनामपि सङ्गमे ।ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च । गूढप्रश्नोत्तरो-क्तिश्च तद्भिदा त्रिविधैव तु” वाकोवाक्यम् १९ ।१८ प्रहेलिका । “प्रहेलिका सकृत्प्रश्नः सापि षोढात्त्युताक्षरा । दत्ताज्ञरोभयं मुष्टिर्विन्दुमत्यर्थवत्यपि ।क्रीडागोष्ठीविनोदेषु तज्ज्ञेयाकीर्णमण्डले । परव्या-मोहने चापि सोपयोगा प्रहेलिका” । तत्र “चुताक्षरा“पयोधरभराक्रान्ता सन्नमन्ती पदे पदे । पदमेकं न कायाति, यदि हारेण वर्जिता” । अत्राहारेणेत्याकारच्युतिःदत्ताक्षरा यथा । “कान्तयानुगतः कोऽयं पोनस्कन्धोमदोद्यतः । मृगाणां पृष्ठतो याति, शम्बरो रूढयौवनः” ।शवर इति वक्तव्ये मकारो दत्तः । च्युतदत्ताक्षरा च्युतमन्यत्दत्तञ्चान्यदक्षरं यत्र सा यथा “विदग्धः सरसोरागी नितम्बोपरि संस्थितः । तरण्यालिङ्गितः कण्ठेकलं कूजति को, विटः । अत्र घट इति वक्तव्येघकारस्य च्युतिः विकारस्य दानमिति तथात्वम् । विन्दु-मत्यादीनामुदाहरणानि स० क० दृश्यानि । प्रहेलिका १८ ।१९ गूढम् । “क्रियाकारकसम्बन्धपदाभिप्रायवस्तुभिः ।गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिभिः । “पाण्डवानांसभामध्येदुर्य्योधन उपागतः । तस्मै गाञ्च हिरण्यञ्च सर्व्वा-ण्याभरणानि च” । अत्र क्रियापदम् गूढम् । योऽधनउपागतस्तस्मै गवादिकमदुरित्यर्थः । गूढम् १९२० प्रश्तोचरम् । “यस्तु पर्य्यनुयोनस्य निर्भेदः क्रियतेपदैः । विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुःअन्तःप्रश्नबहिप्रश्नबहिःरन्तःममाह्वयैः । जातिगोत्रोत्तरा-भिख्यैः प्रश्नैस्तदपि षड्विधम् । प्रश्नोत्तरम् । २०२१ अध्येयम् “यद्विघौ च निषेधे च व्युत्पत्तेरेव कारणम् ।तदध्येयं विदुस्तेन लोकयात्रा प्रवर्त्तते” । अध्येयम् २१२२ श्रव्यम् “श्रव्यं शास्त्रेतिहासौ च काव्यं शास्त्रंतथैव च । काव्येतिहासः शास्त्रेतिहासस्तदपि षड्वि-धम्” । यथा रघुवंशादि । श्रव्यम् । २२२३ प्रेक्ष्यम् “यदाङ्गिकैकनिवर्त्त्यमुज्झितं वाचिका-दिभिः । नर्त्त कैरभिनीयेत प्रेक्ष्यं तत् क्ष्वेडितादिवत् ॥
तल्लास्यं ताण्डवं चैव छलिकं शम्पया सह । हल्लीसकञ्च रासंच षट्प्रकारं प्रचक्षते” । शृङ्गाररसप्रधानत्वे लास्यं वीर-रसप्रधानत्वे ताण्डवं, शृङ्कारवीररसप्रधानत्वे छलिकमितिकिन्वरविषयं छलिकमेव शम्पा । “मण्डलेन च यत्स्त्रीणांनृत्यं हल्लीसकं तु तत् । तन्नायको भवेदेको गोपस्त्रीर्णाहरिर्यथा । तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तोरासः । प्रेक्ष्यम् २३ ।२४ अभिनयः “अङ्गवाक्सत्वसंहार्थ्याः सामान्याश्चित्रइत्यमी । षड्घा अभिनयास्तद्वदभिनेयं वचो विदुः” । २४“चत्वारो विंशतिश्चैताः शब्दालङ्कारजातयः । शब्द-संदर्भमात्रेण हृदयं हर्तुमीशते” सर० कण्ठा० ।एतेषामुदाहरणानि विस्तरभयात् न लिखितानि ततएवावगन्तव्यानि । अर्थालङ्कारास्तु मतमेदेन बहवः तथाहितेषां समष्टिः दण्डिना दर्शिता यथा । “स्वरूपाख्यान-मुपमा रूपकं दीपकावली । आक्षेपोऽर्थान्तरन्यासोव्यतिरेको विभावना । समासोऽतिशयोत्प्रेक्षा हेतुःसूक्ष्मो लवः क्रमः । प्रेयोरसवदूर्जस्वि पर्यायोक्तंसमाहितम् । उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता ।विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने । सहोक्तिःपरिवृत्त्याशीःसङ्कीर्ण्णमथ भाविकम् । इति वाचामल-ङ्कारा दर्शिताः पूर्व्वसूरिभि” । सरस्वतीकण्ठाभरणे-तु द्वैराश्येन तेषां समष्टिरभिहिता यथा “अलमर्थमल-ङ्कर्त्तुं यत् व्युत्पत्त्यादिवर्त्मना । ज्ञेया जात्यादयःप्राज्ञैस्तेऽर्थालक्षारसंज्ञया । जातिर्विभावना हेतुरहेतुसृक्ष्ममुत्तरम् । विरोधमम्भवान्योन्यं परिवृत्तिर्निदर्शना ।भेदः समाहितं भान्तिर्वितर्को मीलितं स्मृतिः । भाव०प्रत्यक्षपूर्व्वाणि प्रमाणानि च जैमिनेः” । प्रत्यक्षानुमानोप-मानार्थापत्त्यभावरूपाणि षट् इति चतुर्विंशतिः । एतेतु अर्थमात्रनिष्ठाः । “शब्देभ्योयः पदार्थेभ्य उपमादि-प्रतीयते विशिष्टोऽर्थः कवीनां सा उभयालङ्क्रिया मता ।उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः । समाध्युक्तिःसमासोक्तिरुत्प्रेक्षाऽप्रस्तुतस्तुतिः । सतुल्ययोगितोलेशःससहोक्तिः समुच्चयः । आक्षेप्रोऽर्थान्तरन्यासो विशेषोक्तिःपरिष्कृतिः । दीपकक्रमपर्य्याया विषमश्लेषभाविकःसंसृष्टिरिति निर्द्दिष्टास्ताश्चतुर्विंशतिर्बुधैः” इत्युक्ता तेषांलक्षणानि सभेदं तत्रेव दर्शितानि चन्द्रालोकदर्पणकृदादिभिश्च सामान्यतोऽगणयित्वा नानाविधा दर्शिताःन संक्षेपतो गणिताः । अथार्थालङ्कारा एकत्र संगृह्यसोदाहरणलक्षणा अकारादिक्रमेण तेषु केचित् दर्शिताअपि क्रमानुरोधात् सर्वएवात्र प्रदर्श्यन्ते ।१ अक्रमातिशयोक्तिः “अक्रमातिशयोक्तिः स्यात् सहत्वे हेतु-कार्य्ययोः” च० । “आलिङ्गन्ति ससं देव! ज्यां परांश्चशरास्तव” ।२ अतद्तुणः “सङ्गतानुगत्यनङ्गीकारमाहुरतद्गुणम्” च० । “चिरंरागिणि मच्चित्ते निहितापि न रज्यसि” ।३ अतिशयोक्तिः १०५ पृष्ठे उक्तलक्षणोदाहरणा ।४ अत्यन्तातिशयोक्तिः “अत्यन्तातिशयोक्तिस्तु कार्य्यहेतुप्रसक्ति-जा” च० । “यास्यामीत्यदिते तत्व्या बलयोऽभवदूर्म्मिका” ।ऊर्म्मिका बलयोऽभवदिन्वयः कृशत्वात्तथात्वम् ।५ अत्युक्तिः “अत्युक्तिरद्भुताऽतथ्यशौर्य्योदार्य्यादिवर्ण्णनम्” च०“त्वयि दातरि राजेन्द्र! याचकाः कल्पशास्विनः” ॥
याचकानांराजतोधनलाभेन कल्पतरुतुल्यताकथनमौदार्य्यस्यात्य्युक्तिः ।६ अधिकम् १२५ पृष्ठे लक्षणोदाहरणभेदाः उक्ताः ।७ अनन्वयः १४९ पृष्ठे उक्तलक्षणोदाहरणः ।८ अनुकूलम् “अनुकूलं प्रतिकूलमानुकूल्यानुबन्धिचेत्” च० ।“कुपिताऽसि यदि तन्वि । निधाय करजक्षतम् । बधानभुजपाशाभ्यां कण्ठमस्य दृढं तदा” ।९ अनुगुणः “प्राक्सिद्धः स्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” च० ।“नोलोद्पलानि दधते कटाक्षैरतिनीलताम्” ।१० अनुज्ञा “दीषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्” च० ।“मय्येव जीर्ण्णतां यातु यत्त्वयेह कृतं हरे! । नरः प्रत्युप-कारार्थं विपत्तिमभिकाङ्क्षति” ।११ अनुमानम् “अनुमानन्तु विच्छित्त्या ज्ञानं साध्यस्य साध-नात्” च० । “यत्र पतत्यबलानां दृष्टिनिशिताः पतन्ति तत्रशराः । तच्चापरोपितशरो धावत्यासां पुरःस्मरो मन्ये” ।स० क० विशेष उक्तः । यथा “लिङ्गाद्यल्लिङ्गिनोज्ञातमनु-मानं तदुच्यते । पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च तत् ।फलसामर्थ्यभेदेन द्विधैतत् भिद्यते पृथक्” । तेषु यत्र कार-णं दृष्ट्वा कार्य्यमनुमीपते तत् पूर्ववत् । “अविरलविलोलगल-ज्जलकुटजार्ज्जुननीपसुरभिवनवातः । अयमायातः कालोहन्त हताः पथिकगेहिन्यः” अत्र वर्षर्त्तोः कारणभूतात्कार्य्यं विरहिणीमरणमनुमीयते । यत्र कार्यं दृष्ट्वाकारणमनुमीयते तच्छेषवत् । “मामागमिष्यन्नूनंपतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे याव-कार्द्रतिलकपङ्रियम्” । अत्र कार्यभूतथा यावकतिलक-पङ्क्त्या कारणं पादपतनमनुमीयते । यदुभयविधभिन्नंतत् सामान्यतो दृष्टम् “मत्ता मदान्धस्य शिखण्डियूनो-वृष्टेः पुरस्तादचिरप्रभेव” । सेयं विद्युदिव वृष्टेः प्रथममु-पलभ्यमाना कामन्दकी अविनाभावेन मालत्यागमनंगमयतीति सामान्यतो दृष्टम् । फलसामर्थ्ययोरुदाहर-णानि तत्र दृश्यानि ।१२ अन्योन्यम् “अन्योन्यं नाम यत्र स्यादुपकारः परस्वरम्”च० । “त्रियामा शशिना भाति शशी भाति त्रियामया” ।स० क० भेद उक्तः । “अन्योन्यस्योपकारोयस्तदन्योन्यंत्रिधा च तत् । वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम्!अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यरूपता । अन्योन्याल-ङ्कृतावन्तस्त्रयमेतदिहेष्यते” । तत्र वाच्यम् । “कण्ठस्यतस्यास्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्यो-न्यशोभाजनाद्बभूव साधारणो भूषणभूष्यभावः । प्रती-यमानन्तु अत्रैवान्योन्यपदानुपादाने । अन्योन्यचूलिकाअन्योन्यरूपपरिवृत्तिः सा च व्यत्ययेन विनिमयेन चभवति । यथा “लोचनाधरकृताहृतरागा वासिताननविशेषितवासा । वारुणी परगुणात्मगुणानां व्यत्ययंविनिमयञ्च वितेने” । अत्र वारुण्या यदधररागोऽपहृत्यचक्षुषि निक्षिप्तस्तेन व्यत्ययः । यच्च मुखामोदवासितया तयास्वामोदो विशेषितस्तेन विनिमयः तेन परिवृत्तिविनि-मयाख्यावलङ्कारावत्रान्तर्भूताविति द्रष्टव्यम् ।१३ अपह्नवातिशयोक्तिः “रूपकातिशयोक्तिः स्यात् निगीर्य्याध्य-वसानतः । यदाऽपह्नुतिगर्भत्वम् सैव सापह्नवा मता ।” च०“त्वत्सूक्तिषु सुघा राजन्! भ्रान्ताः पश्यन्ति तां विधौ” ।१४ अपह्नुतिः २४१ पृष्ठे उक्तलक्षणोदाहरणा । स० कण्ठा०अन्यथोक्तम् । “अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्श-नम्, औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते” तत्रऔपम्यवती यथा “न केतकीनां विलसन्ति सूचयः प्रवा-सिनो हन्त हसत्ययं विधिः । तडिल्लतेयं न चकास्तिचञ्चला पुरःस्मरज्योतिरिदं विजृम्भते “तत्र केतकीसूचीनांविधिहासतः प्रतीयमानसादृश्येन तडिल्लतायाः स्मरज्यो-तिषापह्वुतिः । अनौपम्या यथा “राजकन्यानुरक्तं मांरोमोद्भेदेन रक्षकाः । अवगच्छेयुराज्ञातमहो शीतानिलंवनम्” नचात्र सादृश्यमस्ति ।१५ अप्रस्तुतप्रशंसा २६४ पृष्ठे उक्तलक्षणोदाहरणा ।१६ अभावः । “असत्ता या पदार्थानामभावः सोऽभिधीयते ।प्रागभावादिमेदेन स षड्विध इहेष्यते । स० क० प्रागभावःध्वंसः अत्यन्ताभाव मिथ्यापदार्थाभाव इतरेतराभावः अभा-वाभावाश्च तत्र ध्वंसो यथा “धृतिरस्तमिता गतिश्चुताविरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यंशयनीयमद्य मे” । इतरेतराभावो यथा । “कर्णोत्पलं नचक्षुस्ते न चक्षुः श्रवणोत्पलम् । इति जानन्नपि जनोमन्यते नेत्रदीर्धताम्” असत्याभावः यथा “प्रसीदसद्यो मुञ्चेमं चण्डि! मानं मनोगतम् । दृष्टमात्रेऽपि तेतत्र रोषः स्वकुसुमायते” । सामर्थ्याभावो यथा । “मानु-षीषु कथं वा स्यादस्य रूपस्य सम्भवः । न प्रभातरलज्योति-रुदेति वसुधातलात्” अन्योदाहरणानि तत्रैव दृश्यानि ।१७ अभिदाहेतुः “अभेदेनाभिदाहेतुर्हेतोर्हेतुमता सह” । च०“लक्षमीविलासो भवतः कटाक्षवेक्षणं प्रभो”!१८ अर्थान्तरन्यासः, ३७१ पृष्ठे उक्तोदाहरणलक्षणः ।१९ अर्थापत्तिः, ३७२ पृष्ठे उक्तलक्षणोदाहरणा । स० कण्टा०“प्रत्यक्षादिप्रतीतोऽर्थोयोऽन्यथा नोपपद्यते । अर्थान्तरञ्चगसयत्यर्थापत्तिं वदन्ति ताम् । सर्व्वप्रमाणपूर्व्वत्वादेकशोऽनेकशश्च सा । प्रत्यक्षपूर्व्वि केत्यादिभेदैः षोढा नि-गद्यते । प्रत्यक्षपूर्ब्धिका यथा “निर्ण्णेतुं शक्यमस्तीतिमध्यं तव नितम्बिनि! । अन्यथानुपत्त्यैव पयोधरभरस्थितेः” ।अनुमापूर्व्विका यथा “कपोलपुलकेनास्याः सूचितोमदनज्वरः । मनो निरन्तरासक्तः सद्यःकथयति प्रिये”योऽयं कपोलपुलकेनानुमितो मदनज्वरः स प्रिये मनसःनिरन्तरासक्तिं विनानुपपद्यमानः अनुरागं कल्पयतीत्यनु-मानपूर्विकार्थापत्तिः एवामन्या उदाहार्य्याः ।२० अल्पम् “अल्पन्तु सूक्षयादाधेयाद्यदाधारस्य सूक्ष्मता” ।“मणिमालोर्म्मिका तेऽद्य करे जपवटायते” ।२१ अवज्ञा “वृद्धिहानी न चेत् स्यातामवज्ञालङ्कृतिश्च” सा न ।“स्वल्पमेवाम्बु लभते पान्थः प्राप्यापि सागरम्” “मीलन्तियदि पद्मानि का हानिरमृततद्युतेः” ।२२ असङ्गतिः “विरुद्धभिन्नदेशत्वं कार्य्यहेत्वोरसङ्कतिः १ ।अन्यत्र कारणार्थस्य ततोऽन्यत्र कृतिश्च या २ । अन्यत्कर्त्तुं प्रवृत्तौ च तद्विरुद्धकृतिश्च या ३” च० । क्रमेणोदा-हरणानि । “विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गना १” ।“अपारिजाताम् वसुधां चिकीर्षन् द्यां तथाऽकृथाः” २ ।अपगतमरिजातं यस्याः नास्ति पारिजातो यत्रं इतिच । “गोत्रोद्धारप्रवृत्तोहि गोत्रोद्धारं पुराऽकरोः ३ ।गोत्रा पृठ्वी गोत्रः पर्वतश्च ।२३ असम्भवः “असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम् ।” च०“कोवेद गोपशिशुकः शैलमुत्पाटयिष्यति” ।२४ आक्षेपः “आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् १ ।निषेधाभासमाक्षेपं बुधाः केचन मन्वते२ । आक्षेपोऽन्यो-विधौव्यक्ते निषेधे च तिरोहिते३” । च० “चन्द्र! संदर्श-यात्मानमथवास्ति प्रियामुखम्” १ । “नायं दूति! तनोस्तापस्तस्याः कालानलोपमः २” । “गच्छ गच्छसि चेत्कान्त! पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैवभूयाद्यत्र गतो भवान्” । ३२५ आगमः “यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया । उत्तमंमध्यमं चाथ जघन्यं चेति तत् त्रिधा” । स० क० तत्रो-त्तमं विधिरूपं निषेधरूपञ्च । विधिरूपं यथा “दमं दानंदयां शिक्षे” रित्यादौ दाम्यत दत्त दयध्वं इति विधिः ।निषेधरूपं यथा “निवार्य्यतामालि! किमप्ययं वटुः पुनर्विवक्षुःस्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषतेशृणोति तस्मादपि यः स पापभाक्” । तथाच महान्तोनापभाषितव्या इति वाक्यार्थमर्य्यादया निषेधरूप उप-देशः । तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् । मध्यम-मपि द्विधा निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकञ्च तत्राद्यं यथा“कल्याणी वत गाथेयं लौकिकीं प्रतिभाति मे । एतिजीवन्तमानन्दो नरं वर्षशतादपि” अत्र जीवन्नरः पश्यतिभद्रमित्यर्थो निर्दिष्टवक्तृकतया निर्दिष्टः तत्र जीवनाययतितव्यमिति रूपमाप्तवचनम् । “अक्षे वसति पिशाचोपिचुमर्द्दे दिनपतिर्वटे यक्षः । विश्राम्यति पद्मे श्रीस्तिष्ठतिगौरी मधूकतरौ” तदिदमनिर्द्दिष्टवक्तृकमनादिलोकप्रसिद्ध-पारम्पर्य्यमैतिह्यम् । अत्र सर्व्ववाक्यानां निषेधपर्य्यवसानात्अक्षं न सेवेत, पिचुमर्द्दं न निन्देत, वटं न छिन्द्यात्, पद्मं मूर्द्ध्नि न बिभूयात्, मधूकं न पदा स्पृशेत्” इति नि-षेधचतुष्टयरूपआगमः । जघन्यं द्वेधा काम्यं निषिद्धं च ।तत्र निषिद्धविषयबिधिर्यथा “वयं बाल्ये बालांस्तरुणि-मनि यूनः, परिणतानपीच्छामो वृद्धा, परिणयविधान-स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुमकाण्डेन विधिनान नो गोत्रे पुत्रि! क्वचिदपि सतीलाञ्छनमभूत्” तदे-तन्निषे धरूपम् निषिद्धविषयमाप्तवचनमसतीवचनरूपम् ।२६ आशीः “आशीर्नामाभिलषिते वस्तुन्याशंसनं यया” । दण्डी“पातु वः परमं ज्योतिरवाङ्मनसगोचरम्” ।२७ उत्तरम् “किञ्चिदाकूतसहितं यद्गूढोत्तरमुत्तरम्” च० ।“यत्रासौ वेतसी पान्थ! तत्रासौ सुतरा सरित्” ।२८ उत्प्रेक्षा “सम्भावनाः स्युरुत्प्रेक्षावस्तुहेतूद्भवाः पुनः । उक्ता-नुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे” । च० “धूमस्तोमं तमःशङ्के कोकीविरहलक्षणम्” “लिम्पतीव तमोऽङ्गानि वर्षती-वाञ्जनं नभः” “रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्ध्रुवम्” । “त्वन्मुखाभेच्छया नूनं पद्मेवैरायते शशी” “मध्यः किंकुचयोर्धृत्यै बद्धः कनकदामभिः” “प्रायोऽब्जं त्वत्पदेनैक्यंप्राप्तुं तोये तपस्यति” । दर्पणे तु अन्यथा विभज्य उदा-हृतम् यथा “भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना ।वाच्या प्रतीयमाना सा प्रथमं विविधा मता वाच्ये-वादिप्रयोगेस्यादप्रयोगेऽपरा पुनः । जातिर्गुणः क्रियाद्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि । तदष्टघापि प्रत्येकं भावा-भावाभिमानतः । गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्चताः । द्वात्रिं शद्विधतां यान्ति” । तत्र वाच्योत्प्रेक्षा-यामुदाहरणं दिङ्मात्रं यथा ॥
“ऊरुः कुरङ्गकदृशश्च-ञ्चलचेलाञ्चलोभाति । सपताकः कनकमयोविजयस्तम्भःस्मरस्येव” ॥
अत्र विजयस्तम्भस्य जातिवाचकत्वाज्जात्यु-त्पेक्षा ॥
“ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविप-र्य्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव” ॥
अत्रसप्रसवत्वं गुणः ॥
“गङ्गाम्भसि सुरत्राण! कृपाणस्तवनिःस्वनः । स्नातीवारिबधूवर्गगर्भपातनपातकी” ॥
अत्रस्नातीति क्रिया ॥
“मुखमेणीदृशोभाति पूर्णचन्द्र इवापरः” ॥
अत्र चन्द्रैत्येकव्यक्तिवाचित्वाद्द्रव्यम् । एते भावाभि-माने च । अभावाभिमाने यथा ॥
“कपोलफलकावस्य कण्ठंभित्त्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतांगतौ” ॥
अत्रापश्यन्ताविति क्रियाया अभावः । एवमन्यत् । निमित्तस्य गुणक्रियारूपत्वे यथा गङ्गाम्भसीत्यादौस्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः । अपश्यन्ताविवे-त्यादौ क्षामतागमनरूपं निमित्तं क्रिया एवमन्यत् ।प्रतीयमानोत्प्रेक्षा यथा ॥
“तन्वङ्ग्याः स्तनयुग्मेन मुखं नप्रकटीकृतम् । हाराय गुणिने स्थानं नदत्तमितिलज्जया” ॥
अत्र लज्जयेवेति इवाद्यभावात् प्रतीयमानो-त्प्रेक्षा एवमन्यत् । अत्र वाच्योत्प्रेक्षायां षोडण्सुभेदेषु मध्ये विशेषमाह “तत्र वाच्याभिदाः पुनः ।विना द्रव्यं त्रिधा सर्व्वाः खरूपफलहेतुगाः”तत्रीक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्येये वाच्योत्प्रेक्षयोः षोडशभेदास्तेषु जात्यादीनां त्रयाणांये द्वादशभेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेद-तया षट्त्रिंशद्भेदाः द्रव्यस्य स्वरूपोत्प्रे क्षणमेव संभवतीतिचत्वार इति मिलित्वा चत्वारिंशद्भेदाः । अत्र स्वरूपोत्प्रेज्ञा यथा पूर्व्वोदाहरणेषु “स्मरस्य विजयस्तम्भ” इतिसप्रसवा इवेत्यादयः जातिगुणरूपाः । फलोत्प्रेक्षा यथा ॥
“रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः । विवेश भुवमाख्यातुमुरगेभ्यैव प्रियम्” ॥
अत्राख्यातुमिति भूप्रवेशस्यफलं क्रियारूपमुत्प्रेक्षितम् ॥
हेतूत्प्रेक्षा यथा ॥
“सैषा स्थलीयत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमूर्व्याम् । अदृश्यतत्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्” ॥
अत्र दुष्खरूपो-गुणोहेतुत्वेनोत्प्रेक्षितः । एवमन्यत् । “उक्त्यनुक्त्योर्निमित्तस्यद्विधा तत्र स्वरूपगाः” । तेषु चत्वारिंशत्संख्याकेषु भेदेषुमध्ये येस्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपा-दानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट् पञ्चा-शद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्तस्योपादाने यथापूर्व्वोदाहृते स्नातीवेत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम् ।अनुंपादाने यथा “चन्द्रैवापरः” इत्यत्र तथाविधसौन्दर्य्या-द्यतिशयोनोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपा-दानमेव तथाहि विश्लेषदुष्खादिवेत्यत्र यन्निमित्तं बद्धमौ-नत्वम्, आख्यातुमिवेत्यत्र च भूप्रवेशस्तयोरनुपादाने अस-ङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षीडशसु भेदेषुविशेषमाह “प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः” ।यथोदाहृते तन्वङ्ग्यास्तनयुग्मेनेत्यत्र लज्जयेवेति हेतुरुत्प्रे-क्षितः अस्यामपि निमित्तस्यानुपादानं न सम्भवतिईवाद्यनुपादाने निमित्तस्य च कीर्त्तने उत्प्रेक्षणस्य प्रमातु-र्निश्चेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाप्यत्र न भवति धर्म्म्यन्तर-तादात्भ्यनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्य-तिशयोक्तेरभ्युपगमात् यथा ॥
“अयं राजाऽषरः पाक-शासन” इति ॥
विशेषणाभावे च रूपकस्य, यथा “राजा पाकशासन” इति तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा । “उक्त्य-नुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा” । ता उत्प्रेक्षाः ।उक्तौ यथा ॥
“ऊरुः कुरङ्गकदृश” इति ॥
अनुक्तौ यथाप्रभावत्याम् ॥
“इह हि संप्रति दिगन्तमाच्छादयतातिमिरपटलेन । घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमद-क्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम्” ॥
अत्राञ्जनेन षटितत्वादेरुत्प्रेक्षणीयस्य विषयो व्याप्तत्वंनोपात्तं यथा वा ॥
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनंनभः” ॥
अत्र तमसोलेपस्य व्यापनरूपोविवयोनोपात्तःअञ्जनवर्षणस्य तमःसंपातः, अनयोरुत्प्रेक्षानिमित्तञ्चतमसोऽतिबहुलत्वं धारावर्षणाधःसंयोगश्च यथासंङ्ख्यम् ।केचित्तु अलेपनकर्तृ भूतमपि तमोलेपनकर्तृत्वेनोत्प्रेक्षितंव्यापनञ्च निमित्तम् एवं नभोपि वर्षणक्रियाकर्तृत्वेनेत्याहुः । “अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं बहेत्”तत्र सापह्नवोत्प्रेक्षा यथा । “अश्रुच्छलेन सुदृशोहु-तपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्गे विगलतिलावण्यवारिपूर इव” । श्लेषहेतुगा यथा । मुक्तोत्-करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः । जानीमहेऽस्याः कमनीयकम्बुग्रोवाधिवासाद्गुणवत्त्वमाप” । अत्रगुणवत्त्वे श्लेषः कम्बुग्रीवाधिबासादिवेति हेतूत्प्रेक्षायाहेतुः । अत्र जानीमहे इत्युत्प्रेक्षावाचकम् एवम् “मन्येशङ्केध्रुवं प्रायोनूनमित्येवमादयः” । क्वचिदुपमोपक्रमोत्प्रेक्षायथा । “पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाश-राजीः । वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवा-लाभाः” । इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा पर्य्य-वसाने तु जलधितीरे शैवालस्थितेः संभवानुपपत्तेः संभाव-नोत्थानमित्युत्प्रेक्षा एवं विरहवर्ण्णने । “केयूरायित-मङ्गदैरित्यत्र” “विकासिनीलोत्पलभिन्नकर्ण्णे मृगायताक्ष्याःकुटिलः कटाक्षः” इत्यादौ च ज्ञेयम् । भ्रान्तिमदलङ्कारे“मुग्धादुग्धधियेत्यादीं भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रिकादेर्ज्ञानं नास्ति तदुपनिबन्धनस्य कविनैव कृतत्वात् ।इह तु संभावनाकर्त्तुर्विषयस्यापि ज्ञानमिति द्वयोर्भेदः ।सन्देहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः इह तूत्कटासंभाव्यभूतैका कोटिः । अतिशयोक्तौ विषयिणः प्रतीतस्यपर्य्यवसानादसत्यता प्रतीयते इह तु प्रतीतिकालएवेतिभेदः । “रञ्जिता नु विविधास्तरुशैला नामितं नु गगनंस्थगितं नु । पूरिता नु विषमेवु धरित्री संहत्रा नु ककु-भस्तिमिरेण” इत्यत्र तर्व्वादो तिमिराक्रान्ततारञ्जनादिरूपेण सन्दिह्यतैति सन्देहालङ्कारैति केचिदाहुः ।तन्न एकविषये समानबलतयानेककोटिस्फुरणस्यैव सन्देहत्वात् इह तु तर्व्वादिव्याप्तेः प्रतिसम्बन्धिभेदव्यापनादेर्निगरणेन रञ्जनादेः स्फुरणञ्च । अन्येत्वनिर्द्धारणरूपविच्छित्त्याश्रयत्वेनैककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारैतिवदन्तिस्प तदप्ययुक्तं निगीर्ण्णस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भावना तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्याद्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता अलमट्टष्टसन्देहप्रकार-कल्पनया । “यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशकैति नो मां प्रति तथा । अहन्त्विन्दुंमन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्गिततनुम्” इत्यत्र मन्येशब्दप्रयोगेऽपि उक्तरूपायाःसम्भावनाया अप्रतीतेर्वितर्कमात्रम्” नासावपह्नवोत्प्रेक्षा ।२९ उदात्तम् “लोकातिशयसम्पत्तिवर्ण्णनोदात्तमुच्यते यद्वापि प्रस्तु-तस्याङ्गं महतां चरितं भवेत्” सा० द० । “अधः कृताम्भोधर-मण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम् । ज्योत्स्नानिपा-तात् क्षरतां पयोभिः केलीवनं वृद्धिमुरीकरोति” । “नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुंयुगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते” ।३० उपमा “साम्यं वाच्यमवैधर्म्म्यं वाक्यैक्ये उपमा द्वयोः” सा० द० ।रूपकादिषु साम्यस्य व्यङ्गत्वं व्यतिरेके च वैधर्म्म्यस्याप्युक्तिःउपमेयोपमायां वाक्यद्वयम् अनन्वये च एकस्यैव साम्यो-क्तिरित्यस्याभेदः । “सा पूर्ण्णा यदि सामान्यधर्म्म औप-म्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यम्” सा उपमासाधारणोधर्म्मो द्वयोः सादृश्यहेतुर्गु णक्रियामनोज्ञत्वादि, औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमानं चन्द्रादि ।“इयं पुनः । श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः” । यथेव-वादयः शब्दा उपमानान्तरप्रयुक्ततुल्यादिपदसाधारणा अपिश्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधय-न्तीति तत्सद्भावे श्रौती उपमा । एवं “तत्र तस्यैवेत्यनेन”इवार्थे विहितस्य वतेरुपादाने । तुल्यादयस्तु “कमलेनतुल्यं मुखमित्यादौ” उपमेय एव । “कमलं मुखस्य तुल्य”-मित्यादावुप्रमान एव “कमलं मुखञ्चतुल्य” मित्यादावुभयत्रापिविश्रामन्तीति तत्सद्भावे आर्थी । एवं “तेन तुल्यमित्या-दिना” तुल्यार्थे विहितस्य वतेरुपादाने । द्वे श्रौती आर्थी-च । उदाहरणम् “सौरभमम्मोरुहवन्मुखस्य कुम्भाविव स्तनौपीनौ । हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले! ॥
” अत्रक्रमेण त्रिविधा श्रौती । “मधुरः सुधावदधरः पल्लवतुल्यो-ऽतिपेलवः पाणिः । चकितमृगलोचनाभ्यां सदृशी चपलेच लोचने तस्याः” ॥
“अत्र क्रमेण त्रिविधा आर्थी“पूर्ण्णा षडेव तत् । “लुप्ता सामान्यधर्म्मादेरेकस्य यदि वाद्वयोः । त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्व्ववत्० ॥
सालुप्ता । तद्भेदमाह । “पूर्ण्णावद्धर्म्भलोपे सा विना श्रौतीन्तुतद्धिते” । सा लुप्तोपमा घर्म्मस्य साधारणगुणक्रियारूपस्यलोपे पूर्ण्णावदिति पूर्व्वोक्तरीत्या षट्प्रकारा, किन्त्वत्रतद्धिते श्रौथा असम्भवात् पञ्चप्रकारा । उदाहरणम् ।“मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये! । वाचः खुधाइवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्” ॥
“आधारकर्म्मविहितेद्विविधे च क्यचि क्यङि । कर्म्म कर्त्रोर्णमुलि च स्यादेवं पञ्चधापुनः” ॥
धर्म्मलोपे लुप्तेत्यनुषज्यते । क्रमेणोदाहरणम् ।“अन्तःपुरीयसि रणेषु, सुतीयसि त्वंपौरं जनं, तव सदारमणीयते श्रीः । दृष्टः प्रियामिरमृतद्युतिदर्शमिन्द्रसञ्चारमत्र भुवि सञ्चरसि क्षितीश”! ॥
अत्रान्तःपुरीयसीत्यत्रसुखविहारास्पदत्वस्य “सुतीयसीत्यत्र” स्नेहनिर्भरत्वस्यच साधारणधर्म्मस्य लोपः । एवमन्यत्र इह च यथादितुल्यादिविरहात् श्रौत्यादिविशेषचिन्ता नास्ति । इदञ्चकेचित् औपम्यप्रतिपादकस्य वतेर्लोपे उदाहरन्ति तदयुक्तम्क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात् । ननुक्यङादिषु सम्यगौपम्यप्रतितीर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वात्इवादिप्रयोगाभावाच्चेति चेन्न कल्पवादावपि तथाप्रसङ्गात् । न च कल्पवादोनामिवादितुल्यतयौपम्यस्य वाच-कत्वं, क्यङादीनान्तु द्योतकत्वम्” इवादीनामपि वाचत्वेनिश्चयाभावात् । वाचकत्वे वा समुदितं पदं वाचकं “प्रकृ-तिप्रत्ययौ स्वस्वार्थबोधकाविति च” मतद्वयेऽयि वत्यादिक्य-ङाद्योः साम्यमेवेति । यच्च केचिदाहुः “वत्यादय इवा-द्यर्थेऽनुशिष्यक्ते क्यङादयस्त्वाचारार्थे इति” तदपि न ।न खलु क्यङादय आचरमात्रार्था अपि तु सदृशाचारार्थाइति । तदेवं धर्म्मलोपे दशप्रकारा लुप्ता । “उपमानानु-पादाने द्विधा वाक्यसमासयोः” । उदाहरणम् । “तस्यामुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्” । अत्रमुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः ।अत्रैव च “मुखेन सदृशम्” इत्यत्र मुखं यथेदमिति” “नयन-तुल्यमित्यत्र” “दृगिवेति” पाठे श्रौत्यपि सम्भवतीत्यनयो-र्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विघत्वसम्भवेऽपि प्राची-नरीत्या द्विप्रकारत्वमेवोक्तम् । “औपम्यवाचिनो लोपे समासेष्वपि च द्विधा” । “वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्”“गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः” ॥
अत्र “गर्द्दभतीत्यत्र” औपम्यवाचिनः क्विपो लोपः । नचेह उपमेयस्यापि लोपः । “निनदन्निति” अनेनैवनिर्देशात् । “द्विधा समासे वाक्ये च लोपे धर्म्मोपमानयोः” ।“तस्या मुखेनेत्यादौ” “रम्यमिति” स्थाने “लोके इति”पाठेऽनयोरुदाहरणम् । “क्विप्समासगता द्वेधा धर्म्मेवादि-विलोपने” । उदाहरणम् । “विधवति मुखाब्जमस्याः” ।अत्र “विधवतीति” मनोहरत्वधर्म्म लोपः । केचित्त्वत्रापिक्विप्प्रत्ययलोपमाहुः । “मुखाब्जमिति” अत्र समासगा ।“उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि” । “अरातिविक्र-मालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्द्दण्डः स सह-स्रायुधीयति” ॥
अत्र स सहस्रायुधमिव आत्मानमाचर-तीति वाक्ये उपमेयस्यात्मनो लोपः । न चेह औपम्यवा-चकलोपः उक्तादेव न्यायात् । अत्र केचिदाहुः सहस्रायु-धेन सह वर्त्तत इति ससहस्रायुधः स इवाचरतीतिवाक्यात् ससहस्रायुधीयतीति पदसिद्धेः विशेष्यस्य शब्दानु-पात्तत्वादिहोपमेयलोप इति तन्न विचारसहम् । कर्त्तरिक्यचोऽनुशासनविरुद्धत्वात् । “धर्म्मोपमेयलोपेऽन्या” यथा“यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वो” ।अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारण-धर्म्मः शुक्लता च लुप्तौ । “त्रिलोपे च समासगा” । यथा ।“राजते मृगलोचना” । अत्र मृगस्य लोचने इव चञ्चलेलोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्म्मो-पमानानां लोपः । “तेनोपमाया भेदाः स्युः सप्तविंशतिसं-ङ्ख्यकाः” । पूर्ण्णा षड्विधा लुप्ता चैकविशंशतिविधेतिमिलित्वा सप्तविंशतिप्रकारोपमा । एषु चोपोमाभेदेषुमध्ये अलुप्तसाधारणधर्म्मेषु भेदेषु विशेषः प्रतिपाद्यते“एकरूपः क्कचित् क्कापि भिन्नः साधारणो गुणः ।भिन्ने विम्बानुविम्बत्वं शब्दमात्रेण वा भिदा” ॥
तत्रएकरूपे यथा “मधुरः सुधावदधरः” इत्यादि । विम्ब-प्रतिविम्बो यथा । “भल्लापवर्ज्जितैस्तषां शिरोभिःश्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव” ॥
अत्र “श्मश्रुलैरित्यस्य” “सरघाव्याप्तैरिति” च दृष्टान्तवत्प्र-तिविम्बनम् । शब्दमात्रेण भिन्नत्वे यथा । “स्मेरं विधायनयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामासकृशाङ्गो मनोगतं निखिलमाकूतम्” ॥
अत्र एके एवस्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्दभेदेन निर्दिष्टे ।“एकदेशविवर्त्तिन्युपमावाच्यत्वगम्यते । भवेतां यत्रसाम्यस्य” यथा ॥
“र्नत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिवअत्र नेत्रादोनां उत्पलादिसादृश्यं वाच्यं, सरःश्रीणा-ञ्चाङ्गनासादृस्यं गम्यम् । “कथिता रसनोपमा । यथो-र्द्ध्वमुपमेयस्य यदि स्यादुपमानता” ॥
“चन्द्रायते शुक्ल-रुचापि हंसो हंसायते चारुगतेन कान्ता । कान्तायतेस्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः” ॥
“मालो-पमा यदेकस्योपमानं बहु दृश्यते” । यथा । “वारिजेनेवसरसी शशिनेव निशोथिनी । यौवनेनेव वनिता नयेनश्रोर्ममनोहरा” ॥
क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वंदृश्यते ॥
“हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा ।विमलाः कुमुदानोव तारकाः शरदागमे” ॥
“अस्य राज्ञोगृहे भान्ति भूपानीता विभूतयः । पुरन्दरस्य भवनेकल्पवृक्षभवा इव” ॥
अत्रोपमेयभूतविभूतिभिः कल्पवृक्ष-वैभवा इवेति” उपमानभूता विभूतय आक्षिप्यन्त इतिआक्षेप्रोपमा । अत्रैव “गृहे इत्यस्य” “भवने इत्यनेनप्रतिनिर्द्देशात् प्रतिनिर्द्देश्योपमा इत्यादयश्च न लक्षिताःएवंविधवैचित्र्यस्य सहस्रधा सन्दर्शनात्” सा० द० ।“प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयव-सामान्ययोगः सेहोपमा मता” स० कण्ठा० ।३१ उपमानम् । “सदृशात् सदृशज्ञानमुपमानं द्विधेह तत् ।स्वादेकमनुभूतार्थेऽननुभूते द्वितीयकम्” । स० कण्ठा० तत्रानुभू-तार्थे यथा” सर्व्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षस्तत्संङ्घाताद्विघटितदलत्खण्डमुच्चण्डरोचिः । एवं वेगात् कुलिश-करोत् व्योम विद्युत्सहस्रं भर्त्तुर्वज्रज्वलनकपिशास्ते चरोषाट्टहासाः” ॥
अननुभूते “तां रोहिणीं विजानीहिज्योतिषामत्र मण्डले । समूहस्तारकाणां यः शकटाकार-माश्रितः” ॥
३२ उपमेयोपमा “पर्य्यायेण द्वयोरेतदुपमेयोपमा मता”दर्पणे । “कमलेव मतिर्मतिरिव कमला तनुरिवविभा विभेव तनुः”३३ उल्लासः “एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि” ।च० । तत्र गुणे “अपि मां पावयेत् साध्वी स्रात्वेतीच्छतिजाह्नवी । दोषे, “काठिन्यं कुचयोर्दृष्टं वाञ्छन्त्यः पाद-पद्मयोः । निन्दन्ति विश्वधातारं त्वद्वाटीष्वरियोषितः” ।३४ उल्लेखः “क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित् ।एकस्यानेकधोल्लेखः यः स उल्लेख इष्यते” सा० द० “प्रियइति गोपबधूभिः शिशुरिति वृद्धैरधीश इति देवैः ।नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिर्भिदेवः” ।“गाम्भीर्य्येण समुद्रोऽसि गौरवेणासि पर्वतः” ।३५ ऊर्जस्वि “ऊर्जस्वि रूढाहङ्कारम्” इति “अपकर्त्ताहसस्मीतिहृदि ते मा स्म भूद्भयम् । विमुखेषु न मे स्वड्गःप्रहर्त्तु” जातु वाञ्छति एवमुक्त्वा परोयुद्धे निरुद्धोदर्प-शालिना । पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्येवमादिकम्” इति च दण्डी ।३६ एकावली पूर्व्वं पूर्व्वं प्रति विशेषणत्वेन परं परम् ।स्थाप्यतेऽपोह्यते वाचा स्यात्तथैकावली द्विधा” ।सा० द० स्थापने । “सरोविकसिताम्भोजमम्भोजं भृङ्ग-सङ्गतम् । भृङ्गायत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ।वर्जने । “न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजंतद्यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यः कलंन गुंञ्जितं तन्न जहार यन्मनः” ।३७ कारकदीपकम् “क्रमिकैकगतानान्तु गुम्पःकारकदीपकम्” ।च० अत्र कारकः क्रिया कर्त्तृत्वादिसंज्ञाकारित्वात्“गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति” ।३८ कारणमाला “परंपरं प्रति यदा पूर्व्वपूर्व्वस्य हेतुता ।तदा कारणमाला स्यात्” । सा० द० “श्रुतं कृतधियांसङ्गाज्जायते, विनयः श्रुतात् । लोकानुरागोविनयान्न किं लोकानुरागतः” ॥
३९ काव्यलिङ्गम् “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्” ।सा० द० “जितोऽसि मन्द! कन्दर्प! मच्चित्तेऽस्तित्रिलोचनः” अत्र पदार्थस्य हेतुता । वाक्यार्थस्य यथा ।“यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघे-ष्वक्तरितं प्रिये तव मुखच्छायानुकारी शशी । येऽपित्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्य-विनोदमात्रमपि मेदैवेन न क्षम्यते” । अत्र चतुर्थषादार्थेआद्यपादत्रयार्थानां हेतुता ॥
४० काव्यार्थापत्तिः “कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते” ।च० “सं जितस्त्वन्मुखेनेन्दुः का वार्त्ता सरसीरुहाम्” ।४१ कैतवापह्नुतिः “कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः” ।च० “निर्यान्ति स्मरनाराचा बालादृक्पातकैतवात्” ।इयम् व्याजापह्नुतिरित्यन्ये अपह्नुतिशब्दे विवृतिः ।४२ गूढोक्तिः “गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति गद्यते” । च०“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः” । जारोद्देशेनवृषं प्रत्युक्तिः ।४३ चपलातिशयोक्तिः चपलातिशयोक्तिस्तत् पौर्वापर्य्यव्यति-क्रमः” । च० “अग्रे मानोगतः पश्चादनुनीता प्रियेण सा” ॥
४४ छेकापह्नुतिः “छेकापह्नुतिर तिरन्यस्य शङ्कातस्तस्य निह्नवे” ।च० “प्रजल्पन् मत्पदे लग्नः कान्तः किं? न हि नूपुरः”४५ तद्गुणः “तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः” ।च० “नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः” ॥
४६ तुल्ययोगिता “वर्ण्यानामितरेषां वा धर्म्मैक्यं तुल्ययोगिता”“सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च” । सा त्रिधा ।हिताहिते वृत्तितौल्यादमपरा तुल्यवोगिता । “प्रदीयतेपराभूतिर्मित्रशात्रवयोस्त्वया” । परा श्रेष्ठा भूतिरैश्वर्य्यं परा-भूतिः पराभवश्च “गुणोत्कृष्टेः समीकृत्य वचोऽन्या तुल्ययो-गिता” च० । “लोकपालोयमः पाशी श्रीदः शक्रो भवानपि” ।यमादिभिरुत्कृष्टैः लोकपालत्वेन समीकृतिरत्र ।४७ दीपकम् “वदलि वर्ण्ण्यावर्ण्ण्यानां धर्म्मेक्यं दीपकं बुधाः” ।च० दर्पणेतु” अथ कारकमेकं स्यादनेकासु क्रियासु चेत् । “सतीच योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपिअत्र अनुगमनरूपैकक्रियासम्बन्धः वार्ण्यावर्ण्ण्ययोः ।४८ दीपकावृत्तिः “त्रिविधा दीपकावृत्तिर्भवेदावृत्तिहेततःवस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना । अकृता-त्मीयकार्य्यः स्यादहेतुर्व्याहतस्तु यः” स० क० । “न विरचिताललाटतठनृत्य करीभ्रुकुटी न परुषहुङ्कृतेन मृदुस्मितमन्तरितम् । न तव निशुम्भसंभ्रमवशादपि दारुणया भग-वति! चेष्टया कलुषितं वदनाम्बुजम्” । अत्र कालुष्यस्यकारणे सत्यपि तज्जनने यदसामर्थ्यं तत्र त्वन्मुखाम्बुजवस्तुनः स्वभावोनिमित्तमतो न विशेषोक्तेरभेदः । शक्ति-हानितोयथा । “अनुरागवती सन्ध्या दिवसश्च पुरस्मरः ।अहो दैवगतिश्चित्रा तथापि न समागमः” ॥
अत्र दैवगत्याविद्यमानस्यपि समागमसामर्थ्यस्य कुण्ठीकरणात् हेतुशक्ति-हानिकृतम् दीपकम् । पदपदार्थोभयावृत्तिभेदात्रैविध्यमुक्तंचन्द्रालोके । यथा । “वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरीउन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः । माद्यन्तिचातकास्तृप्ता माद्यन्ति च शिखाबलाः”४९ दृष्टान्तः दृष्टान्तस्तु सघर्म्मरः वस्तुनः प्रतिविम्बनम् । सा० द०स च साधर्म्यवैधर्म्माभ्यां द्विधा । “तत्र साधर्म्ये अविदितंगुणापि सत्कधिणितिः कर्णेसु वसति मधुरधाराम् । अन-धिगत परिमलापि हि हरति दृशं मालतीमाला” ।वैवर्म्ये । त्वयि दृष्टे कुरङ्गाक्ष्याः श्रंसते मदनव्यथा ।दृष्टानुदयभा जीन्दौ ग्लानिः कुमुदसंहते” ।५० निर्दना “सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित् । यत्रविम्बानुविम्बत्वं बोधयेत् सा निदर्शना” ॥
सा० द० अत्रसम्भवद्वस्तुसम्बन्धनिदर्शना यथा । “कोऽत्र भूमिबलयेजनान् मुधा तापयन् सुचिरमेति सम्पदम् । वेदयन्निति-दिनेन भानुमानाससाद चरमाचलं ततः” ॥
अत्ररवेरीदृशार्यवेदनक्रियायां कर्तृत्वेनान्वयः सम्बवत्येवईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्म्मवत्त्वात्, स चरवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रति-विम्बभावं बोधयाते । असम्भवद्वस्तुसम्बन्धनिदर्शनात्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा । तत्रैकवाक्यगायथा । “कलयति कुवलयमालाललितंकुटिलः कटाक्ष-विक्षेपः । अधरः किसलयलीलामाननमस्याः कला-निधेर्विलासम्” ॥
अत्रान्यस्य धर्म्मं कथमन्यो वहत्वितिकटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कल-नमसम्भवत् तल्ललितादिसदृशं ललितादिकमवगमयत्कठाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावंबोधयति यथा वा । “प्रयांणे तव राजेन्द्र! मुक्ता वैरिमृ-गीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः” ॥
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इतितयोस्तत्सम्बन्धः कल्पाते, स चासम्भवन् राजहंसगति-मिव गतिं बोधयति । अनेकवाक्यगा यथा । “इदंकिलाव्याजमनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषर्व्यववस्यति”अत्र यत्तच्छब्दस्थनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्य-मानस्तादृशवपुषस्तपःक्षमत्वसाधनेच्छा नीलोत्पलपत्रधारयाशमीलताच्छेदनेच्छेवेति विम्बप्रतिविम्बभावे पर्य्यवस्यति ।५१ निरुक्तिः “निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्” ।“ददृशैश्चरितैर्जाने सत्यं दोषाकरोविधो” । दोषाकरस्य-रात्रिकरस्य दोषाणामाकरत्वरूपान्यार्थकल्पनमिह ।५२ निश्चयः “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः” । च०“वदनमिदं न सरोजं नयने नेन्दीवरे एतौ । इह सविधेमुग्धदृशो मधुकर! न मुधा परिभ्राम्य” ।५३ निषेधाभासः । आक्षेपभेदः विध्याभासे ४० पृष्ठे विवृतिः ।५४ परिकरः “उक्तिर्विशेषणैः साभिप्रायैः परिकरोमतः” ।च० “सुधांशुकलितोत्तं सस्तापं हरतु वः शिवः” ।५५ परिकराङ्कुरः “साभिप्रायोविशेष्यश्चेत् भवेत् परिकराङ्कुरः” ।च० “चतुर्ण्णां पुरुषार्थानां दाता देवश्चतुर्भुजः”५६ परिणामः “विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ।परिणामोभवेत्तुल्यातुल्याधिकरणोद्विधा” । सा० द० “स्मितेनोपायनं दूरादागतस्य कृतं सम । स्तनोपनीडमाश्लेषःकृतोद्यूते पणस्तया” अन्यत्र पणौपायने वसनाभरणादिनाउपयुज्येते अत्रतु नायकसम्भावनं स्मितमुपायनम् द्यूते चदृढतया आश्लेषरूपपणनम् । अत्र प्रथमार्द्धे वैयधिकरण्येनद्वितीयार्द्धे सामानाधिकरण्येनेति भेदः ।५७ परिवृत्तिः “परिवृत्तिविनिमयः समन्यूनाधिकैर्भवेत्” च०“दत्त्वा कटाक्षलक्ष्मीं सा जग्राह हृदयं मम । मयास्यैहृदयं दत्तं गृहीतो मदनज्वरः” “पूर्व्धार्द्धे समेनशेषार्द्धे न्यूलेन” “येन जर्जरकलेवरव्ययात् क्रीतमिन्दु-किरणोज्ज्वलं यशः” अन्योन्यान्तर्भाविनीति स० कण्ठा० ।५८ प्ररिसंख्या “परिसंख्या निषिध्यैकमेकस्मिन् वस्तु यन्त्रणम्”च० । “स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्” ।५९ पर्य्यस्तापह्नुतिः “अन्यत्र तस्यारोपार्था पर्य्यस्तापह्नुतिस्तुसा” च० । नायं सुधांशुःकिंतर्हि सुधांशुः प्रेयसीमुखम्” ।६० पर्य्यायः “क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् ।भवति क्रियते वा चेत्तदा पर्य्याय इष्यते ॥
” सा० द०क्रमेण यथा । “स्थिताः क्षणं पक्ष्मसु ताडिताधराःपयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः स्खलिताःप्रपेदिरे क्रमेण नाभिं प्रथमोदविन्दवः” ॥
“विचरन्तिविलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्रधावन्त्यरिपुरे तव” ॥
“विमृष्टरागादधरान्निवर्त्तितस्तनाङ्ग-रागादरुणाच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिःकृतोऽक्षसूत्रप्रणयी तया करः” । “ययोरारोपितस्तारोहारस्तेऽरिबधूजनैः ॥
निधीयन्ते तयोः स्थूलाः स्तन-योरश्रूविन्दवः” ॥
एषु च क्वचिदाधारः संहतरूपोऽसंह-तरूपश्च । क्वचिदाधेयमपि यथा “स्थिताः क्षणमित्यत्र”उदविन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन् ।“विचरन्ति” इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरेक्रमेणाभवन् ।६१ पर्य्यायोक्तम् “पर्य्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते”सा० द० “स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।सावज्ञं पारिजातस्य मञ्जर्य्योयस्य सैनिकैः” ।६२ पिहितम् “पिहित परवृत्तान्तज्ञातुः साकूतचेष्टितम्” च० ।“प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्” । प्रिये गृहा-गते परनारिकया सह रात्रिजागरणेन प्रातःशयन-मुचितमिति ज्ञापनाय कान्तया तल्पकल्पनं साकूतं चेष्टितम् ।६३ पुनरुक्तवदाभासः “आपाततो यदर्थस्य पौनरुक्त्यावभासनम् ।पुनरुक्तवदाभासः स भिन्नाकारशब्दगः” सा० द० “भुजङ्ग-कुण्डली व्यक्तः शशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापाया-दव्याच्चेतोहरः शिवः” ॥
अत्र भुजङ्गकुण्डल्यादिशब्दानाम्आपातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम् । पर्य्य-वसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम् ।पायादित्यस्यापायादित्यत्र पर्य्यवसानम् । भुजङ्गकुण्डली-तिशब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम् । हरः शिवइत्यत्र द्वितीयस्यैव । शशिशुभ्रांशुपदयोः द्वयोरपि ।शब्दपरिवृत्तिसहत्वासहत्वाभ्याम् अस्योभयालङ्कारत्वम् ।“भाति सदा न त्याग इति” अत्र तु न द्वयोरपीतिशब्दालङ्कारत्वमिति भेदः ।६४ पूर्व्वरूपम् “पुनः स्वगुणसंप्राप्तिः पूर्व्वरूपमुदाहृतम् ।पूर्व्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि” । च० “हरकण्ठां-शुदीप्तोऽपि शेषस्तद्यशसा सितः” । “दीपे निर्वापितेऽप्या-सीत् काञ्चीरत्नैर्महन्महः” ।६५ प्रतिवस्तूपमा “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः ।एकोऽपि धर्म्मः सामान्यो यत्र निर्द्दिश्यते पृथक्” सा० द०“धन्यासि वैदर्भि! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ।इतः स्तुतिः का स्वलु चन्द्रिकाया यदब्धिमप्युत्तरली-करोति” ॥
अत्र समाकर्षणमुत्तरलीकरणञ्च क्रिया एकैवपौनरुक्त्यनिरासाय भिन्नरूपतया निर्द्दिष्टा । इयंमालयापि दृश्यते यथा । “विमल एव रविर्विशदः शशीप्रकृतिशीभन एव हि दर्पणः । शिवगिरिः शिवहास-सहोदरः सहजसुन्दर एव हि सज्जनः” ॥
अत्र विम-लविशदादिरर्थत एक एव । वैधर्म्म्येण यथा । “चकोर्यएव चतुराश्चन्द्रिकापानकर्म्मणि” ॥
६६ प्रतिषेधः “प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्त्तनम्” । च०“न द्यूतमेतत् कितवाः! क्रीडनं निशितैः शरैः” ।६७ प्रतीपम् “प्रतीपमुपमानस्याप्युपमेयत्वकल्पनम् १ । अन्योप-मेयलाभेन वर्ण्ण्यस्यानादरश्च तत् २ । वर्ण्योपमानलाभेनतथान्यस्याप्यनादरः३ । वर्ण्ण्यान्यस्योपमाया अनिष्पत्ति-र्वचश्च तत् ४ । प्रतीपमुपमानस्य कैमर्य्यमपि मन्वते” ५ च०“क्रमेण यथा । “त्वल्लोचनसमं पद्मम्” १ “अलं गर्वेण तेवक्त! कान्त्या चन्द्रोभवादृशः” २ । “कःक्रौर्य्यदर्पस्तेमृत्यो!त्वत्तुल्याः सन्ति हि स्त्रियः” ३ । “मिथ्यावादोहिमुग्धाक्षि! त्वन्मुखाभं किलाम्बुजम्” । ४ । “दृष्टं चेत्वदनं तस्याः किं पद्मेन किमिन्दुना” । ५ ।६८ प्रत्यक्षम् । “प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते ।स्वानुभूतिभवं चैवमुपचारेण कथ्यते” । स० कण्ठा० ।तच्च युगपदेकशोबा तत्र युगपत् यथा । “क्रान्तकान्तवदन-प्रतिविम्बे मग्नबालसहकारसुगन्धौ । स्वादुनि प्रण-दितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः” एकशोयथा । “मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्मदधत्या ।वीक्ष्यते स्म शनकैर्नवबध्वा कामिनो मुखमधोमुखयेव”सुण्वादिविषयं मानसं यथा अस्तोकविस्मयमविस्मृतपूर्व्ववृत्तमुद्भूतनूतनभयज्वरजर्ज्जरं नः । एकक्षणत्रुटितसंघटितप्रमोदमानन्दसेकशबलत्वमुपैति चेतः” ।६९ प्रत्यनीकम् “प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः” च०“जैत्रनेत्रानुगौ कर्ण्णावुत्पलाभ्यामधःकृतौ” ।७० प्रस्तुताङ्कुरः “प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः” ।च० किं भृङ्ग! सत्यां मालत्यां केतक्या कण्टकस्थया” ।७१ प्रहर्षणम् “उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् १वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् २ । यत्नादु-पायसिद्धार्थात् साक्षाल्लाभः फलस्य तत् ३” च० । क्रमेण“तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका” १“दीपमुद्दीपयेद्यावत्तावदभ्युदितो रविः” २ “निध्यञ्ज-नीषधीमूलं खनताऽऽसादितोनिधिः” । ३ ।७२ प्रेयः “प्रेयः प्रियतराख्यानम्” दण्डी “अद्य या ममगोविन्द! जाता त्वयि गृहागते । कालेनैषा भवेत् प्रीतिस्तवैचगमनात् पुनः । इत्याह युक्तं विदुरो नान्यतस्तादृशी-धृतिः । भक्तिमात्रसमाराध्यः स प्रीतश्च ततो हरिः”इदञ्च दर्पणकारादिभिरनुक्तमपि काव्यादर्शादावुक्तम् ।७३ प्रौढोक्तिः “प्रौढोक्तिरुत्कर्षहेतौ तद्धेतुत्वप्रकल्पनम्” च० ।“कचाः कलिन्दजातीरतमालस्तोममेचकाः” ।७४ भावः । “अभिप्रायानुकूल्ये तु प्रवृत्तिर्भाव उच्यते सोद्भे-दोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः हृद्यं सूक्ष्मञ्च भिद्येत नहि भावात् कथञ्चन” तत्र प्रार्थनावेदनाभ्यामुद्भिद्यमानःसोद्भेदो भावोहृद्यमित्युच्यते । “निरुद्भेदस्तु यो भावःस सूक्ष्मस्तु निगद्यते । इङ्गिताकारलक्ष्यात् स सूक्ष्मात्स्याद्भूमिकान्तरमिति” स० कण्ठा० । स भावः भूमिको-न्तरमवस्थान्तरम् । तत्र हृद्यभावयोरुदाहरणे तत्रैव दृश्येसूक्ष्मस्य सूक्ष्मालङ्कारे वक्ष्यते ।७५ भाविकम् “अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः । यत्प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम्” २ । सा० द० तत्रभूतस्य “मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः यैनैक-चुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ” । भाविनः“आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषण-संभारां साक्षाद् कुर्वे तवाकृतिम्” ।७६ भेदकातिशयोक्तिः “भेदकातिशयोक्तिः स्यात् तस्यैवान्यत्व-कल्पनम्” च० । “अन्यद्देवस्य गाम्भीर्य्यमन्यर्द्धैर्य्यञ्च भूपत! ।७७ भ्रान्तापह्नुतिः “अन्यस्य शङ्कया भ्रान्तापह्नुतिः भ्रान्तिवारणे” । च० “तापं करोति सोत्कम्पं ज्ज्वरः किन्नु?सखे! स्मरः” ।७८ भ्रान्तिमान् “साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभो-त्थिता” सा० द० “मुग्धा दुग्धधिया गवां विदधतेकुम्भानधो वल्लवाः कण्ठे कैरवशङ्कया कुवलयं कुर्वन्तिकान्ता अपि । कर्कन्दूफलमुच्चिनोति शवरी मुक्तफला-शङ्कया सान्द्रा चन्द्रमसोन कस्य कुरुते चित्तभ्रमं चन्द्रिका”प्रतिभेतिविशेषणात् स्वरससिद्धे शुक्तिकायां रजतभ्रमे न ।साम्यादित्युक्तेः “सङ्गमविरहविकल्पे वरमिह विरहो नसङ्गमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयंविरहे” इत्यादौ त्रिभुवनवर्त्तियावद्वस्तुनः साम्याभावान्नभ्रान्तिमान् । अयं भ्रान्तिरित्यन्ये ।७९ मालादीपकम् “मालादीपकं पुनः । धार्म्मिणामेकधर्म्मेणसम्बन्धोयत् यथोत्तरम्” सा० द० । “त्वयि सङ्गरसंप्राप्तेधनुषासादिता शराः । शरैररिशिरस्तेन भूस्तया त्वं, त्वया यशः” अत्रासादनक्रियाधर्म्मस्य यथोत्तरं सम्बन्धः ।८० मिथ्याध्यवसितिः “किञ्चिन्मिथ्यार्थसिद्ध्यर्थं मिथ्यार्थान्तर-कल्पनम् मिथ्याध्यवसितिर्वेश्यां वशयेत् खस्रजं वहन्” । च०मिथ्यापह्नुतिस्तु अपह्नुतिभेदः ।८१ मींलितम् “मीलितं यदि सादृश्याद्भेद एव न दृश्यते” च०“रसोनालक्षि लक्षायाश्चरणे सहजारुणे” ।८२ मुद्रा “सूच्यार्थसूचनं मुद्रा प्रकृतार्थ परैः पदैः” । च०“नितम्ब गुर्व्वी तरुणी दृग्युग्मविपुला च सा” ।८३ यथासंख्यम् “यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः”च० शत्रुंमित्रंविपत्तिं च जय रञ्जय भञ्जय” । क्रम इत्यन्ये८४ युक्तिः “युक्तिः पराभिसन्धानं क्रियया मर्म्मगुप्तये” च० ।“त्वामालिखन्ती दृष्ट्वान्यां धनुः पौष्पं करेऽलिखत्” ।८५ रत्नावली “क्रमिकप्रकृतार्थानां न्यासं रत्नावलीं विदुः” च० ।“चतुरास्यः पतिर्लक्ष्म्याः सर्व्वेशस्त्वं महीपते!” । चत्वारिआस्यानि चतुरं निपुणमास्यमास्यव्यापारो वचनं च यस्य ।८६ रसवत् । “रसवद्रसपेशलम्” दण्डी “रसेन पेशलमाख्यानमित्यनुषङ्गः रसवत् । “मृतेति प्रेत्य सङ्गन्तुं ययामे मरणं मतम् । सैषा तन्वी मया लन्धा कथमत्रैवजन्मनि”तत्समर्थनञ्च तत्रैव “प्राक् प्रतिदर्शिता सेयं रतिःशृङ्गारतां गता । रूपबाहुल्ययोगेन तदिदं रस-वद्वचः । वाच्यस्याग्राम्यतायोनिर्माधुर्य्ये दर्शितोरसः ।इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम्” । दण्डी ।८७ रूपकम् “रूपकं रूपितारोपात् विपये निरपह्नवे ।तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा” । तत्र“यस्य कस्यचिदारोपः परारोपणकारणम् । प्रत्येकं केवलंमालारूपञ्चेति चतुर्विधम्” सा० द० । तत्र श्लिष्टशब्द-निबन्धनं केवलपरम्परितं यथा । “आहवे जगदुद्दण्ड-राजमण्डलराहवे । श्रीनृसिंह! महीपाल! स्वस्त्यस्तुतव बाहवे” ॥
अत्र राजमण्डलं नृपसमूह एव चन्द्रविम्बमित्यारोपो राजबाहोराहुत्वारोपे निमित्तम् । तदेव मालारूपं यथा । “पद्मोदयदिनाधीशः सदागतिसमीरणः ।भूभृदावलिदम्भोलिरेक एव भवान् भुवि” ॥
अत्र पद्मायाउदय एव पद्मानामुदयः, सतामागतिरेव सदागमनंभूभृतो राजान एव पर्व्वता इत्याद्यारोपो राज्ञःसूर्य्यत्वारोपे निमित्तम् । अश्लिष्टशब्दनिबन्धनं केवलं यथा“पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः” । अत्रत्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपेनिमित्तम् । अश्लिष्टमालारूपं यथा । “मनोजराजस्यसितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः । विराजतिव्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुविम्बम्” अत्र मनो-जादेराजंत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपेनिमित्तम् । एषु च “राजभुजादीनां राहुत्वाद्यारोपोराजमण्डलत्वारोपे निमित्तमिति” केचित् । “अङ्गिनोयदि साङ्गस्य रूपणं साङ्गमेव तत् । समस्तवस्तु विष-यमेकदेशविवर्त्ति च” । तत्र “आरोप्याणाशेषाणांशाब्दत्वे प्रथमं मतम्” । प्रथमं समस्तवस्तुविषयं, यथा ।“रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरु-च्छस्यं कृष्णमेघस्तिरोदधे” ॥
अत्र कृष्णस्य मेघत्वारोपेवागादीनाममृतत्वाद्यारोपितत्वम् । “यत्र कस्यचिदार्थत्वमेक-देशविवर्त्ति तत्” । कस्यचिदारोप्यमाणस्य । यथा । “लावण्य-मधुभिः पूर्णमास्यमस्या विकस्वरम् । लोकलोचनरोलम्ब-कदम्बैः कैर्न पीयते” ॥
अत्र लावण्यादौ मध्वाद्यारोपःशाब्दो मुखे पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्त्ति-न्युपमा विकस्वरत्वधर्म्मस्यारोप्यमाणे पद्मे मुख्यतया वर्त्तनात्मुखे चोपचरितत्वात् । “निरङ्गं केवलस्यैव रूपणं तदपिद्विधा । माला केवलरूपत्वात्” तत्र मालारूपं निरङ्गंयथा । “निर्म्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् ।क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा” ॥
केवलं यथा ।“दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इतिसुन्दरि! नात्र दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्य-द्भिद्यते मृदु पदं ननु सा व्यथा मे” ॥
“तेनाष्टौ रूपकेभिदाः” । चिरन्तनैरुक्ता इति शेषः । क्वचित् परम्परित-मप्येकदेशविवर्त्ति यथा । “खड्गः क्ष्मासौविदल्लः समितिविजयते मानवाखण्टलस्य” । अत्रार्थः क्षमाया महिषी-त्वारोपः स्वड्गे सौविदल्लत्वारोपे हेतुः । अस्य भेदस्यपूर्व्ववन्मालारूपत्वेऽप्युदाहरणं मृग्यम् । “दृश्यन्ते क्वचिदा-रोप्याः श्लिष्ठाः साङ्गेऽपि रूपके” । तत्रैकदेशविवर्त्तिश्लिष्टं यथा । “करमुदयमहीधरस्तनाग्रे गलिततमःपटलां-शुके निवेश्य । विकसितकुमुदेक्षणं विचुम्बत्ययममरेश-दिशो मुखं सुधांशुः” समस्तवस्तुविषयं यथा । अत्रैव“विचुम्बतीत्यादौ” “चुचुम्बे हरिदबलामुखमिन्दुनायकेनइति” पाठे । न चात्र श्लिष्टपरम्परितम् तत्र हि ।“भूमृदावलिदम्भोलिरित्यादौ” राजादौ पर्वतत्वादिरूपणंविना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्व्वथैवसादृश्यासम्भवादसङ्गतम् । तर्हि कथं “पद्मोदयदिनाधीशइत्यादौ” परम्परितं, राजादेः सूर्य्यादिना सादृश्यस्यतेजस्वितादिहेतुकस्य सम्भवादिति न वाच्यम् तथा हिराजादेस्तेजस्वितादिहेतुकं सुव्यक्तं सादृश्यं न तु प्रकृतेतद्विवक्षितं पद्मोदयादेरेव द्वयोः साधारणधर्म्मतयाविवक्षितत्वात्, इह तु महीधरादेः स्तनादिना सादृश्यंपीनोत्तुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम् ।कचित् समासाभावेऽपि रूपकं दृश्यते । यथा । “मुखं तवकुरङ्गाक्षि! सरोजमिति नान्यथा” । क्वचिद्वैयधिकर-ण्येऽपि । यथा । “विदधे मधुपश्रेणीमिह भ्रूलतयाविधिः” । क्वचिद्वैधर्म्येऽपि यथा । “सौजन्याम्बुमरुस्थलीसुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्द्दशी० सरल-तायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगेराजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवाकियत् कौशलम्” ॥
अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेष-मूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमध्ये गणनम् । एवंवक्ष्यमाणालङ्कारेषु बोद्धव्यम् । “अधिकारूढवैशिष्ट्यंरूपकं यत्तदेव तत्” । तदेवाधिकारूढवैशिष्ट्यसञ्ज्ञ-रूपकम् । यथा । “इदं वक्त्रं साक्षाद्विरहितकलङ्कःशशधरः सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमेनेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जल-धिरवगाहे सुखतरः” ॥
कलङ्कराहित्यादिनाघिकम् ।८८ रूपकातिशयोक्तिः “रूपकातिशयोक्तिः स्यान्निगीर्य्याध्यव-सानतः” च० “पश्यनीलोत्पलद्वन्द्वान्निःसरन्ति शिताःशराः”८९ ललितम् “प्रस्तुते वर्ण्ण्यवाक्यार्थप्रतिविम्बस्य वर्ण्णनम्” ।ललित” निर्गते नीरे सेतुमेषा चिकीर्षति च० ।९० लेशः “लेशःस्याद्दोषगुणयोर्गुणदोषत्वकल्पनम्” । च० “अखि-लेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक! पिञ्जरबन्धस्तेमधुराणां गिरां फलम्” । स० क० तु लवत्वेनायमुक्तः ।९१ लोकोक्तिः “लोकप्रवादानुकृतिर्लोकोक्तिरिति” कथ्यते च० ।“सहस्व कतिचिन्मासान् मीलयित्वा विलोचने” ।९२ विकल्पः “विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः” च० ।“सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः” ।९३ विकस्वरः “यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः” ।च० “स न जिग्ये महान्तोहि दुर्जयाः सागराइव” ।९४ विचित्रम् “विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् च० ।“प्रणमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान् । दुःखीयतिसुखहेतोः कोमूढः सेवकादन्यः” ।९५ वितर्कः “ऊहो वितर्कः सन्देहनिर्ण्णयान्तरधिष्ठितः ।द्विधासौ निर्ण्णयान्तश्चानिर्ण्णयान्तश्च कीर्त्त्यते । तत्त्वानुपात्यतत्त्वानुपाती यश्चोभयात्मकः” स० कण्ठा० ।तेषु निर्ण्णयान्तस्तत्त्वानुपाती यथा । “मैनाकः किमयंरुणाद्धि गगने मन्मार्गमव्याहता शक्तिस्तस्य कुतः ? सबज्रपतनाद्भीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समंनिजेन विभुना जानाति मां रावणमा ज्ञातं स जटायुरेष-जरसा क्लिष्टो बधं वाञ्छति” । स एवातत्त्वानुपाती यथा ।“अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गा-रैकनिधिः स्वयं नु मदनो मासोनु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेत्मनोरममिदं रूपं पुराणो मुनिः” चन्द्रादिष्वन्यतमेनप्रजापतिना भवितव्यमित्यतत्त्वानुपाती निर्ण्णयान्तोवितर्कः ।स एव उभयात्मा यथा “चित्ते निवेश्य परिकल्पितसत्त्वयोनाद्रूपोच्चयेन रचिता मनसा कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः”अत्र तत्त्वातत्त्वनुपातित्वादुभयात्मा निर्णयान्तो वितर्कः ।अनिर्ण्णयान्तो मिथ्याविषयो यथा । “अद्रेः शृङ्गं हरतिपवनः किंस्विदित्युन्मुस्वीभिर्दृष्टोच्छ्रायश्चकितचकितं मुग्घसिद्धाङ्गनाभिः” । स एवामिथ्यारूपो यथा । “अय-मसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमनेन च जिष्णुना स्विदिति वेग-वशान्मुमुदे गणैः” । स एव उभयात्मा यथा । माया स्विदेषा-मतिविभ्रमो वा ध्वस्तं नु मे वीर्य्यमथाहमन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते” ।९६ विधिः “सिड्वस्यैव विधानं यत् तामाहुर्विध्यलङ्कृतिम्” च० ।“पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्” ।९७ विध्याभासः वस्तुनोवक्तुमिष्टस्य तु विशेषप्रतिपत्तये । निषे-धाभास आक्षेपो वक्ष्यमाणोक्तगोद्विधा । अनिष्टस्य तथा-र्थस्य विध्याभासः परोमत इति” सा० द० । उदाहरणंतत्र ज्ञेयम् । आक्षेपभेद इत्यन्ये ।९८ विनोक्तिः “विनोक्तिः स्याद्विना किञ्चित् प्रस्तुतं हीन-सुच्यते । तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते” ।च० हीनत्वे “विद्या हृद्यापि सावद्या विना विनय-सम्पदम्” । रम्यत्वे “विना खलैर्विभात्येषा राजेन्द्र!भवतः सभा” । विनार्थगम्यतायामपि सा० द० । “निरर्थकंजन्मगतं नलिन्या यया न दृष्टं तुहिनांशुविम्बम् । उत्पत्ति-रिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन” ।९९ विभावना “विभावना विनापि स्यात् कारणं कार्य्यजन्मचेत् १ हेतूनामसमग्रत्वे कार्य्योत्पत्तिश्च सा मता २ । कार्य्योत्-पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ३ अकारणात् कार्य्यजन्म चतुर्थीस्याद्विभावना ४ । विरुद्ध्वात् कार्य्यसम्पत्तिर्दृष्टाकाचिद्विभावना ५ । कार्य्यात् कारणजन्मापि दृष्टा काचित्विभावना ६” च० । क्रमेण यथा । “अपि लाक्षारसाऽसिक्तंरक्तं ते चरणद्वयम्” १ । “अस्त्रैरतीक्ष्णकठिनैर्जगज्जयतिमन्मथः” । २ । “नरेन्द्रानेव ते राजन्! दशत्यसिभुजङ्गमः” । ३ ।नरेन्द्रोनृपो गरुडविद्याभिज्ञश्च दंशनप्रतिबन्धकमारुडविद्यासन्निधानेऽपि दंशनोत्पत्तेस्तृतीया विभावना” “शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम्” । ४ । “शीतांशुकिरणा-स्तन्वीं हन्त सन्तापयन्ति ताम्” । ५ । “यशःपयोराशिरभूत्करकल्पतरोस्तव” । ६ । दर्पणे तु “विभावना विना हेतुंकार्य्योत्पत्तिर्यदुच्यते । उक्तानुक्तनिमित्तत्वात् द्विधा सापरिकीर्त्तिता” इति लक्षयित्वा “विना कारणमुपनिब-ध्यमानोऽपि कार्य्योदयः किञ्चिदन्यत् कारणमपेक्ष्यैवभवितुं युक्तं तच्च कारणान्तरं क्वचिदुक्तं क्वचिन्नेति”व्यवस्थाप्य उदाहृतम् “अनायासकृशं मध्यमशङ्कतरलेदृशौ । अभूषणमनोहारि वपुर्वयसि सुभ्रुवः” । अत्रवयोरूपं निमित्तमुक्तम् “वपुर्भाति नतभ्रुत इति पाठेतदनुक्तमिति भेदः ।१०० विरोधः “जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः । विरुद्ध-मिव भासेत विरोधोऽसौ दशाकृतिः” । सा० द० क्रमेण यथा ।“तव विरहे मलयमरुद्दावानलः शशिरुचोऽपि सोष्माणः ।हृदयमलिरुतमपि भिन्तेनलिनीदलमपि निदाघरविरस्याः” ।“सन्ततमुसलासङ्गाद्बहुतरगृहकर्म्मघटनया नृपतौ । द्विज-पत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः” ।“अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतोजागरूकस्य याथार्थ्यं वेद कस्तवः” । “वल्लभोत्सङ्गसङ्गेन विनाहरिणचक्षुषः । राकाविभावरीजानिर्विषज्वालाकुलोऽ-भवत्” । “नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूप-मिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे” । “त्वद्वा-जिराजीत्यादि” “वल्लभोत्सङ्गेनेत्यादि” श्लोके चतुर्थपादे“मध्यन्दिनदिनाधिप” इति पाठे द्रव्ययोर्विरोधः । अत्र“तव विरह” इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जा-तिशब्दानां दावानलोष्णहृदयभेदनसूर्य्यैर्जातिगुणक्रिया-द्रव्यरूपैरन्योन्यं विरोघो मुखत आभासते । विरहहेतुकत्वेनसमाधानम् । अजस्येत्यादौ अजत्वादिगुणस्य जन्मग्रहणा-दिक्रियाविरोधः । भगवतः प्रभावस्यातिशयितत्वात्तुसमाधानम् । “त्वद्वाजीत्यादौ” “हरोऽपि शिरसा गङ्गांन धत्ते” इति विरोधः । “त्वद्वाजीत्यादिकविप्रोढोक्त्यातु समाधानम् । स्पष्टमन्यत् । विभावनायां कारणाभावे-नोपनिबध्यमानत्वात् कार्य्यमेव बाध्यत्वेन प्रतीयते । विशे-षोक्तौ च कार्य्याभावेन कारणमेव । इह त्वन्योन्थं द्वयो-रपि बाध्यत्वमिति भेदः ।१०१ विरोधाभासः । “आभासत्वं विरोधस्य विरोधाभासैष्यतेचन्द्रा० “अमित्रजिन्मित्रिजिदौजसा स यत् विचारदृक्चारदृगप्यवर्त्तत” नैषधम् ।१०२ विवृतोक्तिः “विवृतोक्तिः श्लेषगुप्तं कविनाविष्कृतं यदि”च० । “वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्” ।१०३ विशेषः “यदाधेयमनाधारमेकञ्चानेकगोचरम् । किञ्चित्प्रकुर्व्वतः कार्य्यमर्शक्यस्येतरस्य वा । कार्य्यस्याकरणंदैवाद्विशेषस्त्रिविधस्ततः” । सा० द० क्रमेण यथा । “दिव-मप्युपयातानामाकल्पगुणगणा येषाम् । रमयन्ति जगन्तिगिरःकथमपि कवयो न ते वन्द्याः” । “कानने सरिदुद्देशेगिरीणामपि कन्दरे । पश्यन्त्यन्तकंसङ्काशं त्वामेकं रिपवःपुरः” । “गृहिणी सचिवः सखी मिथः प्रियशिष्या ललितेकलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वदकिं न मे हृतम्?” ।१०४ विशेषोक्तिः “सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा”सा० द० । तथेत्युक्तानुक्तनिमित्तत्वात् । तत्रोक्तनिमित्तायथा । “धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः ।प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः” अत्र महामहिम-शालित्वं निमित्तमुक्तम् । अत्रैव चतुर्थपादे “कियन्तःसन्ति भूतले” इति पाठे त्वनुक्तम् । अचिन्त्यनिमित्तत्वंच अनुक्तनिमित्तस्यैव भेद इति पृथग्नोक्तम् यथा “स एवशस्त्रोजयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्यशम्भुना न हृतं बलम्” । अत्र तनुहरणेऽपि बलाहरणे निमित्तमचिन्त्यम् । इह च कार्य्याभावः कार्य्य-विरुद्धसद्भावमुखेनापि सा० द० ।१०५ विषमम् । “गुणैः क्रिये वा यत् स्यातां विरुद्धे हेतुकार्य्ययोः ।यद्वाऽऽरब्धस्य वैफल्यमनर्थस्य च सम्भवः । विरूपयोःसङ्घटना या च तद्विषमं मतम्” । सा० द० क्रमेण यथा । “सद्यःकरस्पर्शमवाप्य चित्रं रणेरणे यस्य कृपाणलेखा । तमा-लनीला शरदिन्द्रुपाण्डु यशस्त्रिलोकाभरणं प्रसूते” ।अत्र कारणरूपासिलतायाः “कारणगुणा हि कार्य्यगुण-मारभन्ते” इति स्थितेर्विरुद्धा शुक्लयशस उत्पत्तिः ।“आनन्दममन्दमिमं कुवलयदललोचने! ददासि त्वम् । विर-हस्त्वयैव जनितस्तापयतितरां शरीरं मे” । अत्रानन्द-जनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः । “अयंरत्नाकरोऽम्भोधिरित्यसेवि धनाशया । धनं दूरेऽस्तु वद-नमपूरि क्षारवारिभिः” । अत्र केवलं काङ्क्षितधनलाभीनाभूत् प्रत्युत क्षारवारिभिर्वदनपूरणम् । “क्व वनंतरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतंप्रतिकूलवर्त्तिनोवत धातुश्चरितं सुदुःसहम्” । अत्रवनराजश्रियोर्विरूपयोः सङ्घटना ।१०६ विषादनम् “इष्यमाणविरुद्धार्थसंप्राप्तिश्च वितादनम्”च० । “दीपमुद्दीपयेद्यावत्तावन्निर्व्वाण एव सः” ।१०७ व्यतिरेकः “आधिक्यमुपमेयस्योपमानान्न्यूनताथवा ।व्यतिरेक एक उक्ते हेतौ नोक्ते स च त्रिधा ॥
चतुर्विधोऽपिसाम्यस्य बोधनाच्छब्दतोऽर्थतः । आक्षेपाच्च द्वादशघाश्लेषेऽपीति त्रिरष्टधा । प्रत्येकं स्यान्मिलित्वाष्टचत्वा-रिंशद्विधः पुनः” ॥
सा० द० उपमेयस्योपमानादाधिक्येहेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणञ्च ।तयोर्द्वयोरप्युक्तावेकः” प्रत्येकं समुदायेन वानुक्तौत्रिविध इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनंशब्देनार्थेनाक्षेपेण चेति द्बादशप्रकारोऽपि श्लेषेऽपिश-ब्दादश्लेषेऽपि चतुर्बिंशतिप्रकारः । उपमानान्न्यूनता-यामनयैव भङ्ग्या चगुर्विंशतिप्रकारतेति मिलित्वाऽष्टच-त्वारिंशत्प्रकारो व्यतिरेकः । उदाहरणम् । “अकलङ्कंमुखं तस्या न कलङ्की विधुर्यथा” । अत्रोपमेयगतमकलङ्क-त्वमुपमानगतञ्च कलङ्कित्वं द्वयमप्युक्तम् । यथाशब्दप्रति-पादनाच्च शाब्दमौपम्यम् । अत्रैव “न कलङ्कि विधूपममिति”पाठे आर्थम् “जयतीन्दुं कलङ्किनमिति” पाठे तु इवादि-तुल्यादिपदविरहादाक्षिप्तम् । अत्रैवाकलङ्कपदत्यागे चोप-मानगतनिकर्षकारणानुक्तिः” द्वयोरनुक्तौ द्वयोरनुक्तिः ।श्लेषे यथा । “अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः” ।अत्र इवार्थे वतिरिति शाब्दमौपम्यम् उत्कर्षनिकर्षकारण-योर्द्वयोरप्युक्तिः । गुणशब्दः श्लिष्टः । अन्येभेदाः पूर्व्व-वदूह्याः । एतानि चीपमेयस्योपमानादाधिक्ये उदाहर-णानि । न्यूनत्वे दिङ्मात्रम् । यथा । “क्षीणःक्षीणो-ऽपि शशी भूयोभूयोऽभिवर्द्धते नित्यम् । विरम प्रसीदसुन्दरि! यौवनमनिवर्त्ति यातं तु” ॥
“अत्रोपमेयभूतयौवना-स्थैर्य्यस्याधिक्यं तेनात्र “उपमानादुपमेयस्याधिक्ये विप-र्य्यये वा व्यतिरेक इति” केषाञ्चिल्लक्षणे “विपर्य्यये वेतिपदमनर्थकमिति” यत् केचिदाहुः तन्न विचारसहम् ।तथा ह्यत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते । अत्रच चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव । अस्तु वात्रो-दाहरणे कथञ्चिद्गतिः । “हनूमदाद्यैर्यशसा मया पुन-र्द्विषां हसैर्दूतपथः सितीकृतः” ॥
इत्यादिषु का गतिं-रिति सुष्ठूक्तं “न्यूनताथ वेति” ।०८ व्याघातः “व्याघातः स तु केनापि वस्तु येन यथा कृतम्तेनैव चेदुपायेन कुरुतेन्यस्तदन्यथा १ । सौकर्य्येण च कार्य्यस्यविरुद्धं क्रियते यदि २ । सा० द० “दृशादग्धं मनसिजं जीव-यन्ति दृशैव याः” । “इहैव त्वंतिष्ठ द्रुतमहमहोभिः कतिपयैःसमागन्ता कान्ते! मृदुरसि नचायाससहना । मृदुत्वं मेहेतुः सुभग! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृत-मायासमसमम्” ॥
अत्र विदेशं जिगमिषुणा नायकेन नायिकायाः मृदुत्वं सहगमनाभावहेत्वेनोक्तं नानिकया तु प्रत्युतसहगमने ततोऽपि सौकर्य्येण तदेव हेतुतयोक्तम् ।०९ व्याजनिन्दा “निन्दायानिन्दया व्यक्तिर्व्याजनिन्देतिगीयते” च० । “विधे! स निन्द्योयस्तेप्रागेकमेवाहरच्छिरः” ।अत्र एकशिरोहर्त्तृशिवनिन्दाव्याजेन विधेर्निन्दाया व्यक्तिः ।१० व्याजस्तुतिः “उक्ता व्याजस्तुतिः पुनः । निन्दास्तुतिभ्यांवाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः” । सा० द० । निन्दायास्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिःस्तुत्या निन्दाया गम्यत्ये व्याजरूपा स्तुतिः । क्रमेणयथा । “स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव! ।त्वयि कुपितेऽपि प्रागिव विश्वस्ता रिपुस्त्रियो जाताः” ॥
“व्याजस्तुतिस्तव पयोद! सयोदितेयं यज्जीवनायजगतस्तव जीवनानि । स्तोत्रन्तु ते महदिदं घन! धर्म्म-राजसाहाव्वमर्ज्ययसि यत् पथिकान्निहत्य” ॥
१११ व्याजोक्तिः “व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोप-नम्” च० । “सखि! पश्य गृहारामपरागैरस्मि धूसरा” ।११२ शुद्धापह्नुतिः “शुद्धापह्नुतिरन्यस्यारोपार्थे धर्म्मनिह्नवः” ।च० “नायं सुधांशुः किं तर्हि? व्योमगङ्गासरोरुहम्” ।११३ श्लेषः शाब्दोऽलङ्कारः आर्थश्च शाब्दस्तूक्तः ३८९ पृष्ठेआर्थो यथा “शब्दैः स्वभावादेकार्थे श्लेषोऽनेकार्थवाचनम्”सा० द० । स्वभावादेकार्थैरिति शब्दश्लेषाद्व्यवच्छेदः ।“सर्व्वदो माधवःपायात् स यो गङ्गामदीधरत्” ।११४ संसृष्टिः “यद्येत एवालङ्काराः परस्परविमिश्रिताः । तदापृथगलङ्कारौ संसृष्टिः सङ्करस्तथा” सा० द० “देवःपायादपायान्नः स्मेरेन्दीवरलोचनः । संसारध्वान्तवि-ध्वंसहंसः कसनिसूदनः । अत्र पायात्पायादिति यमकम्स्मेरेन्द्रीवरेत्यादौ चानुप्रास इति शब्दालङ्कारयोः, संसार-ध्वान्तेत्यत्र उपमा, हंस इत्यत्र रूपकमित्यर्थालङ्कारयोः, शब्दार्थालङ्कारयोश्च परस्परानपेक्षयैवात्र ससर्गः ।११५ सङ्करः “अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितः । सन्दि-ग्धत्वे च भवति सङ्करस्त्रिविधः पुनः” सा० द० । तत्रा-ङ्गाङ्गिभावे यथा । “आकृष्टवेगविगलद्भुजगेन्द्रभोगनिर्म्मोकप-ट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्यमन्दाकिनी चिरमवेष्टत पादमूले” ॥
अत्र निर्म्मोकपट्टाप-ह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः । सा च मन्दा-किन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमितिश्लेषमुत्थापयतीति तस्याङ्गम् श्लेषश्च पादमूलवेष्टनमेवचरणमूलवेष्टनमित्यतिशयोक्तेरङ्गम् अतिशयोक्तिश्च “मन्थ-व्यथाव्युपशमार्थमिव” इत्युत्प्रेक्षाया अङ्गम् । उत्प्रेक्षाचाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीतिसमासोक्तेरङ्गम् । यथा वा । “अनुरागवती सन्ध्या दिव-सस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समा-गमः” ॥
अत्र समासोक्तिर्विशेषोक्तेरङ्गम् । सन्देहसङ्करोयथा । “इदमाभाति गगने भिन्दानं सन्ततं तमः ।अमन्दनेयनानन्दकरं मण्डलमैन्दवम्” ॥
अत्र किं मुखस्यचन्द्रतयाध्यवसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्यचन्द्रत्वारोपाद्रूपकं, अथ वा इदमिति मुखस्य चन्द्रमण्ड-लस्य च द्वयोरपि प्रकृतयोरेकधर्म्माभिसम्बन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकं किं वा विशेषणसाम्याद-प्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः, यद्वाऽप्रस्तुतस्यमुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालःस्वकार्य्यभूतचन्द्रवर्णनामुखेन वर्ण्णित इति पर्य्यायोक्तिरितिबहूनामलङ्काराणां सन्देहात् सन्देहसङ्करः । यथा वा मुख-चन्द्रं पश्यामीत्यत्र किं मुखं चन्द्र इवेत्युपमा उत चन्द्रएवेति रूपकमिति सन्देहः साधकबाधकयोर्द्वयोरेकतरस्यसद्भावे पुनर्न सन्देहः । यथा “मुखचन्द्रं चुम्बति”इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम् ।चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम्, “मुखचन्द्रःप्रकाशते” इत्यत्र प्रकाशाख्यो धर्म्मो रूपकस्य साधको मुखेउपचरित्वेन सम्भवतीति नोपमाबाधकः । “राजनारायणंलक्ष्मीस्त्वामालिङ्गति निर्भरम्” । अत्र योषित आलिङ्गनंनायकस्य सदृशेनोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यस-म्भवादुपमाबाधकं नारायणे सम्भवाद्रूपकम् । “एवं वदान-म्बुजमेणाक्ष्या भाति चञ्चललोचनम्” । अत्र वदने लोच-नस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्रूप-कस्य बाधकता । एवं “सुन्दरं वदनाम्बुजम्” इत्यादौसाधारणधर्म्मप्रयोगे, “उपमितं व्याघ्रादिभिः सामान्या-प्रयोगे” इति वचनादुपमासमासो नं सम्भवतीति उपमायाबाधकः । एवञ्चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव ।एकाश्रयानुप्रवेशो यथा । “कटाक्षेणापीषत् क्षणमपिनिरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेष-विषयः । सरोमाञ्चोदञ्चत्कुचकलशनिर्मिन्नवसनः परीरम्भा-रम्भः क इव भविताम्भोरुहदृशः” ॥
अत्र “कटाक्षेणा-पीषत्क्षणमपि” इत्यत्र छेकानुप्रासस्य “निरीक्षेत” इत्यत्रक्षकारमादाय वृत्त्यनुप्रासस्य चैकाश्रयेऽनुप्रवेशः । एवंचात्रैवानुप्रासार्थापत्त्यलङ्कारयोः । यथा वा । “कुरवकारवकारणतां ययुरिति” अत्र रवकारवका इत्येकं वकारव-कार इत्येकमिति यमकयोः । सा० द० ।११६ सन्देहः “स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयम्”च० “पङ्कर्ज वा सुधांशुर्वा अस्माकन्तु न निर्णयः” ॥
११७ समम् “समं स्यादानुरूप्येणश्लाघायोग्यस्य वस्तुनः” ।सा० द० “शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिघि-मनरूपं जह्नुकन्याऽवतीर्णा” । आनुरूप्यञ्च कारणा-नुरूप्यं तदन्यामुरूप्यम् इष्टपदार्थस्यायत्नसिद्धिहेतुकत्वञ्च ।“स्यरूपमपि कार्य्यस्य कारणेन समं विदुः । विनायत्नेन । तत्सिद्धिर्यदर्थं कर्त्तुमुद्यममिति” च० उक्तेः तत्रा-कारणानुरूप्यमुक्तम् कारणानुरूप्यं यथा “नीचप्रवणतालक्ष्मि! जलजायास्तवोचिता” । तृतीयं यथा “युक्तोवा-रणलाभोऽयं भूपतेर्वारणार्थिनः” ।११८ समाधिः “समाधिः सुकरे कार्य्ये दैवाद्वस्त्वन्तरागमात्” च० ।“मानमस्यानिराकर्त्तुं पादयोर्मे पतिष्यतः । उपकारायदिष्ट्येदमुदीर्ण्णं घनगर्जितम्” । स० कण्ठा० तु “समाधिमन्यधर्म्माणामन्यत्रारोपणं विदुः । निरुद्भेदोऽथ सोद्भेदःस द्विधा परिपठ्यते” इति लक्षितम् । उदाहरणं मृग्यम् ।११९ समासोक्तिः “समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः ।व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः” सा० द० ॥
तत्र समेनकार्य्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः यथा । “व्याधूययद्वसनमम्वुजलोचनाया वक्षोजयोः कनककुम्भविलास-भाजोः । आलिङ्गसि प्रमभमङ्गमशेषमस्या धन्यस्त्वमेवमलयाचलगन्धवाह!” । अत्र गग्धवाहे हठकामुकव्यवहार-समारोपः । लिङ्गसाम्येन यथा । “असमाप्तजिगीषस्यस्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत् कृत्स्नं नोसन्ध्यां भजते रविः” ॥
अत्र पुंस्त्रीलिङ्गत्वसात्रेणरविसन्ध्ययोर्नायकनायिकाव्यवहारः । विशेषणसाम्यन्तुश्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च त्रिघा । तत्रश्लिष्टतया यथा । “विकसितमुखीं रागासङ्गाद्गलत्तिमिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः ।जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितंहन्त प्राचेतसीं तुहिनद्युतिः” ॥
अत्र मुखरागादिश्लिष्टता । अन्यदुदाहार्य्यम् सा० द० ।१२० समुच्चयः “समुच्चयोऽयमेकस्मिन् सति कार्य्यस्य साधके ।खलेकपोतिकान्यायात्तत्करः स्यात् परोऽपि चेत् ॥
गुणौ क्रिये वा युगपत् स्यातां तद्वा गुणक्रिये” सा० द० । यथा ।“हंहो धीर! समीर! हन्त जननं ते चन्दनक्ष्माभृतोदाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः ।प्रत्यङ्गं दहसीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयंमलिनात्मको वनचरः किं वक्ष्यते कोकिलः” ॥
अत्रदाहे एकस्मिंश्चन्दनभूभृज्जन्मरूपे कारणे सत्यपिदाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्व्वेषामपिहेतूनां शोभनत्वात् सद्योगः । अत्रैव चतुर्थपादे मत्ता-दीनामशोभनानां योगादसद्योगः । सदसद्योगो यथा ।“शशी दिवसधूसरो गलितयौवना कामिनी सरो विगत-वारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सतत-दुर्गतःसज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे” ॥
“अरुणे च तरुणि! नयने तव मलिनञ्च प्रियस्य मुखम् ।मुखमानतञ्च सखि! ते ज्वलितश्चास्यान्तरे स्मरज्वलनः” ॥
अत्राद्येऽर्द्धे गुणयोर्यौगपद्यं द्वितीये क्रिययोः । उभयो-र्यौगपद्ये यथा । “कलुषञ्च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरश्रि चक्षुः । पतितञ्च महीपतीन्द्रा तेषां वपुषिप्रस्फुटमापदां कटाक्षैः ॥
“धुनोति चसिं तनुते चकीर्त्तिम्” इत्यादावैकाधिकरण्येऽप्येष दृश्यते ।१२१ सम्बन्धातिशयोक्तिः “सम्बन्धातिंशयोक्तिः स्यादयोगे योगकल्पनम् १ योगेऽप्ययोगसम्बन्धातिशयोक्तिरितीर्य्यते” २ च०“सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्” । १ ।“त्वयि दातरि राजेन्द्र! स्वर्द्रुमान्नाद्रियामहे” ।१२२ सम्भवः “प्रभूतकारणालोकात् स्यादेवमिति सम्भवः ।स विधौ । वा निषेधे २ वा द्वये ३ वा नद्वयेऽपि वा” ४स० क० क्रमेण यथा “त्वय्यादातुं जलमुपनते शार्ङ्गि-णोवर्ण्णचौरे न स्यात् सिन्धोः पूथुरपि ततो दूरभावात् प्रवाहः । प्रेक्षिष्यन्ते गगनगतयो न्यूनमावर्ज्यदृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्” । अत्रउक्तरूपेण दृश्योभविष्यसीति विधेः सम्भाव्यमानत्वादयंविधिरूपसम्भवः अत्रैव पूर्व्वार्द्धे सिन्धुप्रवाहस्य पृथुत्वनिषेधरूपसम्भवश्च एवंविधिनिवेधतदुभयानात्मकसम्भवयोरुदाहरणे मृग्ये ।१२३ सम्भावनम् “सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये”च० । “यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदिनायुषः स्यात् । पारेपरार्द्धं गणितं यदिस्याद् गणेयनिः-शेषगुणोऽपि स स्यात्” ।१२४ सहोक्तिः “सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः । सासहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत्” सा० द० । अति-शयोक्तिरप्यत्राभेदाध्यवसायमूला कार्य्यकारणपौर्व्वापर्य्य-विपर्य्ययरूपा च । अभेदाध्यवसायमूलापि श्लेष-निमित्ता अन्यथा च क्रमेणोदाहरणम् । “सहाधर-दलेनास्या यौवने रागभाक् प्रियः” अत्र रागपदे श्लेषः ।“सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमि-रौघैर्धैर्य्यमुत्साहरयन्तः । सह सरसिजषण्डैः स्वान्त-मामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति” ॥
अत्रो-ल्लासादीनां सम्बन्धिभेदादेव मेदो न तु श्लिष्टतया ।१२५ सामान्यम् “सामान्यं प्रकृतस्यान्यतदात्म्यं सदृशैर्गुणैः” ।च० “मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः । अवि-भाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः ।१२६ साम्यम् “द्वयोर्यत्रोक्तिचातुर्य्यादौपम्यार्थोऽवगम्यते । उप-मारूपकान्यत्वे साम्यमित्यामनन्तितत् । तदानन्त्येन भेदानांसंख्यानं तस्य दुष्करम्, । दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्तिरेव च । तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते । इवा-देरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः । वस्तु किञ्चिदुपन्यस्यन्यसनात् तत् सधर्म्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूक्ति-रुच्यते । तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके । साम्येपूर्व्वादिभेदेन दृष्टान्तोक्तिर्विधीयते” स० क० ॥
तत्र क्रिया-निमित्तम् “स्थितः स्थितामुच्चलितःप्रयातां निषेदुषीमास-नबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तांभूपतिरन्वगच्छत्” ॥
इदं पूर्व्वम् । उत्तरं यथा ।“रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम् ।न कारणात् स्वाद्बिभेदे कुमारः प्रवर्त्तितो दीप इवप्रदीपात्” । अन्यान्युदार्य्याणि ।१२७ सारः “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते” । च०“मधुरं मधु, पीयूषं तस्मात्, तस्मात् कवेर्वचः” ।१२८ सूक्ष्मम् “संलक्षितस्तुसूक्ष्मार्थ आकारेणेङ्गितेन वा । कयापिसूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते” । सा० द० सूक्ष्मः स्थूल-मतिभिरसंलक्ष्यः । तत्राकारेण यथा । “वक्त्रस्यन्दिस्वेदविन्दुप्रबन्घैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्याव्यञ्जयन्ती वयस्या स्मित्वा पाणौ स्वड्गलेखां लिलेख”अत्र कयाचित् कुङ्कुमभेदेन संलक्षितं कस्याश्चित् पुरुषा-यितं रतं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम् ।इङ्गितेन यथा । “सङ्केतकालमनसं विटं ज्ञात्वा विद-ग्धया । हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्” ॥
अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायोरजनिकालभांविना पद्मनिमीलनेन प्रकाशितः ।१२९ स्तोकोक्तिः “स्तोकोक्तिर्यत्र लोकोक्तिः स्यादर्थान्तरगर्भिता” ।च० “भुजङ्ग एव जानीते भुजङ्गाचरणं सखे” ।१३० स्मरणम् “सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते” । सा० द०“अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनंतस्याश्चारुचञ्चललोचनम्” । स० कण्ठा० तु भेदो-दर्शितः । “सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम् । स्मरणंप्रत्यभिज्ञानस्वप्रावपि न तद्बहिः” । तत्र सदृशवस्तुदर्शनजन्यं स्मरणमुक्तोदाहरणे । अदृष्टहेतुकं यथा “मुनिसुताप्रणय-स्मृतिरोधिना मम वियुक्तमिदं तमसा मनः । मनसिजेन सखे!प्रहरिष्यता धनुषि चूतशरश्च निवेशितः” । अत्र कण्वसुताशकृन्तलाप्रणयस्मृतिविरोधिना अज्ञानेन मम मनोवियुक्तमित्यदृष्टकृतं स्मरणम् न सदृशवस्तुदर्शनजन्यम् । चिन्ता-जन्यम् यथा “पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितांविपर्य्यासं यातो घनविरलभावः क्षितिरुहाम् । अहोदृष्टं कालादपरिमिव जातं वनमिदं निवेशः शैलानां तदि-दमिति बुद्धिं जनयति” । अत्र प्रत्यक्षेषु स्रोतस्तरुवनादिषुचिन्ताजन्यत्वात् चिन्तोद्भूतं स्मरणम् आदिग्रहणात् पर-प्रयत्नादपि यथा “दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृद-येन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता” ।अत्र परप्रयत्नजन्यत्वात्तथात्वम् । प्रत्यभिज्ञानं यथा । “स्पर्शःपुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोह-नश्च” । अत्र य एव पूर्व्वानुभूतः स एवैषः इति प्रत्यभिज्ञास्मरणम् । स्वप्नरूपं यथा । नागानन्दे “अद्य खलु स्वप्नेजानामि सैव प्रियतमा अत्र चन्दनलतागृहे चन्द्रकान्त-मणिशिलायामुपविष्टां प्रणयकुपिता किमपि मामुपलभ-मानेव रुदती मया दृष्टा” जीमूतवाहनेन विदूषकसमीपेस्वप्नस्य वर्ण्णनम् । स्वप्नप्रत्यभिज्ञयोः पूर्वानुभूतसंस्कारजात-त्वात् स्मरणत्वम् ।१३१ स्वभावोक्तिः “नानावस्थं पदार्थानां रूपं साक्षाद्विवृन्वती ।स्वभावोक्तिश्च जातिश्चेत्याख्यासालङ्कृतिर्मता” दण्डी “तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः । त्रिवर्णराजिभिः कण्ठै-रेजे मञ्जुगिरः शुकाः” । “कलक्वणितगर्भेण कण्ठेनाघूर्णिते-क्षणः । पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम्” । “बध्नन्नमन्दरोमाञ्चं कुर्व्वन् मनसि निर्वृतिम् । नेत्रे चामीलयन्नेव प्रियास्पर्शः प्रवर्त्तते” । “कण्ठेकालः करस्थेन कपाले-नेन्दुशेखरः । जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः” ।“जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम् । शास्त्रेष्वस्यैवसाम्राज्यं काव्येष्वप्येतदीप्सितम्” । इयं जातिरपि ।१३२ हेतुः “हेतोर्हेतुमता सार्द्धं वर्ण्णनं हेतुरुच्यते १ । हेतुहेतुमतोर्वैक्यवर्ण्णनं हेतुरुच्यते २” । “च० असावुदेति शीतांशुर्मानच्छेदेन सुभ्रुवाम्” १ । “लक्ष्मीविलासोभवतः कटाक्षा-वेक्षणं प्रभो! २ ।१३३ हेत्वपह्नुतिः “युष्ट्या स एव पूर्ण्णश्चेदुच्यते हेत्वपह्नुतिः ।”च० स एव धर्म्मनिह्नव एव । “नेन्दुस्तीव्रो न निश्यर्कःमिन्धोरोर्व्वोऽयमुत्थितः” । अत्येऽलङ्काराएष्वेवान्तर्भूताः ।देह भूषणानि च शिरस्त्रादीनि तानि च प्राघान्यादष्टौ “शिरस्यंमृकुटं हारः कुण्डलं चाङ्गदं तथा । कङ्कणं वलयञ्चैव मेख-लेत्यष्टधा वरम्” । वरं प्रधानं तेन अप्रधानानि पादकटका-दीन्यपि । तत्र भूषणद्रव्याणि “पद्मरागश्चवज्रञ्च गोमेदो-विजयस्तथा । मुक्ता वैदूर्य्यनीलानि तथा मरकतादयः ।सुवर्णेनापि घटना सर्वेषामुपदृश्यते । प्रधानभूषणेष्वेवमप्रधानेन निश्चयः । प्रधानभूषणं प्रायः शिरसोह्यं विधीयते” ।भृगु० “सुखदा मणयः शुद्धा दुःखदा दोषशालिनः” युक्तिक० नवालङ्गारधारणे विहितनक्षत्रादि यथा “रेवत्यश्वि-घनिष्ठासु हस्तादिष्वपि पञ्चसु । गुरुशुक्रबुधाहेषु वस्त्राल-ङ्कारधारणम्” ज्योति० अत्रापवादः “उद्वाहे राजसम्मानेब्राह्मणानाञ्च सम्मतौ । अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कार-धारणम्” । ६ नायकयोरङ्गजादिभावभेदेषुते च यथा “यौवनेसत्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तत्र भावहाव-हेलास्त्रयोऽङ्गजाः । शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रग-ल्भता । औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः । लीलाविलासोविच्छित्तिर्व्विव्वोकः किलकिञ्चितम् । मोट्टायितं कुदृ-मितं विभ्रमोललितं मदः । विकृतं तपनं मौग्ध्यं विक्षेपश्चकुतूहलम् । हसितं चकितं केलिरित्यष्टादशसंख्यकाः । स्वभा-वजाश्च भावाद्यादश पुंसां भवन्त्यपि” । पूर्व्वे भावादयोधैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्व्वेऽप्यभीनायिकाश्रिता एव विछित्ति विशेषं पुष्णन्ति” सा० द०उक्ताः । एषां लक्षणानि तत्तच्छब्देवक्ष्यन्ते । ७ अन्तगुरौचतुष्कले” ॥
ऽइत्याकारे गणभेदे च ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
