अर्शः (arzaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit अर्शः, अनामकम्, गुदकीलः, गुदकीलकः, गुदाङ्कुरः, गुदोद्भवः, दुर्नामन्
व्याधिविशेषः- यस्मिन् गुदे मांसकीलः जायते।
"सः अर्शेण पीडितः अस्ति।"
शब्दकल्पद्रुमः
Sanskritअर्शः, [स्] (ऋ + असुन्, शुट् ।) स्वनाम-ख्यातपायुरोगः । तत्पर्य्यायः । दुर्नामकं २ । इत्य-मरः ॥
दुर्नाम ३ गुदकीलः ४ गुदाङ्कुरः ५ ।इति राजनिर्घण्टः ॥
अनामकं ६ । इति शब्द-रत्नावली ॥
यथा । अथार्शोऽधिकारः । तत्रार्शसःसन्निकृष्टनिदानान्याह ।“पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च ।अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये” ॥
केचिद्रुधिरस्यापि दोषत्वं मन्यन्ते । तन्मतमाश्रि-ग्राह । शोणितादिति । सहजानि शरीरेण सहजातानि । सङ्ख्याञ्चाह । षट्प्रकाराणीति । गुद-वलित्रये सार्द्धचतुरङ्गुलं गुदस्य मानं तस्यावयव-भूतास्तिस्रो वलयः शङ्खावर्त्तनिभा उपर्य्युपरिसन्ति । तासां नाम प्रवाहिणी विसर्जनी संव-रणी चेति । तत्र गुदौष्ठोऽर्द्धाङ्गुलमानस्तदूर्द्ध्व-मङ्गुलमाना प्रथमा वलिः । सार्द्धैकाङ्गुलमानाद्वितीया । तृतीया च तावती । उक्तञ्च ।“अर्द्धाङ्गुलप्रमाणेन गुदौष्ठं परिचक्षते ।गुदौष्ठादङ्गुलं चैकं प्रथमान्तु वलिं विदुः ॥
सार्द्धैकाङ्गुलमानेन पृथगन्ये प्रकीर्त्तिताः” ॥
* ॥
अथ वातार्शसो विप्रकृष्टं निदानमाह ।“कषायकटुतिक्तानि रूक्षशीतलघूनि च ।प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथूनसेवनं ॥
लङ्घनं देशकालौ च शीतौ व्यायामकर्म्म च ।शोको वातातपस्पर्शो हेतुर्व्वातार्शसां मतः” ॥
प्रमितमपरिमितं । तीक्ष्णमिति मद्यविशेषणं ।पैष्ट्यादिमृदुमद्यस्य वातसमकत्वात् । आतप-स्तूष्णवीर्य्योऽप्युद्भूतरौक्ष्याद्वातप्रकोपे हेतुः वाता-र्शसां । नन्वर्शांसि सर्व्वाणि त्रिदोषजानि । यत-आह ।“पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रये ।सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवः” ॥
इति ।तथा सति कथं वातार्शसामिति उच्यते । तत्त-दाधिक्याद्व्यपदेशभेद इति न दोषः । अतएवअग्रे वक्ष्यते । पित्तोल्वणानामिति तथाच चरकः ।“अर्शांसि नाम जायन्ते नासन्निपतितैस्त्रिभिः ।दोषैर्दोषविशेषात्तु विशेषः कथ्यतेऽर्शसां” ॥
इति ॥
* ॥
अथ पित्तार्शसो विप्रकृष्टनिदान-माह ।“कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः ।देशकालावशिशिरौ क्रोधोमद्यमसूयनंविदाहि तोक्ष्णमुष्णं यत् तत् सर्व्वं पानभोजनं ।पित्तेल्वाणानां विज्ञेयः प्रकोपे हेतुरर्शसां” ॥
उष्णद्रव्यस्य स्पर्शनादि बोद्धव्यं उष्णपानभोजन-स्याग्रे वक्ष्यमाणत्वात् । अग्न्यातपप्रभा अग्न्या-तपयोः प्रभा तेजः । अथवा अग्न्यातपेतरतेज-स्विद्रव्यस्य दीप्तिः प्रभा । अशिशिरो देशो मरुः ।असूयनं परसम्पत्तिद्वेषः । पानभोजनं पीयत इतिपानं । भुज्यते इति भोजनं प्रकोपे उत्पत्तौ ॥
* ॥
अथ कफार्शसो विप्रकृष्टं निदानमाह ।“मधुरस्निग्धशीतानि लवणाम्लगुरूणि च ।अव्यायामदिवास्वप्नशय्यासनसुखे रतिः ॥
प्राग्वातसेवाशीतौ च देशकालावचिन्तनं ।श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसां” ॥
अचिन्तनं निश्चिन्तता ॥
* ॥
अथ त्रिदोषार्शसोविप्रकृष्टं निदानमाह ।“सर्व्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समं” ।जनकत्वेन त्रयो दोषा येषां तानि त्रिदोषाणिअर्शांसि तेषां सर्व्वो हेतुः । पृथग्वातपित्त-कफार्शोहेतुः । त्रिदोषार्शसां लक्षणञ्च सहजैःसहजार्शोभिः समं सदृशं । ननु त्रिदोषाणां इतिविशेषणं व्यर्थं । यतः सर्व्व एव व्याधयस्त्रिदोषजाः ।उक्तञ्च ।“द्रव्यमेकरसं नास्ति न रोगोऽप्येकदोषजः ।एकस्तु कुपितो दोष इतरावपि कोपयेत्” ॥
इति । युक्तिमप्याह । स्वकारणाद्वद्धो वायुः शै-त्याच्छीतलं श्लेष्माणं लाघवात्तेजोरूपं पित्तं वर्द्ध-यते । तथा पित्तं कटुकत्वात् वातं द्रवत्वात् कफंवर्द्धयते । श्लेष्मा च शैत्याद्वायुं द्रवत्वात् पित्तंवर्द्धयते इति । उच्यते । यत्र स्वस्वकारणात्त्रयोदोषाः कुप्यन्ति तत्र त्रिदोषजव्यपदेश इति नदोषः ॥
* ॥
अथार्शसां पूर्व्वरूपमाह ।“विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च ।कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽप्लविट्कता ॥
ग्रहणीदोषपाण्ड्वर्त्तेः प्रशङ्का चोदरस्य च ।पूर्व्वरूपाणि निर्द्दिष्टान्यर्शसामभिवृद्धये” ॥
दौर्बल्यमाबल्यं । आटोपः गुड्गुडाशब्दः । अभि-वृद्धये उत्पत्तये ॥
* ॥
अथार्शसां संप्राप्तिपूर्व्वकंसामान्यं लक्षणमाह ।“दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन् ।मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः” ॥
त्वङ्मांसपदेन त्वङ्मांसाश्रितं रक्तमपि गृह्यते ।चिकित्सायां रक्तस्रावणोपदेशात् । अपानं गुदं ।आदिशब्दान्नासानेत्रनाभिमेढ्रादिष्वपि कुर्वन्ति ॥
* ॥
अथ वातार्शोलक्षणमाह ।“गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः ।म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः ॥
मिथोविसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः ।विम्बीकर्क्कन्धुखर्ज्जूरकार्पासीफलसन्निभाः ॥
केचित्कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः ।शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः ॥
क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः ।कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥
तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकं ।रुक्फेनपिच्छानुगतं विड्बद्धमुपवेश्यते ॥
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रञ्च जायते ।गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च” ॥
बह्वनिलाः वातोल्वणाः । गुदाङ्कुराः अर्शांसि ।चिमिचिमान्विताः चिमिचिमा व्यथाविशेषःचरचराव इति लोके तदन्विताः । श्यावारुणाःश्यावा धूम्रवर्णाः । अरुणा ईषद्रक्ताः । स्तब्धाःकठिनाः । विशदाः अपिच्छिलाः । परुषाः गो-जिह्वावत् स्पर्शे कर्कशाः । खराः कर्क्कोटकफल-वत् सूक्ष्मानेककण्टकाचिताः । विम्बादिफल-सन्निभाः आकृत्याः । अत्र विकल्पबोधकं वक्ष्यमाणंकेचित् केचिदिति पदं सग्वन्धनीयं ।“कदम्बपुष्पाभाः स्थूला अनेकसूक्ष्मशिखराः ।सिद्धार्थकोपमाः पीतसूक्ष्मपिडकाश्रिताः” ॥
तैरार्त्त इति अर्शोभिः पीडितः । तैरार्त्तो विडुप-वेश्यत इत्यार्त्तस्य प्रयोज्यकर्त्तुः कर्म्मतार्थत्वात् ।ग्रथितं मलगुटिकाग्रथितविड्वर्त्तिरूपं । पिच्छापिच्छिलो द्रवभागः । बद्धं संहतं । विष्शब्दो-नपुंसकेऽप्यस्ति । उपवेश्यते त्यज्यते । अतएववातार्शस एव गुल्मादीनां सम्भवः । अष्ठीलानाभेरधोभागे पाषाणपिण्डिकावद्वातव्याधिविशेषः॥
* ॥
अथ पित्तार्शोलक्षणमाह ॥
“पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः ।तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथः ॥
शुष्कजिह्वायकृत्खण्डजलौकोवक्त्रसन्निभाः ।दाहपाकज्वरस्वेदतृष्णामूर्च्छारतिप्रदाः ॥
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्च्चसः ।यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः” ॥
पित्तोत्तराः पित्तोल्वणाः । तनु अघनं । श्लथाःलम्बिनः । सन्निभाः आकृत्या । पाको गुदस्य ।सोष्माणः उष्णस्पर्शाः । हरिच्छाकवर्णं । पीतंहरितालवर्णं । हारिद्रं हरिद्रावर्णं । आदि-शब्दान्मलमूत्रमुखानां ग्रहणं ॥
* ॥
अथ केचि-द्रुधिरस्यापि दोषत्वं मन्यन्ते तन्मतमाश्रित्य रक्ता-र्शोलक्षणमाह ।“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः ।वटप्ररोहसदृशा गुञ्जाविद्रु मसन्निभाः ॥
तेऽत्यर्थं दुष्टमुष्णञ्च गाढविट्कप्रपीडिताः ।स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ॥
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ।हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ॥
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्त्तते ।तनु चारुणवर्णञ्च फेनिलञ्चासृगर्शसां ॥
कट्यूरुगुदशूलञ्च दौर्ब्बल्यं यदि वाधिकं ।तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणं ॥
शिथिलं श्वेतपीतञ्च विट् स्निग्धं गुरु शीतलं ।यद्यर्शसां घनञ्चासृक् तन्तुमत् पाण्डु पिच्छिलं ॥
गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणं ।श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्त्वार्शसां बुधैः” ॥
गुदे कीला अर्शांसि । पित्ताकृतिसमन्विताःपित्तार्शोलक्षणयुक्ताः । आकारेण च वटप्ररो-हादिसदृशाः । दुःखै रोगैः । त्वक्पारुष्याम्बु-शीतप्रार्थनादिभिः । कलुषेन्द्रियः व्याकुलसर्वेन्द्रियः॥
० ॥
रक्तजस्यापि वातोल्वणस्य लक्षणमाह ॥
तत्र रक्तार्शसि । अनुबन्धः उल्वणत्वं । रूक्षणंरूक्षयतीति रूक्षणं रूक्षं द्रव्यं । पित्तोल्वणस्य तुलक्षणं ।“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः” ।इत्यादिनैवोक्तं । रक्तपित्तयोः समानलिङ्गत्वात् ॥
॥
* ॥
कफोल्वणस्य लक्षणमाह । सपिच्छं पिच्छि-लार्द्रं । स्तिंमितमार्द्रचर्म्मावगुण्ठितमिव ॥
* ॥
अथश्लेष्मार्शोलक्षणमाह ।“श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः ।उत्पन्नोपचिताः स्निग्धाः स्तब्धवृत्तगुरुस्थिराः ॥
पिच्छिलास्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाःकरीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥
वङ्क्षणानाहिनः पायुवस्तिनाभिविकर्षिणः ।सकासश्वासहृल्लासप्रसेकारुचिपीनसाः ॥
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः ।क्लैव्याग्निमार्द्दवच्छर्द्दिरामप्रायविकारदाः ॥
वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः ।न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः” ॥
उत्पन्नाः उन्नताः । उपचिताः स्थूलाः । स्निग्धा ।सस्नेहाः । स्थिरा निश्चलाः । पिच्छिलाः कफा-रब्धत्वात् । स्तिमिताः आर्द्रवस्त्रगुण्ठिता इव ।श्लक्ष्णा मणिवन्मसृणाः । करीरो वंशाङ्कुरः ।पनसास्थिगोस्तनाः तदाकृतयः । वङ्क्षणानाहिनःवङ्क्षणयोरानाहकारिणः । पाष्वादिष्वाकर्षणवत्पीडाकारिणः । कृच्छ्रं मूत्रकृच्छ्रं । शिरोजाड्यंशिरसो भाराक्रान्तत्वमिव । क्लैव्यं स्त्रीष्वनिच्छा ।अत्र छर्द्दिशब्दः सान्त आर्षत्वात् । आमप्राय-विकारदाः आमबहुला व्याधयोऽतीसारग्रहण्या-दग्रः तान् ददाति ॥
* ॥
अथ द्वन्द्वजार्शोलक्षण-माह ।“हेतुलक्षणसंसर्गाद्विद्यात् द्वन्द्वोल्वणानि च” ॥
* ॥
अत्र त्रिदोषार्शसः सहजार्शसश्च लक्षणमाह ।“सर्व्वैः सर्व्वात्मकान्याहुर्लक्षणैः सहजानि च” ।सर्व्वैर्लक्षणैर्वातपित्तश्लेष्मार्शोलक्षणैः प्रागुक्तैः । स-र्व्वात्मकानि सान्निपातिकान्यर्शांस्याहुः । तथातरेव लक्षणैः सहजानि चार्शांस्याहुः ॥
* ॥
तन्त्रा-न्तरे सहजार्शोलक्षणं पृथगाह ।“अर्शांसि सहजातानि दारुणानि भवन्ति हि ।दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च ॥
अन्तर्म्मुखानि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत् ।क्षीणानलः क्षीणरेताः शिरासन्ततविग्रहः ॥
अल्पप्रजः क्रोघशीलः सन्ततान्त्रस्वनान्वितः ।शिरोदृक्कर्णनासासु रोगी हृल्लेपसेकवान्” ॥
* ॥
अथ सुखसाध्यार्शोलक्षणमाह ।“वाह्यायान्तु बलौ जातान्येकदोषोन्त्वणानि च ।अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च” ॥
वाह्यायां वलौ संवरण्यां । न चिरोत्पतितानिअनतिक्रान्तसंवत्सराणि । एतानि लक्षणानिमिलितानि सुखसाध्यत्वबोधकानि ॥
* ॥
अथ ।कष्टसाध्यार्शोलक्षणमाह ।“द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ।कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च” ॥
द्वितीयायां वलौ विसर्जन्यां । परिसंवत्सराणिपरिगतः सवत्सरो येषां तानि । अतिक्रान्त-संवत्सराणि इति यावत् । एतानि प्रत्येकं कष्ट-साध्यलक्षणानि ॥
* ॥
अथासाध्यार्शोलक्षणमाह ।“सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिं ।जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्दिशेत्” ॥
अभ्यन्तरां वलिं प्रवाहिणीं । एतान्यपि प्रत्येक-मसाध्यलक्षणानि ।“शेषत्वादायुषस्तानि चतुष्पादसमन्वये ।याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा” ॥
यद्यायुषः शेषो वर्त्तते चिकित्सायाश्चत्वारः पा-दास्ते यथा । वद्यवचनकारी धनवानुदारो जिते-न्द्रियो रोगी । १ । शास्त्रे कर्म्मणि च कुशलोवैद्यः । २ । अनलस आप्तः प्रियः परिचारकः । ३ ।नवं रसवीर्य्यादियुक्तमौषधं । ४ । एषां समन्वयेसंयोगे सति दीप्तकायाग्रेः पुरुषस्य । तानि अ-र्शांसि । याप्यन्ते चिकित्सया । अतोऽन्यथा प्रत्या-ख्येयानि न चिकित्स्यानीत्यर्थः ॥
* ॥
अथार्शो-ऽरिवृमाह ।“हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा ।शोथो हृत्पार्श्वशूलञ्च यस्यासाध्योऽर्शसो हि सः ॥
असाध्यः सन्निहितमरणो बोद्धव्यः । अर्शसःअर्शोरोगयुक्तः । एतन्मिलितमरिष्टलक्षणं ।“हृत्पार्श्वशूलं संमोहच्छर्द्दिरङ्गस्य रुग्ज्वरः ।तृष्णा गुदास्यपाकश्च निहन्युर्गुदजातुरं ॥
गुदस्य यदास्यमोष्ठदेशस्तस्य पाकः । हृत्पार्श्व-शूलादिसमस्तं व्यस्तं चारिष्टलक्षणं ॥
“तृष्णारोचकशूलार्त्तमतिप्रस्रुतशोणितं ।शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि” ॥
* ॥
अथ मेढ्रादिजार्शोलक्षणमाह ।“मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च ।गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च” ॥
यथास्वं यथात्मीयलक्षणं । न चात्रोक्तनिदान-पूर्व्वरूपसंप्राप्तिलक्षणयुक्तं । तत्र तत्रार्शःपदं तुमांसाङ्कुरसाम्यात् । गण्डूपदः किञ्चुलकः ॥
* ॥
अत्र मांसाङ्कुरसाम्यादत्राधिकारे चर्म्मकीलस्यसंप्राप्तिपूर्व्वकं लक्षणमाह ।“व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो वहिः ।कीलोपमं स्थिरखरञ्चर्मकीलन्तु तद्विदुः” ॥
चर्म्मा इति लोके । खरं कर्कशं ॥
* ॥
तस्यैववातादिभेदेन लक्षणमाह ।“वातेन तोदपारुष्यं पित्तादसितरक्तता ।श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता” ॥
सवर्णता शरीरसमानवर्णता ॥
* ॥
अथ सामान्यतः अर्शसश्चिकित्सा ।“यद्वायोरानुलोम्याय यदग्निबलवृद्धये ।अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः” ॥
अर्शसैः अर्शोरोगयुक्तैः ।“शालियष्टिकगोधूमयवान्नानि घृतैः सह ।अजाक्षीरेण वा निम्बपटोलानां रसेन वा ॥
कन्दैर्व्वार्त्ताकुमूलोत्थै रसैर्मांसरसेन वा ।जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः” ॥
१ ॥
कन्दोऽत्र शूरणः । अत्र मूलं मूलकं ।“अन्यैश्च सृष्टविन्मूत्रमरुद्भिर्वह्निदीपनैः ।अर्शांसि भिन्नवर्चांसि हन्याद्वातातिसारवत् ॥
सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनं ।न प्ररोहन्ति गदजाः पुनस्तक्रसमाहताः ॥
तक्राम्यासोऽर्शसैः कार्य्यो बलवर्णाग्निवृद्धये ।स्रोतःसु तक्रशुद्धेषु सम्यक् चलति यद्रसः ॥
तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते ।वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तयेत् ॥
मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।अद्यात् सतैललवणं दुर्नामविनिवृत्तये ॥
२ ॥
चिरिविल्वाग्निसिन्धूत्थनागरेन्द्रयवारलून् ।तक्रेण पिबतोऽर्शांसि निपतन्त्यसृजा सह” ॥
चिरिविल्वः करञ्जः तस्य फलस्यात्र मज्जा ग्राह्या ।अरलुः श्योनकः । करञ्जादिचूर्णं ॥
३ ॥
“लेपं रजनिचूर्णेन सुधादुग्धयुतेन च ।अर्शोरोगनिवृत्त्यर्थं कारयेत्तच्चिकित्सकः ॥
४ ॥
पिप्पलीसैन्धवं कुष्ठं शिरीषस्य फलं तथा ।स्नुग्दुग्धमर्कदुग्धं वा लेपोऽयं गुदजान् हरेत् ॥
५ ॥
हरिद्राजालिनीचूर्णं कटुतैलसमन्वितं ।एष लेपो वरः प्रोक्तो ह्यर्शसामन्तकारकः” ॥
जालिनी कटुतुरै इति लोके ॥
६ ॥
“असितानां तिलानान्तु पलं शीतजलेन तु ।खादतोऽर्शांसि शाम्यन्ति दृढादन्ता भवन्तिहि ॥
७ ॥
शस्त्रैर्व्वाथ जलौकोभिः प्रोच्छूनकठिनार्शसः ।शोणितं सञ्चितं दृष्ट्वा हरेत् प्राज्ञः पुनः पुनः ॥
८ ॥
कासीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली ।शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकं ॥
तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक् ।तैलं स्नुह्यर्कपयसा गवां मूत्रे चतुर्गुणे ॥
एतदभ्यङ्गतोऽर्शांसि क्षारेणैव पतन्ति हि ।क्षारकर्म्मकरं ह्मेतन्न च संदूषयेद्वलिं” ॥
कासीसं कौसीस इति लोके । लाङ्गली करहारीइति लोके । शिलाभित् पाषाणभेदः । अश्वमारःकनैल इति लोके । स्वर्णक्षीरी चोक इति लोके ।वृहत्कासीसाद्यं तैलं ॥
९ ॥
“शुण्ठीकणामरिचनागदलत्वगेलंचूर्णीकृतं क्रमविवर्द्धितमूर्द्ध्वमन्त्यात् ।खादेदिदं समसितं गुदजाग्निमान्द्यंगुल्मारुचिश्वसनकण्ठहृदामयेषु” ॥
तद्यथा । एलात्र सूक्ष्मा ग्राह्या । यत आह मदन-पालः ।“एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत्” ।इत्यादि । तस्या वीजभागः १ तजभागः २ दलंपत्रं । यत आह निघण्टौ धन्वन्तरिः ।“तमालपत्रकं पत्रं स्यात् पलाशं दलाह्वयम्” ।इति तस्य भागः ३ । नागो नागकेशरं । यतआह निघण्टौ धन्वन्तरिः ।“नागपुष्पं मतं नागं केशरं नागकेशरम्” ॥
इत्यादि । तस्य भागः ४ मरीचभागः ५ पिपरि-भागः ६ शुण्ठीभागः ७ चिनिभागः २८ । सम-शर्करचूर्णं ॥
१० ॥
“त्रिपलं शृङ्गवेरस्य चतुष्क मारचस्य च ।पिप्पल्याः कुडवार्द्धञ्च चव्यायाः पलमेव च ॥
तालीशपत्रस्य पलं पलार्द्धं केशरस्य च ।द्विपलं पिप्पलीमूलमर्द्धकर्षञ्च पत्रकात् ॥
सूक्ष्मैलाकर्षमेकन्तु कर्षञ्च त्वङ्मृणालयोः ।गुडात् पलानि त्रिंशच्च चूर्णमेकत्र कारयेत् ॥
अङ्कप्रमाणगुटिका प्राणदा चेति सा स्मृता ।पूर्व्वं भक्ष्यञ्च पश्चाच्च भोजनस्य यथाबलं ॥
मद्यं मांसरसं यूषं क्षारतोयं पिबेदनु ।हन्यादर्शांसि सर्व्वाणि सहजान्यस्रजानि च ॥
वातपित्तकफोत्थानि सन्निपातोद्भवानि च ।पानात्यये मूत्रकृच्छ्रे उरोरोगे गलग्रहे ॥
विषमज्वरपित्ते च पाण्डुरोगे तथैव च ।कृमिहृद्रोगिणाञ्चैव गुल्मशूलार्त्तिनां तथा ॥
छर्द्यतीसाररोगाणां कामलाहिक्किनां तथा ।शुण्ठीस्थानेऽभया देया हृद्ग्रहे पित्तजे गदे ॥
प्राणदेयं सितां दत्त्वा गुडमानाच्चतुर्गुणां ।अम्लपित्ताग्निमान्द्यादौ प्रयोज्या गुदजातुरे ॥
अनुपाने प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलं ।पलद्वयं त्वनिलजे पित्तजे तु पलत्रयं ॥
फलाम्लधान्याम्लरसास्यशस्तामद्यं मरुद्रोगिणि चानुपानं ।इक्षो रसक्षारहिमाम्बु पित्तेउष्णाम्बुयूषौ कफजे विदध्यात् ॥
गण्डूषमात्रमादेयं मृदौ क्रूरे च पञ्च वा ।अनुपानं प्रयोक्तव्यं देशकालमवेक्ष्य वा” ॥
इति प्राणदा गुटिका ॥
११ ॥
“त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयं ।चव्यतिक्ता कलिङ्गानि शताह्वा लवणानि च ॥
ग्रन्थिविल्वाजमोदा च गणोऽष्टाविंशतिर्मतः ।एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
चूर्णं विडालपदकं पिबेदुष्णेन वारिणा ।एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः ॥
हन्यादर्शांसि सर्व्वाणि श्वासशोषभगन्दरान् ।हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरं ॥
हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलं ।आमवातमुदावर्त्तमन्त्रवृद्धिं गुदक्रिमीन् ॥
अन्ये च ग्रहणीदोषा भिषग्मिर्ये प्रकीर्त्तिताः ।विजयो नाम चूर्णोऽयं तान् सर्व्वानाशु नाशयेत् ॥
महाज्वरोपसृष्टानां भूतोपहतचेतसां ।अप्रजानाञ्च नारीणां हितमेतद्धि भेषजं ॥
त्रिकत्रयं त्रिफलात्रिकटुत्रिसुगन्धीनि ।क्षारौ स्वर्ज्जिका यवक्षारश्च । लवणानि पञ्च ।ग्रन्थिः पिप्पलीमूलं । विडालपदकं कर्षं । विजय-चूर्णं ॥
१२ ॥
“मरिचमहौषधचित्रकशूरण-भागा यथोत्तरं द्विगुणाः ।सर्व्वसमो गुडभागःसेव्योऽयं मोदकः प्रसिद्धफलः ॥
ज्वलनं ज्वलयति जाठर-मुन्मूलयति शूलगुल्मगदान् ।निःशेषयति श्लीपद-मर्शांसि विनाशयत्याशु” ॥
तद्यथा । मरिचभागः १ शुण्ठीभागः २ चिता-भागः ४ शूरणभागः ८ गुडभागः १५ । लघु-शूरणमोदकः ॥
१३ ॥
“षोडशशूरणतोऽंशा वह्नेरष्टौ महौषधस्याथ ।अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन ॥
त्रिफला कणा समूला तालीशारुस्करकृमिघ्नानां ।भागा महौषधसमा दहनांशतालमूली च ॥
भागः शूरणतुल्यो दातव्यो वृद्धदारकस्यापि ।भृङ्गैले मरिचांशे सर्व्वाण्येकत्र कारयेत् चूर्णं ॥
द्विगुणेन गडेन युतः सेव्योऽयं मोदकः प्रकामधनैः ।गुरुवृष्यभोज्यनिरतैरितरेषूपद्रवं कुर्य्यात् ॥
भस्मकमनेन जनितं पूर्व्वमगस्त्यस्य योगराजेन ।भीमस्य मारुतेरपि महाशनौ येन तौ जातौ ॥
अग्निबलमात्रहेतुर्न केवलं शूरणो महावीर्य्यः ।हन्ता शस्त्रक्षारानलैर्विनाप्यर्शसामेषः ॥
श्वयथुश्लीपदगदहृद्ग्रहणीञ्च कफानिलोद्भुतां ।नाशयति वलीपलितं मेधां कुरुते जरां हरते ॥
हिक्कां कासं श्वासं सराजरोगान् प्रमेहांश्च ।प्लीहानञ्च तथोग्रं हन्यादाशु रसायनं पुंसां” ॥
एषां भागो यथा । शूरणभागः १६ चिताभागः ८सोठिभागः ४ मरिचभागः २ । हररे वहेराअवरा । पीपर पिपरामूल । तालीशं तालीश-पत्रं । अरुस्करं भल्लातकं । तदसह्यत्वे रक्तचन्दनं ।विडङ्गं प्रत्येकं भागः ४ तालमूली मूषली तस्याःभागः ८ विधाराभागः १६ तजभागः २ एलाइच-छोटीवीजभागः २ गुडभागः ४ । ७२ । वृहच्छू-रणो मोदकः ॥
१४ ॥
“त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा छित्रकं शटी ।गवाक्षीमुस्तविश्वाह्वविडङ्गानि हरीतकी ॥
पलोन्मितानि चैतानि पलान्यष्टावरुस्करात् ।वृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश ॥
जलद्रोणद्वये क्वात्थ्यं चतुर्भागावशेषितं ।पूत तु तं रसं भूयः क्वाथेभ्यः त्रिगुणं गुडं ॥
लेहं पचेत् पुनस्तावद्यावद्दर्व्वीप्रलेपनं ।अवतार्य्य ततः पश्चात् चूर्णानीमानि दापयेत् ॥
त्रिवृत्तेजोवतीकन्दचित्रकान् द्विपलांशिकान् ।एलात्वङ्मरिचं चापि नागाह्वं चापि षटपलं ॥
द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत् ।ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः” ॥
तेजोवती तेजवती तेजवल्कल इति च ।कन्दः शूरणः ।“हन्यादर्शांसि सर्व्वाणि तथा सर्व्वोदराण्यपि ।गुल्मानपि प्रमेहांश्च पाण्डूरोगं हलीमकं ॥
दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति ।आद्यवाते प्रतिश्याये पीनसेऽयं हितो मतः ॥
भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः ।दीर्घायुषः प्रजनना वलीपलितवर्ज्जिताः ॥
गुडः श्रीबाहुशालोऽयं रसायनवरो मतः ।दुर्न्नामान्तकरो ह्येष दृष्टो वारसहस्रशः ॥
यावद्दर्व्वीप्रलेपः स्याद्यावद्वा तण्डुली भवेत् ।तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥
क्षिप्तस्तु निश्चलस्तिष्ठेत् पतितस्तु न शीर्य्यति ।एष पाकः समस्तानां गुडानां परिकीर्त्तितः ॥
सार्द्धं पलं पलञ्चार्द्धं भक्षयेद्गुडखण्डयोः ।श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा” ।बाहुशालो गुडः ॥
१५ ॥
“तिला भल्लातकं पथ्या गुडश्चेति समांशकं ।दुर्न्नामश्वासकासघ्नं प्लीहपाण्डूज्वरापहं ॥
पित्तश्लेष्मप्रशमनी कच्छुदद्रुरुजापहा ।गुदजान्नाशयत्याशु भक्षिता सगुडाभया” ॥
१६ ॥
* ॥
“प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरं ।जीवितारोगमन्विच्छन्नारदोऽपृच्छदीश्वरं ॥
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्व्विना ।चिकित्सामर्शसां नॄणां कारुण्याद्वक्तुमर्हसि ॥
नारदस्य वचः श्रुत्वा नराणां हितकाम्यया ।अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ॥
पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभं ।कृत्वा निर्म्मलमादौ तु कुनट्या माक्षिकेण च ॥
पत्तूरमूलकल्केन लिम्पेद्रसयुतेन च” ।कुनटी मनःशिला । माक्षिकं सुवर्णमाक्षिकं ।पत्तूरं वकम इति लोके । शालिञ्चा इति रसेन्द्र-चिन्तामणौ । रसः पारदः ।“वह्नौ निःक्षिप्य विधिवत् साराङ्गारेण निर्धमेत् ।ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन वा” ॥
सारः काष्ठसारः । शालाङ्गारेण इति रसेन्द्र-चिन्तामणौ पाठः ।“ततो विज्ञाय गलितं शङ्कुनोर्द्ध्वं समुत्क्षिपेत् ।त्रिफलाया रसे पूते तदाकृष्य तु निर्व्वपेत् ॥
न सम्यग्गालितं यत्तु तेनैव विधिना पुनः ।ध्मातं निर्व्वापयेत्तस्मिन् लोहं तत् त्रिफलारसे ॥
यल्लोहं न मृतं तत्र पाच्यं भूयोऽपि पूर्व्ववत् ।मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत् ॥
ततः संशोष्य विधिवत् चूर्णयेल्लोहभाजने ।लोहेनैव तथा वत्स दृषदा सूक्ष्मचूर्णितं ॥
कृत्वा लोहमये पात्रे मार्द्दे वा लिप्तरन्ध्रके ।रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना ॥
पुटानि क्रमशो दद्यात् पृथगेषां विधानतः ।त्रिफलार्द्रवभृङ्गाणां केशराजस्य बुद्धिमान् ॥
माणकन्दकभल्लातवह्नीनां शूरणस्य च ।हस्तिकणंपलाशस्य कुलिशस्य तथैव च” ॥
भृङ्ग भङ्गरिया । केशराजः भृङ्गराज इति द्विः ।कुलिशं स्नुहीक्षीरं ।“पुटे पुटे चूर्णयित्वा लोहात् षोडशिकं पलं ।तन्मानं त्रिफलायाश्च पलेनाधिकमाहरेत् ॥
अष्टभागावशिष्टे तु रसे तस्याः पचेद्बुधः ।अष्टौ पलानि दत्त्वा च सर्पिषो लोहभाजने ॥
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्व्वकं ।ततः पाकविधानज्ञः स्वच्छे चोर्द्ध्वे च सर्पिषि ॥
मृदुमध्यादिभेदेन गृह्णीयात् पाकमाज्यतः ।आरभेत विधानज्ञः कृतकौतुकमङ्गलः ॥
भ्रामरं घृतसंयुक्तं विलिह्याद्रक्तिकक्रमात् ।वर्द्धमानानुपानञ्च गव्यक्षीरेण संयुतं ॥
गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनं ।सद्योवह्विकरञ्चैव भस्मकञ्च नियच्छति ॥
हन्ति वातं तथा पित्तं कुष्ठानि विविधं ज्वरं ।गुल्माक्षिपाण्डुरोगांश्च निद्रालस्यमरोचकं ॥
शूलञ्च परिणामञ्च प्रमेहमवबाहुकं ।अयथुं रुधिरस्रावं दुर्न्नामानं विशेषतः ॥
बलकृद्वृंहणञ्चैव कान्तिदं स्वरवर्द्धनं ।शरीरलाघवकरमारोग्यं पुष्टिवर्द्धनं ॥
आयुष्यं श्रीकरञ्चैव वयस्तेजस्करं शुभं ।सश्रीकपुत्रजननं वलीपलितनाशनं ॥
दुर्न्नामारिरयं नाम्ना दृष्टो वारसहस्रशः ।अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना ॥
सौकुमार्य्याल्पकायत्वात् मद्यसेवी यथा नरः ।जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत्” ॥
रसेन्द्रचिन्तामणौ यथास्थाने यदा तृतीयचरण-स्थाने जीर्णे मद्ये प्रयोक्तव्यमिति पाठः ।“लावतित्तिरवर्त्तीरमयूरशशकादयः ।चटकः कलविङ्कश्च वर्त्तका हरितालकः ॥
श्येनकश्च वृहल्लावो वनविष्करकादयः ।पारावतमृगादीनां मांसं जाङ्गलकं शुभं ॥
वर्त्तीरः वगेरा इति लोके । चटको वन्यचटकः ।कलविङ्को गृहचटकः । वर्त्तका वटई इति लोके ।हरितालकः हरिताल इति लोके । विष्किरा-वर्त्तकादयः ।“मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।मत्स्यराजा इमे प्रोक्ता हितमत्स्याय देहिने ॥
वृन्ताकम्य फलं शस्तं पटोलं वृहतीफलं ।प्रलम्बाभीरुवेत्राग्रं तालकस्तण्डुलीयकं” ॥
प्रलम्बा लम्बालावुः । अभीरुः शतावर्य्याः पत्रशाकं ।तालकः देवदालो । तथा च निघण्टौ धन्वन्तरिः ।“जीमूतको देवताडो वृत्तकोशो गरा गरी ।प्रोक्ताखुविष हृद्वेणी देवदाली च ताडकः ॥
देवदाली रसे तिक्ता कफार्शःशोयपाण्डुताः”नशयेदित्यादि ॥
“वास्तूकं धान्यशाकञ्च केमुकं चक्रवर्त्तनं” ।चक्रवर्त्तनं चकवतशाकं ।“नारिकेलञ्च खर्ज्जूरं दाडिमं लवलीफलं ।शृङ्गाटकञ्च पक्वाम्रं द्राक्षा तालफलानि च ।जातीकोशं लवङ्गञ्च पूगं ताम्बूलपत्रकं ॥
हितान्येतानि वस्तूनि लोहमेतत् समश्नतां ।नाश्नीयाल्लकुचं कोलं कर्क्कन्धुवदराणि च ।जम्बीरं वीजपूरञ्च तिन्तिडीं करमर्द्दकं” ॥
कोलं क्षुद्रवदरं । कर्क्कन्धुवदराणि महान्ति ।“आनूपानि च मांसानि क्रकरं पुण्ड्रकानपि ।हंससारसदात्यूहशङ्कुकङ्कबलाकिकाः ॥
माणकन्दकरीराणि कतकञ्च कलिङ्गकं ।कुष्माण्डकञ्च कर्क्कोटं केमुकञ्च विशेषतः ॥
कटुकं कालशाकञ्च कशेरुं कर्क्कटीं तथा ।ककारादीनि सर्व्वाणि द्विदलानि च वर्जयेत् ॥
शङ्करेण समाख्यातश्चूर्णराजोऽनुकम्पया ।जगतामुपकाराय दुर्नामारिरयं ध्रुवं ॥
स्थानादपैति मेरुश्च पृथ्वी पर्य्येति वायुना ।पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवं ॥
ब्रह्मघ्नाश्च कृताघ्नाश्च क्रूरा येऽसत्यवादिनः ।वर्ज्जनीयाः स्वधर्म्मेण भिषजा गुरुनिन्दकाः ॥
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।द्रावयति लोहदोषान् वह्निर्नवनीतपिण्डमिव” ॥
मुनिरत्रागस्तिः ।“काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे ।अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥
कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।क्षपयत्यचिरात्त्रितयं लोहाजीर्णोद्भवं शूलं” ॥
वङ्गसेनस्य अगस्तेः ।“जीर्णे लोहे पतति चूर्णं भुञ्जीत सिद्धसाराख्यं ।लोहव्यापन्नश्यति विवर्द्धते जाठरो वह्निः” ॥
तद्यथा, --“पथ्यासैन्धवशुण्ठीमागधिकानां पृथक् समो भागः ।त्रिवृतो भागौ निम्बू भाव्यं तत् सिद्धसाराख्यं” ॥
“भवेद्यद्यतिसारस्तु दुग्धं पीत्वा रुजं जयेत् ।गुञ्जाद्वादशकादूर्द्ध्वं वृद्धिरस्य भयप्रदा” ॥
शङ्करप्रणीतं लोहं । इति सामान्यक्रिया ॥
१७ ॥
* ॥
अथ रक्तार्शसां चिकित्सा ।“रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ।दुष्टास्रे निगृहीते स्युः शूलानाहासृगामयाः ॥
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्व-थिताः । रक्तार्शसां प्रशमना दार्व्वीत्वगुशीरनिम्बावा” ॥
चन्दनमत्र रक्तचन्दनं । चन्दनादिक्वाथः ॥
१ ॥
नवनीततिलाभ्यासात् २ । केसरनवनीतशर्करा-म्यासात् ३ । दधिसरमथिताभ्यासात् ४ । गुदजाःशाम्यन्ति रक्तावहाः ॥
“दध्नस्तूपरि यो भागो घनः स्नेहयुतः सरः” ।मथितं सररहितं निर्ज्जलं वस्त्रपूतं दधि ।सपत्रकेसरं क्षौद्रं नवनीतं त्वचं लिहन् ।सिताकेशरसंयुक्तं रक्तार्शसः सुखीभवेत् ॥
५ ॥
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणां ।ओदनमद्यादम्लैर्मधुरैरीषत्सुगन्धैश्च ॥
६ ॥
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ।सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके” ॥
समङ्गा लज्जालुः । मोचाह्वो मोचरसः । तिरीटोलोध्रः । चन्दनमत्र रक्तं । समङ्गादिदुग्धं ॥
७ ॥
“भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः ।बन्धनात् सुदृढं सूत्रं छिनत्त्यर्शोभगन्दरं” ॥
क्षारसूत्रं ॥
८ ॥
“नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि ।क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदितां ॥
चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना ।वेगावरोधस्त्रीपृष्ठयानान्युत्कटकाशनं ॥
यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत्” ।इत्यर्शोऽधिकारः ॥
* ॥
इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
