| YouTube Channel

अलक्ष्मीः (alakSmIH)

 
Apte
English
अलक्ष्मीः [alakṣmīḥ],
f.
Evil fortune, bad luck, distress, poverty
कामान् दुग्धे विप्रकर्षत्यलक्ष्मीम्
U.*
5.3.
The goddess of misfortune.
Apte 1890
English
अलक्ष्मीः f. Evil fortune, bad luck, distress, poverty
कामान् दुग्धे विप्रकर्षत्यलक्ष्मीं U. 5. 31.
Apte Hindi
Hindi
अलक्ष्मीः
"स्त्री* , न* त*" - -
"दुर्भाग्य, बुरी किस्मत, निर्धनता "
वैजयन्तीकोषः
Sanskrit
Word: अलक्ष्मीः
Root: अलक्ष्मी
Gender: स्त्री
Number: all
अर्थः दारिद्र्यम्
Meaning(s):
Evil fortune
poverty
Shloka(s):
1|2|42|1 अलक्ष्मीर्निरृतिर्ज्येष्ठा रावणस्तु हरानतः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|42|1 अलक्ष्मीः (अलक्ष्मी) (स्त्री) Evil fortune
poverty दारिद्र्यम्
1|2|42|1 निरृतिः (निरृति) (स्त्री) Evil fortune
poverty दारिद्र्यम्
1|2|42|1 ज्येष्ठा (ज्येष्ठा) (स्त्री) Evil fortune
poverty दारिद्र्यम्
Related word(s):
जातिः धनाभावः
शब्दकल्पद्रुमः
Sanskrit
अलक्ष्मीः,
स्त्री,
(न लक्ष्मी, नञत्र विरोधे ।) नरक-देवता तत्पर्य्यायः निरृतिः इत्यमरः
कालकर्णी इति शब्दरत्नावली
काल-कर्णिका इति जटाधरः
ज्येष्ठादेवी ५इति पाद्मोत्तरखण्डं
तस्या विवरणं ज्येष्ठाशब्देद्रष्टव्यं
*
दीपान्वितामावास्यायां तस्याः पूजा-विधिर्यथा तत्र प्रदोषे आदौ आचारादलक्ष्मी-पूजनं इत्याचार्य्यचूडामणिप्रभृतयः
गोमय-पुत्तलिकां निर्माय वामहस्तेन कृष्णपुष्पं गृहीत्वाध्यायेत् ।“अलक्ष्मीं कृष्णवर्णां द्विभुजां कृष्णवस्त्रपरीधानांलौहाभरणभूषितां शर्कराचन्दनचर्च्चितां गृह-सम्मार्ज्जनीहस्तां गर्दभारूढां कलहप्रियां” इतिध्यात्वा विमुखेन “ओँ अलक्ष्म्यै नमः” इत्यनेननिर्म्माल्येन कृष्णपुष्पेण संपूज्य प्रणमेत् ।“(ओँ)अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनी ।सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीं
दारिद्र्यकलहप्रिये देवि ! त्वं धननाशिनी ।याहि शत्रोर्गृहे नित्यं स्थिरा तत्र भविष्यसि
यदि त्वं मे महाभागे प्रीता भवसि सर्व्वदा ।पुत्त्रबन्धुकलत्रेषु कदाचिन्नागमिष्यसि
गच्छ त्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम ।मदाश्रयं परित्यज्य स्थिरा तत्र भविष्यसि”
ततः शूर्पवाद्येन सीमान्ते तां विसृजेत् ।इति कृत्यचन्द्रिका
*
किञ्च, --“एवं गते निशीथे तु नारी स्वगृहाङ्गनात् ।अलक्ष्मीश्च वहिष्कार्य्या अमन्त्रञ्च यथाविधि”
इति कृत्यतत्त्वार्णवधृतब्रह्मपुराणं
*
“एवं गते निशीथे तु जने निद्रार्द्धलोचने ।तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः
निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्”
इति निर्णयसिन्धौ मदनरत्नधृतभविष्यपुराणं