| YouTube Channel

अर्शसः (arzasaH)

 
शब्दकल्पद्रुमः
Sanskrit
अर्शसः, त्रि, (अर्शस् + अस्त्यर्थे अच् ।) अर्शोरोग-युक्तः इत्यमरः
(“हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्” ।इति मनुः ।“अन्नपानौषधं सर्व्वं तत्सेव्यं नित्यमर्शसाम् ।हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा ।शोथो हृत्पार्श्वशूलञ्च यस्यासाध्योऽर्शसो हि सः”
इति भावप्रकाशः ।)